Friday, February 23, 2024

Shloka 103 - Sri Varadarajastava


   Click on the image to open:


       मुक्तः प्रजापतिरयं मम दर्शनादित्यन्यं विधातुमनसस्तव भालजाता ।    
घर्माम्बुबिन्दुततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥१०३॥
T: Considering thus: "This Brahma has been liberated by My Darshan, and now I have to create a new Brahma," Your thoughts have given rise to beads of sweat on Your lovely forehead, appearing as a shiny string of pearls edging below the rim of Your crown!
व्याकरणांशाः
मुक्तः प्रजापतिरयं मम दर्शनादित्यन्यं विधातुमनसस्तव भालजाता ।
घर्माम्बुबिन्दुततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥१०३॥
पदच्चेदः
मुक्तः, प्रजापतिः,अयम्, दर्शनात्, इति, अन्यम्, विधातुमनसः, तव, भाल-जाता, घर्म-अम्बु-बिन्दु-ततिः, एव, किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः, विभाति
सन्धयः
प्रजापतिः+अयम्, ततिः+एव= ससजुषो रुः
अयम्, अन्यम्= मोऽनुस्वारः
दर्शनात्+इति=झलां जशोऽन्ते
विधातुमनसः+ तव=ससजुषो रुः, खरवसानतयोर्विसर्जनीयः, विसर्जनीयस्य सः
घर्म+अम्बु= अकः सवर्ने दीर्घः
प्रति+उप्त=इको यणचि
तति+छलतः= छे च, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
अयम् प्रजापतिः दर्शनात् मुक्तः इति तव अन्यम् विधातुमनसः घर्म-अम्बु-बिन्दु-ततिः भाल-जाता एव किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः विभाति
This Brahma on getting My Darshan is liberated, and I should create a new Brahma- this thought of Yours has given rise to golden beads of sweat lined up on Your forehead, appearing indeed as the line of pearls strung below the rim of Your crown dangling and shining!
सुबन्तप्रक्रिया
मुक्तः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्रजापतिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अयम् = इदम्, पुं, १.१, सुँ, इदमो मः, इदोय् पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
दर्शनात्= अ, नपुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
इति, एव= अव्ययम्
अन्यम्= अ,पुं, २.१, अम्, अमि पूर्वः
विधातुमनसः= स्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, युषम्दस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
भाल-जाता= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
घर्म-अम्बु-बिन्दु-ततिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः= अव्ययम् (तद्धितः)
तिङन्तप्रक्रिया
विभाति= वि+भा, अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रजापतिः= प्रजानां पतिः ६तत्
विधातुमनसः=विदातुं मनो यस्य सः बहुव्रीहिः, तस्य
भाल-जाता= भाले जाता ७तत्
घर्म-अम्बु-बिन्दु-ततिः= घर्मस्य अम्बुः ६तत्, अम्बोः बिन्दवः, ६तत्, तेषां ततिः ६तत्
किरीट-मूल-प्रत्युप्त-मौक्तिक-तति-छलतः= किरीटस्य मूलम्, ६तत्; तस्मिन् प्रत्युप्तं मौक्तिकं ७तत्, कर्मधारयः, तस्य ततिः ६तत्, तस्याः छलम्, ६तत्, तसिल् तद्धितः