॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।
ललितानि यदीयानि लक्ष्माणि व्रजविथिषु ॥ १.१६ ॥
Meaning: I bow down to that foot of the Lord Śrī Kṛṣṇa of melodious anklet sounds making tinkling speech whose sacred imprints are delightful to notice on the streets of Vraja!
| व्याकरणांशाः |
मणिनूपुरवाचालं वन्दे तच्चरणं विभोः । | | | | | |
ललितानि यदीयानि लक्ष्माणि व्रजविथिषु ॥ १.१६ ॥ | | | | | |
| मणि-नूपुर-वाचालम्, वन्दे, तच्चरणम्, विभोः, ललितानि, यदीयानि, लक्ष्माणि, व्रजविथिषु |
| सन्धयः | | | | | |
| तत्+चरणम्= झलां जशोऽन्ते, स्तोः श्चुना श्चुः, खरि च |
| तच्चरणम् = मोऽनुस्वारः |
| विभोः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| आकाङ्क्षा-अन्वयः | | | | |
| यदीयानि ललितानि लक्ष्माणि व्रजविथिषु विभोः मणि-नूपुर-वाचालम् तच्चरणम् वन्दे |
| I bow down to that foot of the Lord Śrī Kṛṣṇa of melodious anklet sounds making tinkling speech whose sacred imprints are delightful to notice on the streets of Vraja! |
| सुबन्तप्रक्रिया | | | | | |
| मणि-नूपुर-वाचालम्, तच्चरणम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः |
| विभोः = उ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| ललितानि = अ, नपुं, २.३, शस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ |
| यदीयानि = अ, नपुं, २.३, शस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ |
| लक्ष्माणि = अ, नपुं, २.३, शस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, अट्कुप्वाङ्नुम्व्यवायेऽपि |
| व्रजविथिषु = इ, स्त्री, ७.३, सुप्, आदेशप्रत्यययोः |
| तिङन्तप्रक्रिया | | | | |
| वन्दे = वदिँ अभिवादनस्तुत्योः, भ्वादिः, आत्मनेपदी, लट्, ३.१ |
| समासाः, तद्धिताः, कृदन्ताः | | | |
| मणि-नूपुर-वाचालम् = मणिभिः युक्तः नूपुरः (मध्यमपदलोपि), नूपुरेण वाचालम् ३तत्, तम् |
| तच्चरणम् = तस्य चरणम् ६तत् |
| व्रजविथिषु = व्रजस्य वीथयः ६तत्, तेषु |