Thursday, March 13, 2025

Sri Krishna Karnamritam 1.40




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

हे देव हे दयित हे जगदेकबन्धो
हे कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४० ॥  
Meaning: Oh, Lord Śrīkṛṣṇa! Oh Lord! Oh the Kind One! Oh the sole Dependable One of the world! Oh Kṛṣṇa! Oh the Vacillating One! Oh the sole Ocean of Compassion! Oh my Master! Oh Dear One! Oh the One who supremely delights any onlooker with Your form! Alas, alas! When indeed will You appear in front of my eyes?
व्याकरणांशाः
हे देव हे दयित हे जगदेकबन्धो
हे कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४० ॥
हे, देव, हे, दयित, हे, जगत्+एकबन्धो, हे, कृष्ण, हे, चपल, हे, करुण+एक-सिन्धो, हे, नाथ, हे, रमण, हे, नयन+ अभिराम, हा, हा, कदा, नु, भवितासि, पदम्, दृशोः, मे
सन्धयः
जगत्+एकबन्धो = झलां जशोऽन्ते
करुण+एक = वृद्धिरेचि
नयन+अभिराम = अकः सवर्णे दीर्घः
पदम् = मोऽनुस्वारः
दृशोः+मे= ससजुषो रुः
आकाङ्क्षा-अन्वयः
हे देव हे दयित हे जगत्+एकबन्धो हे कृष्ण हे चपल हे करुण+एक-सिन्धो हे नाथ हे रमण हे नयन+ अभिराम! हा हा! मे दृशोः पदम् कदा नु भवितासि!?!
Oh, Lord Śrīkṛṣṇa! Oh Lord! Oh the Kind One! Oh the sole Dependable One of the world! Oh Kṛṣṇa! Oh the Vacillating One! Oh the sole Ocean of Compassion! Oh my Master! Oh Dear One! Oh the One who supremely delights any onlooker with Your form! Alas, alas! When indeed will You appear in front of my eyes?
सुबन्तप्रक्रिया
हे, हा = अव्ययम्
देव = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
दयित= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
जगत्+एकबन्धो= उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
कृष्ण= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
चपल= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
करुण+एक-सिन्धो= उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
नाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
रमण= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
नयन+ अभिराम= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कदा = अव्ययम्
नु = अव्ययम्
पदम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
दृशोः = श्, स्त्री, ६.२, ओस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मे = अस्मद्, पुं, ६.२, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचने
तिङन्तप्रक्रिया
 भवितासि = भू सत्तायाम्, भ्वादिः, परस्मैपदी, लुट्, २.१
समासाः, तद्धिताः, कृदन्ताः
दयित = दय् क्त कर्तरि कृदन्तः
जगत्+एकबन्धो= जगतः एकः बन्धुः (क.धा) ६तत्, हे
करुण+एक-सिन्धो= करुणायाः एकः सिन्धुः (क.धा) ६तत्, हे
नयन+ अभिराम= नयनयोः अभि रामः (प्रादि) ६तत्.

॥ हरिः ॐ तत् सत् ॥