Sunday, February 23, 2025

Sri Krishna Karnamritam 1.27




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
अधीरमालोकितमार्द्रजल्पितं
गतं च गम्भीरविलासमन्थरम् ।  
अमन्दमालिङ्गितमाकुलोन्मद-
स्मितं च ते नाथ वदन्ति गोपिकाः ॥ १. २७ ॥  
 
Meaning: Oh, Lord Śrīkṛṣṇa! The Vraja lasses i.e. Gopīs, speak fervently about Your sports with them - Your darting and fickle glances, Your passionate words, Your deep dalliant affection showered on each one, Your intense embraces, Your smile showing Your long-lasting heady feeling, all past now!

व्याकरणांशाः
अधीरमालोकितमार्द्रजल्पितं
गतं च गम्भीरविलासमन्थरम् ।
अमन्दमालिङ्गितमाकुलोन्मद-
स्मितं च ते नाथ वदन्ति गोपिकाः ॥ १. २७ ॥
अधीरम्, आलोकितम्, आर्द्र-जल्पितम्, गतम्, च, गम्भीर-विलास-मन्थरम्, अमन्दम्, आलिङ्गितम्, आकुल+उन्मदस्मितम्, च, ते, नाथ, वदन्ति, गोपिकाः
सन्धयः
आर्द्र-जल्पितम्, गतम्,आकुलोन्मदस्मितम् = मोऽनुस्वारः
आकुल+उन्मदस्मितम् = आद्गुणः
गोपिकाः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
नाथ! ते अधीरम् आलोकितम् आर्द्र-जल्पितम् गतम् च गम्भीर-विलास-मन्थरम् अमन्दम् आलिङ्गितम् आकुल+उन्मदस्मितम् च गोपिकाः वदन्ति
Oh, Lord Śrīkṛṣṇa! The Vraja lasses i.e. Gopīs, speak fervently about Your sports with them - Your darting and fickle glances, Your passionate words, Your deep dalliant affection showered on each one, Your intense embraces, Your smile showing Your long-lasting heady feeling, all past now!
सुबन्तप्रक्रिया
अधीरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आलोकितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आर्द्र-जल्पितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
गतम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
च = अव्ययम्
गम्भीर-विलास-मन्थरम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अमन्दम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आलिङ्गितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आकुल+उन्मदस्मितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
च =अव्ययम्
ते = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
नाथ = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
गोपिकाः
तिङन्तप्रक्रिया
वदन्ति = वद्ँ वक्तायां वाचि, भ्वादिः, सकर्मकः, परस्मैपदी, लट्, १.३
समासाः, तद्धिताः, कृदन्ताः
आर्द्र-जल्पितम्= आर्द्रं जल्पितम् क.धा
गम्भीर-विलास-मन्थरम्= गम्भीरम् विलासेन मन्थरम् ३तत्, क.धा
आकुल+उन्मदस्मितम्= आकुलम् उन्मदम् स्मितम् क.धा
॥ हरिः ॐ तत् सत् ॥