Monday, February 24, 2025

Sri Krishna Karnamritam 1.28




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
अस्तोकस्मितभरमायतायताक्षं
निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।
निःसीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८ ॥  
 
Meaning: Oh, Lord Śrīkṛṣṇa! I deeply crave to see Your immense form filled with unbounded smiles, long-drawn lotus-petal-like eyes, lovingly pressed without reservation by the bosoms of all the Vraja damsels, manifesting limitless glow of the divine blue luminance- this form that suffuses all the three worlds in creation!

व्याकरणांशाः
अस्तोकस्मितभरमायतायताक्षं
निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।
निःसीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८ ॥
अ-स्तोक-स्मित-भरम्, आयत+आयत+अक्षम्, निस्+शेष-स्तन-मृदितम्, व्रज+अङ्गनाभिः, निस्+सीम-स्तबकित-नील-कान्ति-धारम्, दृश्यासम्, त्रि-भुवन-सुन्दरम्, महः, ते
सन्धयः
आयत+आयत+अक्षम्, निस्+सीम-स्तबकित-नील-कान्ति-धारम् = मोऽनुस्वारः
आयत+आयत+अक्षम् = अकः सवर्णे दीर्घः
निस्+शेष = स्तोः श्चुना श्चुः
व्रज+अङ्गनाभिः = अकः सवर्णे दीर्घः
महः+ते = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
व्रज+अङ्गनाभिः = ससजुषो र्ः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
ते अ-स्तोक-स्मित-भरम् आयत+आयत+अक्षम् निस्+शेष-स्तन-मृदितम् व्रज+अङ्गनाभिः निस्+सीम-स्तबकित-नील-कान्ति-धारम् त्रि-भुवन-सुन्दरम् महः दृश्यासम्
Oh, Lord Śrīkṛṣṇa! I deeply crave for seeing Your immense form filled with unbounded smiles, long-drawn lotus-petal-like eyes, lovingly pressed without reservation by the bosoms of all the Vraja damsels, manifesting limitless glow of the divine blue luminence, the form that suffuses all the three worlds in creation!
सुबन्तप्रक्रिया
अ-स्तोक-स्मित-भरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आयत+आयत+अक्षम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
निस्+शेष-स्तन-मृदितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
व्रज+अङ्गनाभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
निस्+सीम-स्तबकित-नील-कान्ति-धारम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
त्रि-भुवन-सुन्दरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
महः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते = युश्मद्, पुं, ६.१, ङस्, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचने
तिङन्तप्रक्रिया
दृश्यासम् = दृशिर् प्रेक्षणे, भ्वादिः, परस्मैपदी, अशीर्लिङ्, ३.१
समासाः, तद्धिताः, कृदन्ताः
अ-स्तोक-स्मित-भरम् = न स्तोकम् नञ्तत्, अस्तोकम् स्मितम् क.धा, तेन भरम् ३तत्
आयत+आयत+अक्षम् = आयतम् आयतम् इव अक्षम् यस्य तत् उपमान बहुव्रीहिः
निस्+शेष-स्तन-मृदितम् = स्तनैः मृदितम् ३तत्, निस् शेषम् स्तनमृदितम् क.धा
व्रज+अङ्गनाभिः = व्रजस्य अङ्गनाः ताभिः ६तत्
निस्+सीम-स्तबकित-नील-कान्ति-धारम् = निस् सीम क.धा, निस्सीमस्तबकिता नीलकान्तिः क.धा, तां धारयति उपपद, तम्
॥ हरिः ॐ तत् सत् ॥