Friday, February 2, 2024

Shloka 82 - Sri Varadarajastava



        Click on the image to open:



यद् ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः सस्पर्धमोषधपतौ च सकर्णिकं च।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥८२॥
T:  Oh Lord Śrī Varadarāja, Your face is the primordial birthplace of Lord Brahmā, dear to Devī Lakṣmī (Indirā), competes with the moon in beauty, and has Karṇakās (ear-ornaments), and is most attractive. How then would anyone not mistake it for a lotus, which has the exact same attributes?
Explanation:  This stanza cleverly puns on words to show the comparable attributes of the Lord's face and the lotus. Both are the birthplaces of Brahmā, both are dear to Devi Indirā, both are rivals to the moon in beauty, both are captivating, and both sport Karṇakā (double meaning = ear-ornament and the lotus core of seeds). Thus everyone mistakes the Lord's face for a lotus, says the poet, employing the figure of speech, Śleṣabhittika Abhedāshyavasāyamūla Rūpakālaṅkāra.

व्याकरणांशाः
मूलम्
यद् ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः सस्पर्धमोषधपतौ च सकर्णिकं च।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥८२॥
पदच्चेदः
यद्, ब्रह्मणः, च, जनिभूः, प्रियम्, इन्दिरायाः, सस्पर्धम्,ओषधपतौ, च, सकर्णिकम्, च, एतैः, गुणैः, गुण-निधे, कतमः, त्वदीयम्, वक्त्रम्, मनोज्ञम्, अवगच्छतु, न-अरविन्दम्
सन्धयः
यद्=झलां जशोऽन्ते
ब्रह्मणः+च= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
इन्दिरायाः+सस्पर्धम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
सकर्णिकम्= मोऽनुस्वारः
यद्, ब्रह्मणः, च, जनिभूः, प्रियम्, इन्दिरायाः, सस्पर्धम्,ओषधपतौ, च, सकर्णिकम्, च, एतैः, गुणैः, गुण-निधे, कतमः, त्वदीयम्, वक्त्रम्, मनोज्ञम्, अवगच्छतु, न-अरविन्दम्
एतैः+गुणैः+गुण-निधे=ससजुषो रुः
न+अरविन्दम्= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
गुण-निधे! यद् त्वदीयम् मनोज्ञम् वक्त्रम् ब्रह्मणः जनिभूः प्रियम् इन्दिरायाः च ओषधपतौ सस्पर्धम् च सकर्णिकम् च, एतैः गुणैः कतमः तत् न-अरविन्दम् अवगच्छतु
Translation
Oh Lord, Treasure-trove of Virtues, Your lovely face is the primordial birthplace of Brahmā, dear to Indirā, rival to the moon, endowed with Karṇikā (ear-ronaments). With these attributes, who would consider it not a lotus?
सुबन्तप्रक्रिया
यद्, च, = अव्ययम्
ब्रह्मणः= न्, पुं, ६.१, ङस्, न संयोगाद्वमन्तात्, अट्कुप्वाङ्नुम्व्यवायेऽपि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जनिभूः= ऊ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्रियम्, सस्पर्धम्, त्वदीयम्, सकर्णकम्, वक्त्रम्, मनोज्ञम्, न-अरविन्दम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
इन्दिरायाः= आ, स्त्री, ६.१, ङस्, याडापः, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ओषधपतौ= इ, पुं, ७.१, ङि, अच्च घेः, वृद्धिरेचि
एतैः, गुणैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
गुण-निधे=इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
कतमः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
अवगच्छतु= अ+गम्, भ्वादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
जनिभूः= जननस्य भवति= उपपदसमासः
सस्पर्धम्, सकर्णिकम्= स्पर्धेन सह/ कर्णिकया सह, तृतीयातत्
ओषधपतौ= ओषदानां पतिः, तस्मिन् ६तत्
गुण-निधे= गुणानां निधिः, हे ६तत्
त्वदीयम्= तव इदम् ६तत्
मनोज्ञम्= मनसा जानाति, उपपद
नअरविन्दम्= नञ्तत्पुरुषः