व्याकरणांशाः |
भावेन मुग्धचपलेन विलोकितेन | | | | | |
मन्मानसे किमपि चापलमुद्वहन्तम् । | | | | | |
| | | | | |
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः ॥ १.३५ ॥ | | | | | |
भावेन, मुग्ध-चपलेन, विलोकितेन, मत्+मानसे, किम्+अपि, चापलम्, उद्वहन्तम्, लोलेन, लोचन-रसायनम्, ईक्षणेन, लीला-किशोरम्, उपगूहितुम्, उत्सुकाः, स्मः |
सन्धयः | | | | | |
मत्+मानसे= यरोऽनुनासिकेऽनुनासिको वा |
उद्+वहन्तम् = झलां जशोऽन्ते |
उत्सुकाः+स्मः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः |
स्मः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
आकाङ्क्षा-अन्वयः | | | | |
भावेन मुग्ध-चपलेन विलोकितेन लोलेन लोचन-रसायनम् ईक्षणेन मत्+मानसे किम्+अपि चापलम् उद्वहन्तम् लीला-किशोरम् उपगूहितुम् उत्सुकाः स्मः |
Oh, Lord Śrīkṛṣṇa! With emotions of innocent desires manifest in Your eyes, our eyes partaking of Your nectarine eyes, stirring in our hearts some inexplicable longing, Your form of a child incarnated for mere sport - how eager are we to embrace You! |
सुबन्तप्रक्रिया | | | | | |
भावेन = अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः |
मुग्ध-चपलेन= अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः |
विलोकितेन = अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः |
मत्+मानसे =अ, पुं, ७.१, ङि, वर्णमेलनम् |
किम् = म्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, अमि पूर्वः |
अपि = अव्ययम् |
चापलम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः |
उद्वहन्तम् = त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदन्तस्य झलि, अनुस्वारस्य ययि परसवर्णः |
लोलेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः |
लोचन-रसायनम् = अ, पुं, २.१, अम्, अमि पूर्वः |
ईक्षणेन = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः |
लीला-किशोरम् = अ, पुं, २.१, अम्, अमि पूर्वः |
उत्सुकाः = अ, पुं, १.३, ज़स्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
तिङन्तप्रक्रिया | | | | |
स्मः = असँ भुवि, अदादिः.परस्मैपदी, लट्, ३.३ |
समासाः, तद्धिताः, कृदन्ताः | | | |
उपगूहितुम् = उप+गुहूँ संवरणे, भ्वादिः, उभयपदी, वेट्, तुमुन् कृदन्तः |
लीला-किशोरम् = लीलायां किशोरः, तम्, ७तत् |
चापलम् = चपलस्य कर्म तद्धितः, तम् |
उद्वहन्तम् = उद्+वहत् शतृ कृदन्तः, तम् |
लोचन-रसायनम् = रसाः ईयन्ते अनेन रसायनः, लोचनस्य रसायनः, तम् |