Monday, March 10, 2025

Sri Krishna Karnamritam 1.37






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

यावन्न मे निखिलमर्मदृढाभिघात-
निःसन्धिबन्धनमुदेति नवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्र-
चन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७ ॥  
Meaning: Oh, Lord Śrīkṛṣṇa! Surely, as I do know, my life's end moment will come when I shall be plunged into utter burning agony with all my limbs and organs tied up and cringing in pain. Before that, nay, right now, let my mind become engrossed in the doubled joyous flow of the cool luminosity of Your moon-like face! That way, my mind will be in ethereal bliss, disconnected from bodily misery!

व्याकरणांशाः
यावन्न मे निखिलमर्मदृढाभिघात-
निःसन्धिबन्धनमुदेति नवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्र-
चन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७ ॥
यावत्+न, मे, निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम्, उदेति, नव+उपतापः, तावत्+विभो, भवतु, तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता, मम, चित्तधारा
सन्धयः
यावत्+न =झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
दृढ+अभिघात = अकः सवर्णे दीर्घः
निस्+सन्धि = ससजुषो रुः & खरवसानयोर्विसर्जनीयः& विसर्जनीयस्य सः
नव+उपतापः = आद्गुणः
उपतापः = स्रसजुषो रुः & खरवसानयोर्विसर्जनीयः
तावत्+विभो = झलां जशोऽन्ते
चन्द्र+आतप = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
यावत् मे नव+उपतापः निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम् न उदेति, विभो तावत् मम चित्तधारा तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता भवतु
Oh, Lord Śrīkṛṣṇa! Surely, as I do know, my life's end moment will come when I shall be plunged into utter burning agony with all my limbs and organs tied up and cringing in pain. Before that, nay, right now, let my mind become engrossed in the doubled joyous flow of the cool luminosity of Your moon-like face! That way, my mind will be in ethereal bliss, disconnected from bodily misery!
सुबन्तप्रक्रिया
यावत् = अव्ययम्
न = अव्ययम्
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयाअवेकचनस्य
निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम् = अ, नपुं, अतोऽम्, अमि पूर्वं
नव+उपतापः = अ, पुं, १.१, सुँ, ससजोषो रुः, खरवसानयोर्विसर्जनीयः
तावत् = अव्ययम्
विभो = उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
चित्तधारा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तिङन्तप्रक्रिया
उदेति = उद्+एति इण् गतौ, अदादिः, परस्मैपदी, लट्, १.१
भवतु = भू सत्तयाम्, भ्वादिः, परस्मैपदी, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम् = निखिलम् मर्म क.धा, दृढम् अभिघातम् मर्म क.धा, तस्य; निः सन्धिः नञ्तत्, निःसन्धेः बन्धनम् बन्धनम् ६तत्, तस्य निःसन्धिबन्धनम् ६तत्
नव+उपतापः = नवः उपतापः (प्रादि) क.धा
तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता = तावकम् (युष्मद् अण् तद्धितः) वक्त्रम् क.धा, कत्रम् चन्द्र इव उपमानोत्तरपदकर्मधारयः, चन्द्रस्य चन्द्रातपः (क.धा) ६तत्, तेन द्विगुणिता ३तत्
चित्तधारा = चित्तस्य धारा ६तत्

॥ हरिः ॐ तत् सत् ॥