
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
पुनःप्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४ ॥
Meaning: Oh, Lord Śrīkṛṣṇa! When indeed will my deep meditation be disturbed by that self-same nectarine melody of Your flute, graciously bestowed again by You, the mighty ocean of mercy, with Your many antecedent incarnations, now as Śrīkṛṣṇa being most kind towards all, with Your divine lustrous face!?
व्याकरणांशाः |
पुनःप्रसन्नेन मुखेन्दुतेजसा |
पुरोऽवतीर्णस्य कृपामहाम्बुधेः । |
तदेव लीलामुरलीरवामृतं |
समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४ ॥ |
पुनः+प्रसन्नेन, मुख+इन्दु-तेजसा, पुरस्+अव-तीर्णस्य, कृपा-महा+अम्बुधेः, तद्+एव, लीला-मुरली-रव+अमृतम्, समाधि-विघ्नाय, कदा, नु, मे, भवेत् |
सन्धयः | | | | | |
पुनर्+प्रसन्नेन = खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च |
मुख+इन्दु = आद्गुणः |
पुरस्+अव-तीर्णस्य = ससजुषो रुः& हशि च & आद्गुणः & एङः पदान्तादति |
महा+अम्बुधेः = अकः स्वर्णे दीर्घः |
लीला-मुरली-रव+अमृतम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
मे (मम) समाधि-विघ्नाय पुनः+प्रसन्नेन मुख+इन्दु-तेजसा पुरस्+अव-तीर्णस्य कृपा-महा+अम्बुधेः तद्+एव लीला-मुरली-रव+अमृतम् कदा नु भवेत् |
Oh, Lord Śrīkṛṣṇa! When indeed will my deep meditation be disturbed by that self-same nectarine melody of Your flute, graciously bestowed again by You, the mighty ocean of mercy, with Your many antecedent incarnations, now as Śrīkṛṣṇa being most kind towards all, with Your divine lustrous face!? |
सुबन्तप्रक्रिया | | | | | |
पुनः+प्रसन्नेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः |
मुख+इन्दु-तेजसा = अ, पुं, ३.१, टा, वर्णमेलनम् |
पुरस्+अव-तीर्णस्य = अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः |
कृपा-महा+अम्बुधेः = इ, पुं, ६.१, ङस्, घेर्ङीति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
तद् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
एव = अव्ययम् | | | | | |
लीला-मुरली-रव+अमृतम् = अ, नपुं, सुँ, अतोऽम्, अमि पूर्वः |
समाधि-विघ्नाय = अ, पुं, ४.१, ङे, ङेर्यः, सुपि च |
कदा = अव्ययम् |
नु = अव्ययम् |
मे = अस्मद्, पुं, ६.१, ङस्, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य |
तिङन्तप्रक्रिया | | | | |
भवेत् = भू सत्तयाम्, भ्वादिः, परस्मैपदी, विधिलिङ्, १.१ = |
समासाः, तद्धिताः, कृदन्ताः | | | |
पुनः+प्रसन्नेन = पुनः प्रसन्नः क.धा, तेन |
मुख+इन्दु-तेजसा = मुखम् इन्दुरिव उपमानोत्तरपदकर्मधारयः, तस्य तेजः, तेन ६तत् |
पुरस्+अव-तीर्णस्य = अव+तीर्णः (क्त कर्तरि कृदन्तः), पुरः अवतीर्णः क.धा, तस्य |
कृपा-महा+अम्बुधेः = महान् अम्बुधिः क.धा, कृपा एव महाम्बुधिःअवधारणाकर्मधारयः, तस्य |
लीला-मुरली-रव+अमृतम् = मुरल्याः रवः ६तत्, लीलायां कृतः रवः मध्यमपदलोपी तत्पुरुषः, रवः अमृतमिव उपमानोत्तरपदकर्मधारयः, तत् |
समाधि-विघ्नाय = समाधेः विघ्नः ६तत्, तस्मै |