Saturday, February 24, 2024

Shloka 104 - Sri Varadarajastava


   Click on the image to open:
       राजन्त्यनर्घमणिसङ्घमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः ।    
आघ्राय गन्धमलिनस्तव कुन्तलामन्तः प्रवेष्टुमनसः परितो निलीनाः ॥१०४॥
T: Oh Lotus-eyed Lord, those shining elements in Your crown studded with precious gems are not the best of blue sapphires. They are, in fact, the bees swarming to enter Your glorious crown, attracted by the fragrance of Your curly locks!
Explanation: There are many brilliant gems in the Lord's crown. Some of them are shining blue sapphire gems. The poet avers these objects are not sapphire gems but honeybees! The bees are swarming around the crown because they are attracted to the ethereal fragrance of the Lord's curly hair! Seeking to somehow enter within are the bees swarming the crown. This is Śuddhāpahnuti Alaṅkāra. This figure of speech removes the gem-ness of the Sapphire and imposes the bee-ness on it. The definition of this Alaṅkāra is शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः|

व्याकरणांशाः
राजन्त्यनर्घमणिसङ्घमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः ।
आघ्राय गन्धमलिनस्तव कुन्तलामन्तः प्रवेष्टुमनसः परितो निलीनाः ॥१०४॥
पदच्चेदः
राजन्ति, अनर्घ-मणि-सङ्घ-मये, किरीटे, राजीव-लोचन, न, नील-मणि-प्रवेकाः, आघ्राय, गन्धम्,अलिनः, तव, कुन्तलाम्, अन्तः, प्रवेष्टु-मनसः, परितः, निलीनाः
सन्धयः
राजन्ति+अनर्घ-मणि-सङ्घ-मये= इको यणचि
अलिनः+तव= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
नील-मणि-प्रवेकाः, अन्तः, प्रवेष्टु-मनसः, निलीनाः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
परितः+निलीनाः= ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
राजीव-लोचन! तव अनर्घ-मणि-सङ्घ-मये किरीटे न नील-मणि-प्रवेकाः राजन्ति, तव कुन्तलाम् गन्धम् आघ्राय अन्तः प्रवेष्टु-मनसः अलिनः परितः निलीनाः राजन्ति
Oh Lotus-eyed Lord! In Your splendrous gem-studded crown are not blue sapphire gems, indeed they are bees attracted to the fragrance of Your curly locks and seeking to enter the crown, swarming around it!
सुबन्तप्रक्रिया
अनर्घ-मणि-सङ्घ-मये, किरीटे= अ, नपुं, ७.१, ङि, आद्गुणः
राजीव-लोचन= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
न, अन्तः, परितः= आव्ययम्
नील-मणि-प्रवेकाः, निलीनाः= अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
गन्धम्= अ, पुं, २.१, अम्, अमि पूर्वः
अलिनः = न्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कुन्तलाम्= अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
प्रवेष्टु-मनसः= स्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
राजन्ति= राज्, भ्वादिः, परस्मैपदी, लट्, प्र्थमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
आघ्राय= आङ्+घ्रा, ल्यबन्तकृदन्तः
अनर्घ-मणि-सङ्घ-मये= अनर्घः मणिः, कर्मधारयः, तस्य सङ्घः ६तत्, मयट् तद्धितः, तस्मिन्
राजीव-लोचन= राजीवमिव लोचनम् यस्य सः, हे, समानाधिकरणोपमानबहुव्रीहिः
प्रवेष्टु-मनसः= प्रवेष्टुं मनः यस्य सः, ते= बहुव्रीहिः
निलीनाः= मि+ली, कर्तरि क्तकृदन्तः, ते