Tuesday, February 18, 2025

Sri Krishna Karnamritam 1.22





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
विचित्रपत्राङ्कुरशालिबाला-
स्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥ १.२२ ॥    
Meaning: We do not see anything suitable to focus on for assisting us in the contemplation of our Lord Śrī Kṛṣṇa other than the variously charmingly unguented and perfumed bosoms (cleavages) of the damsels of Vraja, or the minds of contemplative ascetics meditating on the Lord, or the shaded canopies of the trees in Vraja as suitable abodes of our Lord!

व्याकरणांशाः
विचित्रपत्राङ्कुरशालिवाला-
स्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥ १.२२ ॥
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम्, मौनि-मनस्+अन्तरम्, वा, अपास्य, वृन्दा-वन-पादप+आस्यम्, उपास्यम्, अन्यत्, न, विलोकयामः
सन्धयः
पत्र+अङ्कुर, स्तन+अन्तरम्, पादप+आस्यम् = अकः सवर्णे दीर्घः
मनस्+अन्तरम् = ससजुषो रुः, अतो रोरप्लुतादप्लुते, एङः पदान्तादति
अन्तरम्= मोऽनुस्वारः
विलोकयामः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् मौनि-मनस्+अन्तरम् वा अपास्य वृन्दा-वन-पादप+आस्यम् उपास्यम्न्य अन्त्यत् न विलोकयामः

सुबन्तप्रक्रिया
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मौनि-मनस्+अन्तरम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
वा = अव्ययम्
अपास्य = अव्ययम्
वृन्दा-वन-पादप+आस्यम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
उपास्यम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अन्यत् = अव्ययम्
न = अव्ययम्
तिङन्तप्रक्रिया
विलोकयामः = वि+ लोकृँ भाषायाम्, चुरादिः, परस्मै(उभय)पदी, सकर्मकः, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् = विचित्रम् पत्रस्य अङ्कुरम्(६तत्) क.धा, तेन यिक्तम् (शालिन् तद्धितः), शालीनि बालानां स्तनानि ६तत्, क.धा, तस्मात् अन्तरम् मयूरव्यंसकादि
मौनि-मनस्+अन्तरम्= मौनिनां मनः ६तत्, तस्मात् अन्तरम्, मयूरव्यंसकादि
वृन्दा-वन-पादप+आस्यम्= वृन्दायाः वनम् ६तत्, वनस्य पादपः ६तत्, तस्य आस्यम् ६तत्
उपास्यम्= उप आस्यम् प्रादि
॥ हरिः ॐ तत् सत् ॥