Tuesday, March 4, 2025

Sri Krishna Karnamritam 1.32




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम् ।
तत्किं करोमि विरणन्मुरलीविलास-
मुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२ ॥ 
Meaning: Oh, Lord Śrīkṛṣṇa! That Your childhood phenomenon is the marvel of the three worlds, I well know! And yet, given this indisputable hankering of mine, -pray tell me- what should I do to secure a vision with my eyes of Your wondrous, beauteous, lotus-like face delighting in the playing of the ceaseless melodies of Your flute!!!???

व्याकरणांशाः
त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम् ।
तत्किं करोमि विरणन्मुरलीविलास-
मुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२ ॥
त्वत्+शैशवम्, त्रि-भुवन+अद्भुतम्, इति, अवैमि, यत्+चापलम्, च, मम, वाक्+अविवाद-गम्यम्, तद्+किम्, करोमि, विरणत्+मुरली-विलास-मुग्धम्, मुख+ अम्बुजम्, उदीक्षितुम्, ईक्षणाभ्याम्
सन्धयः
त्वत्+शैशवम्= झलां जशोऽन्ते & स्तोः श्चुना श्चुः & शश्छोऽटि & खरि च
भुवन+अद्भुतम्, मुख+ अम्बुजम् = अकः सवर्णे दीर्घः
इति+अवैमि = इको यणचि
यत्+चापलम् = झलां जशोऽन्ते & स्तोः श्चुना श्चुः & खरि च
विरणत्+मुरली = झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
त्वत्+शैशवम्, यत्+चापलम्, तद्+किम्, विरणत्+मुरली-विलास-मुग्धम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
त्वत्+शैशवम् त्रि-भुवन+अद्भुतम् इति अवैमि! यत्+चापलम् च मम वाक्+अविवाद-गम्यम्, तद् (त्वत्+) विरणत्+मुरली-विलास-मुग्धम् मुख+ अम्बुजम् ईक्षणाभ्याम् उदीक्षितुम् किम् करोमि
Oh, Lord Śrīkṛṣṇa! That Your childhood phenomenon is the marvel of the three worlds, I well know! And yet, given this indisputable hankering of mine, -pray tell me- what should I do to secure a vision with my eyes of Your wondrous, beauteous, lotus-like face delighting in the playing of the ceaseless melodies of Your flute!!!???
सुबन्तप्रक्रिया
त्वत्+शैशवम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
त्रि-भुवन+अद्भुतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
इति = अव्ययम्
यत्+चापलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
च = अव्ययम्
मम = अस्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
वाक्+अविवाद-गम्यम् = = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तद्+किम् = म्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
विरणत्+मुरली-विलास-मुग्धम्= म्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
मुख+ अम्बुजम्= म्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
उदीक्षितुम् = अव्ययम् (उद्+ ईक्षँ दर्शने, तुमुन् कृदन्तः)
ईक्षणाभ्याम् = अ, नपुं, ३.२, भ्याम्, सुपि च
तिङन्तप्रक्रिया
अवैमि = अव+इण् गतौ अदादिः परस्मैपदी, लट्, ३.१
करोमि = डुकृञ् करणे, तनादिः, परस्मैपदी (उभयपदी), लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
त्वत्+शैशवम् = तव शैशवम्, ६तत्
वाक्+अविवाद-गम्यम् =न विवादः अस्ति अस्य, अविवादः, अविवादेन गम्यम् ३तत्, वाचः अविवादगम्यम् ६तत्
विरणत्+मुरली-विलास-मुग्धम्= विरणति यः शतृप्रत्ययः, विरणन्ती मुरली क.धा, तस्याः विलासः ६तत्, तेन मुग्धम् ३तत्.
मुख+ अम्बुजम्= मुखम् अम्बुजमिव उपमानकर्मधारयः

॥ हरिः ॐ तत् सत् ॥