॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
अपाङ्गरेखाभिरभङ्गुराभिरनङ्गरेखारसरञ्जिताभिः ।
अनुक्षणं वल्लवसुन्दरीभिरभ्यर्च्यमानं विभुमाश्रयामः ॥ १.१०॥
Meaning: We seek refuge in that Immanent Supreme Person who is every moment worshipped ardently by the Gopis of Vraja who are looking upon Him with incessant, undiminished, love-decorated side glances!
| व्याकरणांशाः |
अपाङ्गरेखाभिरभङ्गुराभिरनङ्गरेखारसरञ्जिताभिः । | | | | | |
अनुक्षणं वल्लवसुन्दरीभिरभ्यर्च्यमानं विभुमाश्रयामः ॥ १.१०॥ | | | | | |
| अपाङ्ग-रेखाभिः, अभङ्गुराभिः, अनङ्ग-रेखा-रस-रञ्जिताभिः, अनुक्षणम्, वल्लव-सुन्दरीभिः, अभ्यर्च्यमानम्, विभुम्, आश्रयामः ॥ १.१०॥ |
| सन्धयः | | | | | |
| अपाङ्ग-रेखाभिः, अभङ्गुराभिः, वल्लव-सुन्दरीभिः = ससजुषो रुः |
| रञ्जिताभिः, आश्रयामः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| अनुक्षणम्, अभ्यर्च्यमानम् = मोऽनुस्वारः |
| आकाङ्क्षा-अन्वयः | | | | |
| अपाङ्ग-रेखाभिः अभङ्गुराभिः अनङ्ग-रेखा-रस-रञ्जिताभिः अनुक्षणम् वल्लव-सुन्दरीभिः अभ्यर्च्यमानम् विभुम् आश्रयामः |
| We seek refuge in that Immanent Supreme Person who is every moment worshipped ardently by the Gopis of Vraja who are looking upon Him with incessant, undiminished, love-decorated side glances! |
| सुबन्तप्रक्रिया | | | | | |
| अपाङ्ग-रेखाभिः, अभङ्गुराभिः, अनङ्ग-रेखा-रस-रञ्जिताभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| अनुक्षणम् = अव्ययम् |
| वल्लव-सुन्दरीभिः = ई, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| अभ्यर्च्यमानम् = अ, पुं, २.१, अम्, अमि पूर्वः |
| विभुम् = उ, पुं, २.१, अम्, अमि पुर्वः |
| तिङन्तप्रक्रिया | | | | |
| आश्रयामः = आङ्+श्रिञ् सेवायाम्,भ्वादिः, परस्मैपदी (उभय), सकर्मकः, लट्, ३.३ |
| समासाः, तद्धिताः, कृदन्ताः | | | |
| अपाङ्ग-रेखाभिः = अपाङ्गा रेखा क.धा, यासां ताभिः |
| अभङ्गुराभिः = न भङ्गुरा, ताभिः नञ्तत्पुरुषः |
| अनङ्ग-रेखा-रस-रञ्जिताभिः = अनङ्गस्य रेखाः ६तत्, तासां रसः ६तत्, तेन रञ्जिताः ३तत्, ताभिः |
| अनुक्षणम् = क्षणं क्षणम्, अव्ययीभावः |
| वल्लव-सुन्दरीभिः= वल्लवाः सुन्दर्यः क. धा, ताभिः |
| अभ्यर्च्यमानम्= अभि+अर्च्यते शानच्, तम् |