॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥
Meaning: Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling?
व्याकरणांशाः |
लीलाननाम्बुजमधीरमुदीक्षमाणं | | | | | |
नर्माणि वेणुविवरेषु निवेशयन्तम् । | | | | | |
| | | | | |
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥ | | | | | |
लीला+आनन+अम्बुजम्,अधीरम्, उदीक्षमाणम्, नर्माणि, वेणु-विवरेषु, नि-वेशयन्तम्, डोलाय-मान-नयनम्, नयन+अभिरामम्, वन्दे, कदा, नु, दयितम्, व्यति-लोकयिष्ये |
सन्धयः | | | | | |
लीला+आनन+अम्बुजम्, नयन+अभिरामम् = अकः सवर्णे दीर्घः |
उदीक्षमाणम्, नि-वेशयन्तम्, डोलाय-मान-नयनम्, नयन+अभिरामम्, दयितम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
लीला+आनन+अम्बुजम् अधीरम् उदीक्षमाणम् नर्माणि वेणु-विवरेषु नि-वेशयन्तम् डोलाय-मान-नयनम् नयन+अभिरामम् दयितम् कदा नु वन्दे व्यति-लोकयिष्ये |
Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling? |
सुबन्तप्रक्रिया | | | | | |
लीला+आनन+अम्बुजम् = अ, पुं, २.१, अम्, अमि पूर्वः |
अधीरम् = अ, पुं, २.१, अम्, अमि पूर्वः |
उदीक्षमाणम् = अ, पुं, २.१, अम्, अमि पूर्वः |
नर्माणि = अ, नपुं, २.३, शस्, जस्ससोः शिः, शिः सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, अट्कुवाङ्नुम्व्यवायेऽपि |
वेणु-विवरेषु = अ, नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः |
नि-वेशयन्तम् = अ, पुं, २.१, अम्, अमि पूर्वः |
डोलाय-मान-नयनम् = अ, पुं, २.१, अम्, अमि पूर्वः |
नयन+अभिरामम् = अ, पुं, २.१, अम्, अमि पूर्वः |
कदा = अव्ययम् |
नु = अव्ययम् |
दयितम् = अ, पुं, २.१, अम्, अमि पूर्वः |
तिङन्तप्रक्रिया | | | | |
वन्दे = वदिँ अभिवादनस्तुत्योः, भ्वादिः, आत्मनेपदी, लट्, ३.१ |
व्यति-लोकयिष्ये = व्यति+लोकृँ दर्शने, भ्वादिः, आत्मनॅपदी, लृट्, ३.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
लीला+आनन+अम्बुजम् = लीलायाः भावे ७तत्, आननम् अम्बुजमिव यस्य तम्, उपमानबहुव्रीहिः |
डोलाय-मान-नयनम् = डोलायमानए नयने यस्य तम् समानाधिकरणबहुव्रीहिः |
नयन+अभिरामम् = नयनम् अभिरामम् (प्रादि) यस्य तम् - समानाधिकरणबहुव्रीहिः |