Monday, March 31, 2025

Sri Krishna Karnamritam 1.51







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अहिमकरकरनिकरमृदुमुदितलक्ष्मी-
सरसतरसरसिरुहसरसदृशि देवे ।
व्रजयुवतिरतिकलहविजयनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१ ॥  
Meaning: Oh, in that Lord Śrīkṛṣṇa, whose eyes are like tender lotuses joyfully blooming in the soft early rays of the sun as he dispels the dew, whose face is like the juicy moon as He triumphantly smiles in His success arising in the amorous squabbles amongst the Vraja damsels he sports with, I dissolve myself!

व्याकरणांशाः
अहिमकरकरनिकरमृदुमुदितलक्ष्मी-
सरसतरसरसिरुहसरसदृशि देवे ।
व्रजयुवतिरतिकलहविजयनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१ ॥
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि, देवे, व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि, लीये
सन्धयः
आकाङ्क्षा-अन्वयः
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि देवे व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि लीये
Oh, in that Lord Śrīkṛṣṇa, whose eyes are like tender lotuses joyfully blooming in the soft early rays of the sun as he dispels the dew, whose face is like the juicy moon as He triumphantly smiles in His success arising in the amorous squabbles amongst the Vraja damsels he sports with, I dissolve myself!
सुबन्तप्रक्रिया
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि = श्, पुं, ७.१, ङि, वर्णमेलनम्
देवे = अ, पुं, ७.१, ङि, आद्गुणः
व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अत्कुवाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि = हिमं अहिमं करोति नञ् उपपद, तस्य कराः ६तत्, करेषां निकरः ६तत्, तेन मृदुना मुदिते ३तत्, तयोः लक्ष्मीयुतं सरसं ६तत् (मध्यमपदलोपी), तरप् सरसतरे, सरसे दृशे क.धा, सरसरुहे इव दृशे यस्य तस्मिन् बहुव्रीहिः
व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अत्कुवाङ्नुम्व्यवायेऽपि = व्रजस्य युवत्यः ६तत्, तासां रति कलहः (क.धा), ६तत्, तस्य विजयः ६तत्, विजयस्य निजलीला (क.धा) ६तत्, तेन मदेन मुदितम् ३तत्, मुदितं वदनं क.धा, शशिरिव वदनम् उपमानोत्तरपदक.धा, तस्य मधुरिमन् यस्य तस्मिन् बहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥