Saturday, March 1, 2025

Sri Krishna Karnamritam 1.29




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
मयि प्रसादं मधुरैः कटाक्षै-
र्वंशीनिनादानुचरैर्विधेहि ।  
त्वयि प्रसन्ने किमिहापरैर्न-
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९ ॥   
 
Meaning: Oh, Lord Śrīkṛṣṇa! Give us Your gracious gift of graceful sidelong glances that follow Your flute's strains! When You are compassionate, what does others' attitude mean to us? (Nothing!) When You are not showing compassion, of what avail is others' grace to us?

व्याकरणांशाः
मयि प्रसादं मधुरैः कटाक्षै-
र्वंशीनिनादानुचरैर्विधेहि ।
त्वयि प्रसन्ने किमिहापरैर्न-
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९ ॥
मयि, प्रसादम्, मधुरैः, कटाक्षैः, वंशी-निनाद+अनुचरैः, विधेहि, त्वयि, प्रसन्ने, किम्, इह+अपरैः, नः, त्वयि+अप्रसन्ने, किम्, इह+अपरैः, नः
सन्धयः
प्रसादम् = मोऽनुस्वारः
मधुरैः, नः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
कटाक्षैः+वंशी, अनुचरैः+विधेहि, अपरैः+नः = ससजुषो रुः
निनाद+अनुचरैः, इह+अपरैः = अकः सवर्णे दीर्घः
नः+त्वयि = ससजुषोरुः & खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
त्वयि+अप्रसन्ने = इको यणचि
आकाङ्क्षा-अन्वयः
वंशी-निनाद+अनुचरैः मधुरैः कटाक्षैः मयि प्रसादम् विधेहि ! त्वयि प्रसन्ने इह+अपरैः नः किम् ? त्वयि+अप्रसन्ने इह+अपरैः नः किम् ?
Oh, Lord Śrīkṛṣṇa! Give us Your gracious gift of graceful sidelong glances that follow Your flute's strains! When You are compassionate, what does others' attitude mean to us? (Nothing!) When You are not showing compassion, of what avail is others' grace to us?
सुबन्तप्रक्रिया
मयि = अस्मद्, पुं, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
प्रसादम् = अ, पुं, २.१, अम्, अमि पूर्वः
मधुरैः = अ, पुं, ३.३., भिस्, अतो भिस ऐस्, वृद्दिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कटाक्षैः= अ, पुं, ३.३., भिस्, अतो भिस ऐस्, वृद्दिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वंशी-निनाद+अनुचरैः= अ, पुं, ३.३., भिस्, अतो भिस ऐस्, वृद्दिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वयि= युष्मद्, पुं, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
प्रसन्ने = अ, पुं, ७.१, ङि, आद्गुणः
किम् = म्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
इह = अव्ययम्
नः = अस्मद्, ६.३, आम्, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वान्नावौ, बहुवचनस्य वस्नसौ
अप्रसन्ने = अ, पुं, ७.१, ङि, आद्गुणः
अपरैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विधेहि = वि+ डुधाञ् धारणपोषणयोः, जुहोत्यादिः, परस्मैपदी (उभयपदी), लोट्, २.१
समासाः, तद्धिताः, कृदन्ताः
वंशी-निनाद+अनुचरैः= वंश्याः निनादः ६तत्, तस्य अनु+चराः (प्रादि), तैः ६तत्
॥ हरिः ॐ तत् सत् ॥