Friday, March 14, 2025

Sri Krishna Karnamritam 1.41




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण        ।
अनाथबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि ॥ १.४१ ॥  
Meaning: Oh, Lord Śrīkṛṣṇa, Hari! Oh Sole Refuge of the Lost! Oh the sole Ocean of Mercy! Alas! Alas! Without getting Your darśan, how do I eke out these fruitless days?

व्याकरणांशाः
अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण ।
अनाथबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि ॥ १.४१ ॥
अमूनि, अ-धन्यानि, दिन+अन्तराणि, हरे, त्वत्+आलोकनम्+अन्तरेण, अ-नाथ-बन्धो!, करुण+एक-सिन्धो!, हा. हन्त. हा. हन्त. कथम्, नयामि?
सन्धयः
अमूनि+अ-धन्यानि = इको यणचि
दिन+अन्तराणि = अकः सवर्णे दीर्घः
त्वत्+आलोकनम् = झलां जशोऽन्ते
कथम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
हरे! अ-नाथ-बन्धो! करुण+एक-सिन्धो! हा हन्त हा हन्त! त्वत्+आलोकनम्+अन्तरेण कथम् अमूनि अ-धन्यानि दिन+अन्तराणि नयामि?
Oh, Lord Śrīkṛṣṇa, Hari! Oh Sole Refuge of the Lost! Oh the sole Ocean of Mercy! Alas! Alas! Without getting Your darśan, how do I eke out these fruitless days?
सुबन्तप्रक्रिया
अमूनि = अदस्, स्, नपुं, २.३, शस्, त्यदादीनामः, अतो गुणे, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, अदसोऽसेर्दादु दो मः
अ-धन्यानि = अ, नपुं, २.३, शस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
दिन+अन्तराणि= अ, नपुं, २.३, शस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
हरे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
त्वत्+आलोकनम्+अन्तरेण = अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
अ-नाथ-बन्धो! = उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
करुण+एक-सिन्धो!= उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
हा. हन्त. हा. हन्त. कथम् = अव्ययानि
तिङन्तप्रक्रिया
नयामि = णीञ् प्रापणे, भ्वादिः, परस्मैपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
दिन+अन्तराणि= दिनस्य अन्तराणि, ६तत्
त्वत्+आलोकनम्+अन्तरेण = तव आलोकनम् ६तत्, तस्य अन्तरम्, मयूरव्यंसकादि, तेन
अ-नाथ-बन्धो! = नास्ति अस्य नाथः अनाथः नञ् बहुव्रीहिः, तेषां बन्धुः ६तत्, हे
करुण+एक-सिन्धो!= करुणायाः सिन्धुः ६तत्, एकः एव सिन्धुः क.धा, हे

॥ हरिः ॐ तत् सत् ॥