Wednesday, March 12, 2025

Sri Krishna Karnamritam 1.39




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

आलोललोचनविलोकितकेलिधारा-
नीराजिताग्रसरणेः करुणाम्बुराशेः ।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै-
राकर्णयामि मणीनूपुरशिञ्जितानि ॥ १.३९ ॥ 
Meaning: Oh, Lord Śrīkṛṣṇa! I hearken adoringly to the delectable tinkling sounds of Your anklets that are dipped in joy being in sync with the melodies of Your flute as You traipse along the pathway aglow as if illumined by the darting looks of damsels and Yours too akin to the worshipful waving of lamps; and this pathway seems flooded by Your oceanic grace!
व्याकरणांशाः
आलोललोचनविलोकितकेलिधारा-
नीराजिताग्रसरणेः करुणाम्बुराशेः ।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै-
राकर्णयामि मणिनूपुरशिञ्जितानि ॥ १.३९ ॥
आलोल-लोचन-विलोकित-केलि-धारा-नीराजित+अग्सअरणेः, करुण+अम्बअराशेः, आर्द्राणि, वेणु-निनदैः, प्रति-नाद-पूरैः, आ-कर्णयामि, मणि-नूपुर-शिञ्जितानि
सन्धयः
नीराजित+अग्रसरणेः = अकः सवर्णे दीर्घः
करुण+अम्बुराशेः = अकः सवर्णे दीर्घः
प्रति-नाद-पूरैः+आ-कर्णयामि = ससजुषो रुः
अम्बुराशेः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सरणेः+ करुण = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
वेणु-निनदैः+प्रति-नाद-पूरैः= ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
आकाङ्क्षा-अन्वयः
आलोल-लोचन-विलोकित-केलि-धारा-नीराजित+अग्सअरणेः करुण+अम्बु-राशेः वेणु-निनदैः प्रति-नाद-पूरैः आर्द्राणि मणि-नूपुर-शिञ्जितानि आ-कर्णयामि
Oh, Lord Śrīkṛṣṇa! I hearken adoringly to the delectable tinkling sounds of Your anklets that are dipped in joy being in sync with the melodies of Your flute as You traipse along the pathway aglow as if illumined by the darting looks of damsels and Yours too akin to the worshipful waving of lamps; and this pathway seems flooded by Your oceanic grace!
सुबन्तप्रक्रिया
आलोल-लोचन-विलोकित-केलि-धारा-नीराजित+अग्रसरणेः = इ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङीति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
करुण+अम्बुराशेः= इ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङीति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आर्द्राणि = अ, नपुं, २.३, शस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, अट्कुप्वाङ्नुम्व्यवायेऽपि
वेणु-निनदैः = अ, नपुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्रति-नाद-पूरैः = अ, नपुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
आ-कर्णयामि = आङ् + कर्ण चुरादिः, परस्मैपदी (उभयपदी), लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
आलोल-लोचन-विलोकित-केलि-धारा-नीराजित+अग्रसरणेः = आलोलालि लोचनानि क.धा, तैः विलोकिता केल्याः धारा (६तत्) क.धा, तस्यां नीराजितः अग्रसरणिः यस्य तस्य, बहुव्रीहिः
करुण+अम्बुराशेः= करुणा एव अम्बुराशिः यस्य तस्य, बहुव्रीहिः
वेणु-निनदैः = वेणोः निनदाः, तैः ६तत्
प्रति-नाद-पूरैः = प्रति नादम् प्रादिः, तैः पूराः तैः ३तत्

॥ हरिः ॐ तत् सत् ॥