Monday, March 3, 2025

Sri Krishna Karnamritam 1.31




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये ।
चन्द्रारविन्दविजयोचितवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः ॥ १.३१ ॥  
Meaning: Oh, Lord Śrīkṛṣṇa! Our eye hankers after Your tender youthful form replete with rich locks of hair deservedly crowned with peacock feathers, worshipped by the lotus-eyes of young damsels with ample bosoms and with a face ready to conquer both the moon and the lotus by its beauty!

व्याकरणांशाः
पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये ।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः ॥ १.३१ ॥
पिञ्छ+अवतंस-रचन+उचित-केश-पाशे, पीन-स्तनी-नयन-पङ्कज-पूज-नीये, चन्द्र+अरविन्द-विजय+उद्यत-वक्त्र-बिम्बे, चापल्यम्, एति, नयनम्, तव, शैशवे, नः
सन्धयः
पिञ्छ+अवतंस, चन्द्र+अरविन्द = अकः सवर्णे दीर्घः
रचन+उचित, विजय+उद्यत = आद्गुणः
नयनम् = मोऽनुस्वारः
नः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
नः नयनम् तव पिञ्छ+अवतंस-रचन+उचित-केश-पाशे पीन-स्तनी-नयन-पङ्कज-पूज-नीये चन्द्र+अरविन्द-विजय+उचित-वक्त्र-बिम्बे शैशवे चापल्यम् एति
Oh, Lord Śrīkṛṣṇa! Our eye hankers after Your tender youthful form replete with rich locks of hair deservedly crowned with peacock feathers, worshipped by the lotus-eyes of young damsels with ample bosoms and with a face ready to conquer both the moon and the lotus by its beauty!
सुबन्तप्रक्रिया
पिञ्छ+अवतंस-रचन+उचित-केश-पाशे = अ, नपुं, ७.१, ङि, आद्गुणः
पीन-स्तनी-नयन-पङ्कज-पूज-नीये = अ, नपुं, ७.१, ङि, आद्गुणः
चन्द्र+अरविन्द-विजय+उचित-वक्त्र-बिम्बे = अ, नपुं, ७.१, ङि, आद्गुणः
चापल्यमम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
नयनम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तव = युष्मद्, पुं, ६.१, ङस्, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
शैशवे = अ, नपुं, ७.१, ङि, आद्गुणः
नः = अस्मद्, पुं, ६.३, आम्, युष्मदस्मदोः षष्ठीचतुर्थीद्वितियास्थयोः वान्नावौ, बहुवचने वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
एति
निषिञ्च = नि+ षिचँ क्षेरणे, तुदादिः, परस्मैपदी (उभयपदी), लोट्, २.१, (आदेशप्रत्यययोः -> षत्वम्)
समासाः, तद्धिताः, कृदन्ताः
पिञ्छ+अवतंस-रचन+उचित-केश-पाशे = पिञ्छस्य अवतंसः ६तत्, तस्य रचना ६तत्, तस्मै उचितः ४तत्, केशस्य पाशः ६तत्, उचितः पाशः क.धा, यस्य तस्मिन् बहुव्रीहिः
पीन-स्तनी-नयन-पङ्कज-पूज-नीये = पीनौ स्तनौ यस्याः सा बहुव्रीहिः, तासां नयनं पङ्कजमिव उपमानकर्मधारयः, ६तत्, तेन पूजनीयम् ३तत्, यस्य तस्मिन् बहुव्रीहिः
चन्द्र+अरविन्द-विजय+उचित-वक्त्र-बिम्बे =ञ्चन्द्रश्च अरविन्दञ्च चन्द्रारविन्दे, तेषां विजयः ६तत्, तस्मै उचितम् ४तत्, उचितम् वक्त्रम् क.धा, वक्त्रस्य बिम्बम् ६तत्, यस्य तस्मिन् बहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥