व्याकरणांशाः |
यावन्न मे नरदशा दशमी दृशोऽपि | | | | | |
रन्ध्रादुदेति तिमिरीकृतसर्वभावा । | | | | | |
लावण्यकेलिसदनं तव तावदेतु | | | | | |
लक्ष्म्या समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८ ॥ | | | | | |
यावत्+न, मे, नर-दशा, दशमी, दृशः+अपि, रन्ध्रात्+उदेति, तिमिरी-कृत-सर्व-भावा, लावण्य-केलि-सदनम्, तव, तावत्+एतु, लक्ष्म्या, सम्+उत्+क्वणित-वेणु, मुख+इन्दु-बिम्बम् |
सन्धयः | | | | | |
यावत्+न =झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा |
दृशः+अपि = ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एण्गः पदान्तादति |
रन्ध्रात्+उदेति = झलां जशोऽन्ते |
लावण्य-केलि-सदनम् = मोऽनुस्वारः |
तावत्+एतु = झलां जशोऽन्ते |
उत्+क्वणित = झलां जशोऽन्ते, खरि च |
मुख+इन्दु = आद्गुणः |
आकाङ्क्षा-अन्वयः | | | | |
यावत्+न मे नर-दशा दशमी दृशः+अपि रन्ध्रात्+उदेति तिमिरी-कृत-सर्व-भावा लावण्य-केलि-सदनम् तव तावत्+एतु लक्ष्म्या सम्+उत्+क्वणित-वेणु मुख+इन्दु-बिम्बम् |
Oh, Lord Śrīkṛṣṇa! Surely, as I do know, my life's last, i.e. tenth decade will bring utter darkness into my life through the little holes of my eyes. Before that, nay, right now in fact, let eyes go to and rejoice in the delightful sport spot of Your rich, resplendent flute music and Your moon-like face's wondrous image! Would that not compensate for the physical infirmities of my last days? |
सुबन्तप्रक्रिया | | | | | |
यावत् = अव्ययम् |
न = अव्ययम् | | | | | |
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य |
नर-दशा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल् |
दशमी = ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल् |
दृशः = ष्, स्त्री, १.३, जस्, न विभक्तौ तुस्माः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
अपि = अव्ययम् | | | | | |
रन्ध्रात् = अ, पुं, ५१., ङसि, टाङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः |
तिमिरी-कृत-सर्व-भावा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल् |
लावण्य-केलि-सदनम् = अ, पुं, २.१, अम्, अमि पूर्वः |
तव = युष्मद्, पुं, ६.१, ङस्, यषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
तावत् = अव्ययम् |
लक्ष्म्या = ई, स्त्री, ३.१, टा, इको यणचि |
सम्+उत्+क्वणित-वेणु- मुख+इन्दु-बिम्बम् = उ, पुं, २.१, अम्, अतोऽम् |
तिङन्तप्रक्रिया | | | | |
उदेति = उद्+एति इण् गतौ, अदादिः, परस्मैपदी, लट्, १.१ |
एतु = इण्, गतौ, अदादिः, परस्मैपदी, लोट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
नर-दशा = नरस्य दशा ६तत् |
तिमिरी-कृत-सर्व-भावा = तिमिरं तिमिरं करोति च्वि, तिमिरीकृता सर्वा भावा क.धा |
लावण्य-केलि-सदनम् = लावण्यस्य केलिः ६तत्, तस्याः सदनम्, तम् ६तत् |
सम्+उत्+क्वणित-वेणु- मुख+इन्दु-बिम्बम् = उत्क्वणित(प्रादि॒) सम्यग् उत्क्वणीतः वेणुः क.धा, तेन सह ३तत् मुखम् इन्दुरिव क.धा, तस्य बिम्बम् ६तत्., तत् |