॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसंपदा च ।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति ॥ १.३६ ॥
Meaning: Oh for the the sheer thrill of it! Lord Śrīkṛṣṇa always shakes and agitates my mind with His tremulous Bimba-fruit-like lower lip, His rich flute melody that is dipped in sheer joy, and in fact somehow or by any means!
व्याकरणांशाः |
| | | | | |
हर्षार्द्रवेणुस्वरसंपदा च । | | | | | |
| | | | | |
हा हन्त हा हन्त मनो धुनोति ॥ १.३६ ॥ | | | | | |
अधीर-बिम्ब+अधर-विभ्रमेण, हर्ष+आर्द्र-वेणु-स्वर-संपदा, च, अनेन, केन+अपि, मनोहरेण, हा, हन्त, हा, हन्त, मनः, धुनोति |
सन्धयः | | | | | |
बिम्ब+अधर = अकः सवर्णे दीर्घः |
हर्ष+आर्द्र = अकः सवर्णे दीर्घः |
केन+अपि = अकः सवर्णे दीर्घः |
मनः+ धुनोति = ससजुषो रुः, हशि च, आद्गुणः |
आकाङ्क्षा-अन्वयः | | | | |
हा हन्त हा हन्त मनः (सः) अधीर-बिम्ब+अधरविभ्रमेण हर्ष+आर्द्र-वेणु-स्वर-संपदा च अनेन केन+अपि मनोहरेण धुनोति |
Oh for the the sheer thrill of it! Lord Śrīkṛṣṇa always shakes and agitates my mind with His tremulous Bimba-fruit-like lower lip, His rich flute melody that is dipped in sheer joy, and in fact somehow or by any means! |
सुबन्तप्रक्रिया | | | | | |
अधीर-बिम्ब+अधरविभ्रमेण = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, अट्कुप्वाङ्नुम्व्यवायेऽपि |
हर्ष+आर्द्र-वेणु-स्वर-संपदा = द्, स्त्री, ३.१, टा, वर्णमेलनम् |
च = अव्ययम् |
अनेन =इदम्, सर्वनाम, पुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, अनाप्यकः, आद्गुणः |
केन = किम्, सर्वनाम, पुं, ३.१, टा, किमः कः, टाङसिङसामिनात्स्याः, आद्गुणः |
अपि = अव्ययम् |
मनोहरेण = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, अट्कुप्वाङ्नुम्व्यवायेऽपि |
हा = अव्ययम् |
हन्त = अव्ययम् |
मनः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
तिङन्तप्रक्रिया | | | | |
धुनोति = धुञ् कम्पने, स्वादिः, परस्मैपदी (उभयपदी), लट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
अधीर-बिम्ब+अधरविभ्रमेण = अधीरः अधरः क.धा, अधरः बिम्बमिव उपमानोत्तरकर्मधारयः, तस्य विभ्रमः ६तत्, तेन |
हर्ष+आर्द्र-वेणु-स्वर-संपदा =हर्षेण आर्द्रः ३तत्, आर्द्रः स्वरः क.धा, वेण्याः स्वरः ६तत्, तस्य सम्पद् ६तत्, तया |
मनोहरेण = मनः हरतीति मनोहरः उपपद, तेन |