Wednesday, March 5, 2025

Sri Krishna Karnamritam 1.33




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

पर्याचितामृतरसानि पदार्थभङ्गी-
फल्गूनि वल्गितविशालविलोचनानि ।
बाल्याधिकानि मदवल्लभभाषितानि
भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३ ॥   
Meaning: Oh, Lord Śrīkṛṣṇa! Your manly, nectar-oozing, darting, large eyes that belittle the best of gems and ornaments in their attractiveness and Your alluring words of amorous talk carry away the minds of beauteous-eyed damsels!

व्याकरणांशाः
पर्याचितामृतरसानि पदार्थभङ्गी-
फल्गूनि वल्गितविशालविलोचनानि ।
बाल्याधिकानि मदवल्लभभाषितानि
भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३ ॥
परि+आ+चित+अमृत-रसानि, पद+अर्थ-भङ्गी-फल्गूनि, वल्गित-विशाल-वि-लोचनानि, बाल्य+अधिकानि, मद-वल्लभ-भाषितानि, भावे, लुठन्ति, सुदृशाम्, तव, जल्पितानि
सन्धयः
परि+आ = इको यणचि
पद+अर्थ, बाल्य+अधिकानि = अकः सवर्णे दीर्घः
सुदृशाम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
तव बाल्य+अधिकानि परि+आ+चित+अमृत-रसानि पद+अर्थ-भङ्गी-फल्गूनि वल्गित-विशाल-वि-लोचनानि मद-वल्लभ-भाषितानि जल्पितानि सुदृशाम् भावे लुठन्ति
Oh, Lord Śrīkṛṣṇa! Your manly, nectar-oozing, darting, large eyes that belittle the best of gems and ornaments in their attractiveness and Your alluring words of amorous talk carry away the minds of beauteous-eyed damsels!
सुबन्तप्रक्रिया
परि+आ+चित+अमृत-रसानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
पद+अर्थ-भङ्गी-फल्गूनि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
वल्गित-विशाल-वि-लोचनानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनमस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
बाल्य+अधिकानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
मद-वल्लभ-भाषितानि = अ, नपुं, १.३, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
भावे = अ, पुं, ७.१, ङि, आद्गुणः
सुदृशाम् = सदृश्, स्त्री, ६.३, आम्, वर्णमेलनम्
तव = युष्मद्, पुं, ६.१, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
जल्पितानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थाने, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
तिङन्तप्रक्रिया
लुठन्ति = लुठँ संश्लेषणे, तुदादिः, परस्मैपदी, लट्, १.३
समासाः, तद्धिताः, कृदन्ताः
परि+आ+चित+अमृत-रसानि = परि-आ-चितः अमृतस्य रसः (६तत्) क.धा, येषां तानि बहुव्रीहिः
पद+अर्थ-भङ्गी-फल्गूनि = पदार्थाः भन्गिनः द्वन्द्वः, ते फल्गूनि इव कृतानि यैः तानि ३ बहुव्रीहिः
वल्गित-विशाल-वि-लोचनानि = वल्गितानि विशालानि विशिष्टानि लोचनानि क.धा
बाल्य+अधिकानि = बाल्यात् अधिकानि ५ तत्
मद-वल्लभ-भाषितानि = मदेन वल्लभः ३तत्, तेन भाषितानि ३तत्
सुदृशाम् = सुष्टु दृशः यासां ताः समानाधिकरणबहुव्रीहिः, तासाम्

॥ हरिः ॐ तत् सत् ॥