व्याकरणांशाः |
बहुलजलदच्छायाचोरं विलासभरालसं | | | | | |
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् । | | | | | |
कमपि कमलापाङ्गोदग्रप्रसन्नजगज्जडं | | | | | |
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७ ॥ | | | | | |
बहुल-जलद+छाया-चोरम्, विलास-भर+आलसम्, मद-शिखि-शिखा-लीला+उत्तंसम्, मनोज्ञ-मुख+अम्बुजम्, कम्+अपि, कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्, मधुरिम-परीपाक+उद्रेकम्, वयम्, मृगयामहे |
सन्धयः | | | | | |
बहुल-जलद+छाया-चोरम् = छे च |
विलास-भर+आलसम् = अकः सवर्ने दीर्घः |
मद-शिखि-शिखा-लीला+उत्तंसम् = आद्गुणः |
मनोज्ञ-मुख+अम्बुजम् = अकः सवर्णे दीर्घः |
कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम् = अकः सवर्णे दीर्घः |
उद्+अग्र = झलां जशोऽन्ते |
जगत्+जडम् = झलां जशोऽन्ते & स्तोः श्चुना श्चुः |
बहुल-जलद+छाया-चोरम्, विलास-भर+आलसम्, मद-शिखि-शिखा-लीला+उत्तंसम्, कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्, मधुरिम-परीपाक+उद्रेकम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
वयम् बहुल-जलद+छाया-चोरम् विलास-भर+आलसम् मद-शिखि-शिखा-लीला+उत्तंसम् मनोज्ञ-मुख+अम्बुजम् कम्+अपि कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम् मधुरिम-परीपाक+उद्रेकम् मृगयामहे |
Oh! We eagerly seek our Lord Śrīkṛṣṇa with the dark appearance He has taken over from the dense dark cloud, who appears exhausted from constant sport, rakishly wearing the crown of feathers from the peacock in heat, with His enchanting lotus-like face, who has by the mere glance from the corners of His eyes disenchanted us about all else in the world as being dud, who is indeed the ecstatic form of intense beauty! |
सुबन्तप्रक्रिया | | | | | |
बहुल-जलद+छाया-चोरम् = अ, पुं, २.१, अम्, अमि पूर्वः |
विलास-भर+आलसम्= अ, पुं, २.१, अम्, अमि पूर्वः |
मद-शिखि-शिखा-लीला+उत्तंसम्= अ, पुं, २.१, अम्, अमि पूर्वः |
मनोज्ञ-मुख+अम्बुजम्= अ, पुं, २.१, अम्, अमि पूर्वः |
कम् = किम्, पुं, २.१, अम्, किमः कः, अमि पूर्वः |
कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्= अ, पुं, २.१, अम्, अमि पूर्वः |
मधुरिम-परीपाक+उद्रेकम्= अ, पुं, २.१, अम्, अमि पूर्वः |
वयम् = अस्मद्, पुं, १.३, जस्, ङेप्रथमयोरम्, यूयवयौ जसि, अतो गुणे, शेषे लोपः |
तिङन्तप्रक्रिया | | | | |
मृगयामहे = मृग अन्वेषणे, चुरादिः, परस्मैपदी (उभयपदी), लट्, ३.३ |
समासाः, तद्धिताः, कृदन्ताः | | | |
बहुल-जलद+छाया-चोरम् = बहुलः जलदः क.धा, तस्य छाया ६तत्, छायायाः चोरः ६तत्, तम् |
विलास-भर+आलसम्= विलासेन भरः ३तत्, भरः आलसः क.धा, तम् |
|
मद-शिखि-शिखा-लीला+उत्तंसम्= मदः शिखी ६तत्, तस्य शिखा ६तत्, शिखायाः उत्तंसः ६अत्त्, लीला इव उत्तंसः क.धा, यस्यतम् बहुव्रीहिः |
मनोज्ञ-मुख+अम्बुजम्= मनोज्ञम् मुखम् क.धा, मुखमम्बुजमिव उपमान क.धा, यस्य तम् बहुव्रीहिः |
कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्= कमल इव उपाङ्गः क.धा, तस्य उदग्रः (प्रादि) ६तत्, उदग्रे प्रसन्नः ७तत्, जगत् जडीकृतम् येन तम्, ३ बहुव्रीहिः |
मधुरिम-परीपाक+उद्रेकम्= मधुरिमतायाः परिपाकः ६तत्, तस्य उद्रेकः, तम्, ६तत् |