॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनविथीगर्वसर्वाङ्कषाभ्याम् ।
प्रणमदभयदानप्रौढिगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १. १२॥
Meaning: Oh, let anyone take my mind to the lotus feet of Śrīkṛṣṇa, deeply committed and engaged in providing protection to anyone surrendered to them, destroying the self-importance and arrogance of large arrays of wild lotuses, providing the very basis for all glories and prosperities ever present in all the worlds!
व्याकरणांशाः |
निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां | | | | | |
कमलविपिनविथीगर्वसर्वङ्कषाभ्याम् । | | | | | |
प्रणमदभयदानप्रौढिगाढोद्धताभ्यां | | | | | |
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १. १२॥ | | | | | |
निखिल-भुवन-लक्ष्मी-नित्य-लीला+आस्पदाभ्याम्, कमल-विपिन-विथी-गर्व-सर्वम्+कषाभ्याम्, प्रणमत्+अभय-दान-प्रौढि-गाढ+उद्धताभ्याम्, किम्+अपि, वहतु, चेतः, कृष्ण-पाद+अम्बुजाभ्याम् |
सन्धयः | | | | | |
लीला+आस्पदाभ्याम्, पाद+अम्बुजाभ्याम् = अकः सवर्णे दीर्घः |
सर्वम्+कषाभ्याम्= मोऽनुवारः & अनुस्वारस्य ययि परसवर्णः |
प्रणमत्+अभय = झलां जशोऽन्ते |
गाढ+उद्धताभ्याम् - आद्गुणः |
...भ्याम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
किम्+अपि निखिल-भुवन-लक्ष्मी-नित्य-लीला+आस्पदाभ्याम् कमल-विपिन-विथी-गर्व-सर्वान्+कषाभ्याम् प्रणमत्+अभय-दान-प्रौढि-गाढ+उद्धताभ्याम् कृष्ण-पाद+अम्बुजाभ्याम् चेतः वहतु |
Oh, let anyone take my mind to the lotus feet of Śrīkṛṣṇa, deeply committed and engaged in providing protection to anyone surrendered to them, destroying the self-importance and arrogance of large arrays of wild lotuses, providing the very basis for all glories and prosperities ever present in all the worlds! |
सुबन्तप्रक्रिया | | | | | |
निखिल-भुवन-लक्ष्मी-नित्य-लीला+आस्पदाभ्याम् = अ, नपुं, ४.२, भ्याम्, सुपि च |
कमल-विपिन-विथी-गर्व-सर्वान्+कषाभ्याम् = अ, नपुं, ४.२, भ्याम्, सुपि च |
प्रणमत्+अभय-दान-प्रौढि-गाढ+उद्धताभ्याम् = अ, नपुं, ४.२, भ्याम्, सुपि च |
किम् = किम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, |
अपि = अव्ययम् | | | | | |
चेतः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
कृष्ण-पाद+अम्बुजाभ्याम्= अ, नपुं, ४.२, भ्याम्, सुपि च |
तिङन्तप्रक्रिया | | | | |
वहतु = वहँ प्रापणे, भ्वादिः, परस्मैपदी (उ), द्विकर्मकः, लोट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
निखिल-भुवन-लक्ष्मी-नित्य-लीला+आस्पदाभ्याम् = निखिलानि भुवनानि क.धा, तेषां लक्ष्मीः ६तत्, तस्याः नित्या लीला (क.धा) ६तत्, तस्याः आस्पदम्, ताभ्याम् ६तत्. |
कमल-विपिन-विथी-गर्व-सर्वम्+कषाभ्याम् = = कमलानां विपिनं तस्य वीथी, तस्याः सर्वम् गर्वम् (क.धा) ६तत्, तं कषति उपपद ताभ्याम् |
प्रणमत्+अभय-दान-प्रौढि-गाढ+उद्धताभ्याम् =प्रणमतः अभयम् ६तत्, तस्य दानं ६तत्, प्रौढी दानम् क.धा, तस्मिन् गाढं उद्धतम् ७तत्+क.धा, ताभ्याम् |
कृष्ण-पाद+अम्बुजाभ्याम्= कृष्णस्य पादे ६तत्, पादे अम्बुजे इव उपमान-कर्मधारय, ताभ्याम् |