Saturday, February 17, 2024

Shloka 97 - Sri Varadarajastava






        Click on the image to open:
       निःश्वासमन्दमलयानिलकन्दलेन निर्हारिणा बहुतरेण च सौरभेण ।        नासापुटौ नलिनलोचन ते मनोज्ञौ मन्ये सदैव मधुमाधवयोर्निवासौ ॥९७॥ 
T:  Oh lotus-eyed Śrī Varadarāja, the gentle breeze of Your exhaled breath is like the tender breeze that heralds spring. The fragrance emanating from Your breath is attractive and powerful. Thus Your nostrils are so beautiful. They seem to be home to the Caitra and Vaiśakha months of spring!
Explanation: Madhu is a synonym for the month of Caitra. Mādhava is a synonym for the month of Vaiśakha. This is mentioned in some dictionaries. The gentle Malaya breeze blows northward from the mountains during the month of Caitra. The month of Vaiśakha is the season for the blooming of all flowers which then send out a powerfully attractive fragrance. The poet imagines that the Lord's exhaled breath is like the gentle Malaya breeze of Caitra/early spring, and the fragrance of the Lord's breath is the heady fragrance of Vaiśakha blooms. This Atiśayokti  is Utprekṣālaṅkāra.

व्याकरणांशाः
मूलम्
निःश्वासमन्दमलयानिलकन्दलेन निर्हारिणा बहुतरेण च सौरभेण ।
नासापुटौ नलिनलोचन ते मनोज्ञौ मन्ये सदैव मधुमाधवयोर्निवासौ ॥९७॥
पदच्चेदः
निःश्वास-मन्द-मलय-अनिल-कन्दलेन, निर्-हारिणा, बहुतरेण, च, सौरभेण, नासा-पुटौ, नलिन-लोचन, ते, मनोज्ञौ, मन्ये, सदा, एव, मधु-माधवयोः, निवासौ
सन्धयः
मलय+अनिल= अकः सवर्णे दीर्घः
सदा+एव= वृद्धिरेचि
आकाङ्क्षा-अन्वयः
नलिन-लोचन, ते नासा-पुटौ निःश्वास-मन्द-मलय-अनिल-कन्दलेन निर्-हारिणा बहुतरेण च सौरभेण मनोज्ञौ सदा एव मधु-माधवयोः निवासौ मन्ये
Oh lotus-eyed Lord ! I consider Your two nostrils, exhaling the gentle early spring breeze of Malaya, and spreading widely the fragrance of spring flowers, to be the permanent residence of the months of Madhu=Caitra and Mādhava=Vaiśakha.
सुबन्तप्रक्रिया
निःश्वास-मन्द-मलय-अनिल-कन्दलेन = अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
बहुतरेण, सौरभेण= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, रषाभ्यां नो णः, अट्कुप्वाङ्नुम्व्यवायेपि
निर्-हारिणा= न्, नपुं, ३.१, टा, रषाभ्यां नो णः, अट्कुप्वाङ्नुम्व्यवायेपि
च, सदा, एव = अव्ययम्
नासा-पुटौ, मनोज्ञौ, निवासौ = अ, पुं, १.२, औ, नादिचि, व्रिद्धिरेचि
नलिन-लोचन = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
ते = युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
मधु-माधवयोः= अ, पुं, ६.२, ओस्, ओसि च, एचोऽयनायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
मन्ये= मन्, दिवादिः, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
निःश्वास-मन्द-मलय-अनिल-कन्दलेन=मंलयस्य अनिलः ६तत्. मन्दः अनिलः कर्मधारयःः निश्वासस्य मन्दमलयानिलः ६तत्, तस्य कन्दलम् ६तत्. तेन
निर्-हारिणा= निर् हारिन्, तेन प्रादितत्पुरुषः
बहुतरेण= बहु-तरप् तद्धितः
नासा-पुटौ= नासायाः पुटौ ६तत्
नलिन-लोचन लैनमिव लोचनम् यस्य सः उपमानबहुव्रीहिः, हे
मनोज्ञौ= मनसा जानाति, तौ अन्तर्भूतण्यर्थे ज्ञा + कः