
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
निबद्धमुग्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतमुग्धकण्ठम् ।
दयाम्बुधे देव भवत्कटाक्ष-
दाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३० ॥
Meaning: Oh, Lord Śrīkṛṣṇa! The Ocean of Mercy! I beseech You with folded hands and head bowed in earnest, in my voice raised in genuine distress, would You grant, at least a bit out of courtesy, Your sidelong glance of grace and drench me with it?
व्याकरणांशाः |
निबद्धमुग्धाञ्जलिरेष याचे | | | | | |
नीरन्ध्रदैन्योन्नतमुग्धकण्ठम् । | | | | | |
दयाम्बुधे देव भवत्कटाक्ष- | | | | | |
दाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३० ॥ | | | | | |
निबद्ध-मुग्ध+अञ्जलिः, एषः, याचे, नीरन्ध्र-दैन्य+उन्नत-मुग्ध-कण्ठम्, दया+अम्बुधे, देव, भवत्-कटाक्ष-दाक्षिण्य-लेशेन, सकृत्, निषिञ्च |
सन्धयः | | | | | |
मुग्ध+अञ्जलिः, दया+अम्बुधे = अकः सवर्णे दीर्घः |
अञ्जलिः+एषः = ससजुषो रुः |
दैन्य+उन्नत = आद्गुणः |
एषः = एतत्तदोः सुलोपोकोरञ्समासे हलि |
सकृत् + निषिञ्च = यरोऽनुनासिकेऽनुनासिको वा |
आकाङ्क्षा-अन्वयः | | | | |
निबद्ध-मुग्ध+अञ्जलिः एषः (अहम्) नीरन्ध्र-दैन्य+उन्नत-मुग्ध-कण्ठम् याचे दया+अम्बुधे! देव! भवत्-कटाक्ष-दाक्षिण्य-लेशेन सकृत् निषिञ्च ! |
Oh, Lord Śrīkṛṣṇa! The Ocean of Mercy! I beseech You with folded hands and head bowed in earnest, in my voice raised in genuine distress, would You grant, at least a bit out of courtesy, Your sidelong glance of grace and drench me with it? |
सुबन्तप्रक्रिया | | | | | |
निबद्ध-मुग्ध+अञ्जलिः = इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
एषः = एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
नीरन्ध्र-दैन्य+उन्नत-मुग्ध-कण्ठम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः |
दया+अम्बुधे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वय गुणः, एङ्ह्रस्वात् सम्बुद्धेः |
देव = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः |
भवत्-कटाक्ष-दाक्षिण्य-लेशेन = अ, पुं, ३.१, टा, टाङासिङसामिनात्स्याः, आद्गुणः |
सकृत् = अव्ययम् |
तिङन्तप्रक्रिया | | | | |
याचे = डुयाचृँ याच्ञायाम्, भ्वादिः, आत्मनेपदी (उभयपदी), लट्, ३.१ |
निषिञ्च = नि+ षिचँ क्षेरणे, तुदादिः, परस्मैपदी (उभयपदी), लोट्, २.१, (आदेशप्रत्यययोः -> षत्वम्) |
समासाः, तद्धिताः, कृदन्ताः | | | |
निबद्ध-मुग्ध+अञ्जलिः = निबद्धः मुग्धः अञ्जलिः यस्य सः, समानाधिकरण बहुव्रीहिः |
नीरन्ध्र-दैन्य+उन्नत-मुग्ध-कण्ठम् = नीरन्ध्रम् दैन्यम् क.धा, दैन्येन उन्नतः ३तत्, उन्नतः मुग्धः कण्ठः क.धा, तम् (क्रियाविशेषणम्) |
दया+अम्बुधे = दयायाः अम्बुधिः ६तत्, यस्य सः, हे, बहुव्रीहिः |
भवत्-कटाक्ष-दाक्षिण्य-लेशेन = भवतः कटाक्षः ६तत्, तस्य दाक्षिण्यः ६तत्, तस्य लेशः, तेन ६तत्. |