Tuesday, March 11, 2025

Sri Krishna Karnamritam 1.38






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिसदनं तव तावदेतु
लक्ष्म्या समुत्क्वणितवेणु मुखेन्दुबिम्बम् ॥ १.३८ ॥
Meaning: Oh, Lord Śrīkṛṣṇa! Surely, as I do know, my life's last, i.e. tenth decade will bring utter darkness into my life through the little holes of my eyes. Before that, nay, right now in fact, let eyes go to and rejoice in the delightful sport spot of Your rich, resplendent flute music and Your moon-like face's wondrous image! Would that not compensate for the physical infirmities of my last days?

व्याकरणांशाः
यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिसदनं तव तावदेतु
लक्ष्म्या समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८ ॥
यावत्+न, मे, नर-दशा, दशमी, दृशः+अपि, रन्ध्रात्+उदेति, तिमिरी-कृत-सर्व-भावा, लावण्य-केलि-सदनम्, तव, तावत्+एतु, लक्ष्म्या, सम्+उत्+क्वणित-वेणु, मुख+इन्दु-बिम्बम्
सन्धयः
यावत्+न =झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
दृशः+अपि = ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एण्गः पदान्तादति
रन्ध्रात्+उदेति = झलां जशोऽन्ते
लावण्य-केलि-सदनम् = मोऽनुस्वारः
तावत्+एतु = झलां जशोऽन्ते
उत्+क्वणित = झलां जशोऽन्ते, खरि च
मुख+इन्दु = आद्गुणः
आकाङ्क्षा-अन्वयः
यावत्+न मे नर-दशा दशमी दृशः+अपि रन्ध्रात्+उदेति तिमिरी-कृत-सर्व-भावा लावण्य-केलि-सदनम् तव तावत्+एतु लक्ष्म्या सम्+उत्+क्वणित-वेणु मुख+इन्दु-बिम्बम्
Oh, Lord Śrīkṛṣṇa! Surely, as I do know, my life's last, i.e. tenth decade will bring utter darkness into my life through the little holes of my eyes. Before that, nay, right now in fact, let eyes go to and rejoice in the delightful sport spot of Your rich, resplendent flute music and Your moon-like face's wondrous image! Would that not compensate for the physical infirmities of my last days?
सुबन्तप्रक्रिया
यावत् = अव्ययम्
न = अव्ययम्
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
नर-दशा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
दशमी = ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
दृशः = ष्, स्त्री, १.३, जस्, न विभक्तौ तुस्माः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपि = अव्ययम्
रन्ध्रात् = अ, पुं, ५१., ङसि, टाङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः
तिमिरी-कृत-सर्व-भावा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
लावण्य-केलि-सदनम् = अ, पुं, २.१, अम्, अमि पूर्वः
तव = युष्मद्, पुं, ६.१, ङस्, यषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
तावत् = अव्ययम्
लक्ष्म्या = ई, स्त्री, ३.१, टा, इको यणचि
सम्+उत्+क्वणित-वेणु- मुख+इन्दु-बिम्बम् = उ, पुं, २.१, अम्, अतोऽम्
तिङन्तप्रक्रिया
उदेति = उद्+एति इण् गतौ, अदादिः, परस्मैपदी, लट्, १.१
एतु = इण्, गतौ, अदादिः, परस्मैपदी, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
नर-दशा = नरस्य दशा ६तत्
तिमिरी-कृत-सर्व-भावा = तिमिरं तिमिरं करोति च्वि, तिमिरीकृता सर्वा भावा क.धा
लावण्य-केलि-सदनम् = लावण्यस्य केलिः ६तत्, तस्याः सदनम्, तम् ६तत्
सम्+उत्+क्वणित-वेणु- मुख+इन्दु-बिम्बम् = उत्क्वणित(प्रादि॒) सम्यग् उत्क्वणीतः वेणुः क.धा, तेन सह ३तत् मुखम् इन्दुरिव क.धा, तस्य बिम्बम् ६तत्., तत्

॥ हरिः ॐ तत् सत् ॥


Two Shlokas from Valmiki Ramayana - on the Palasha Tree!

 


Jai Shri Ram! 

I searched for shlokas on the Kimśuka or Palāṣa tree in the Rāmāyaṇa. Here are two—both wonderful.
====
King Daśaratha is bemoaning the forced exile of Śrīrāma. He is plunged in utter regret and recalls the trenchant episode of Śravaṇakumāra, whom he slew mistaking him for an elephant while hunting in the dark.  Kimśuka or Palāṣa tree is most attractive with flame-like flowers in strings.
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति         ।
पुष्पं दृश्ट्वा फले गृघ्नुः स शोचति फलागमे        ॥ २.६३.८१ ॥
Meaning: Someone who cuts down his mango grove and plants Palāṣa trees instead after seeing the Palāṣa flowers in bloom, desirous of great fruits, lives to regret his act seeing how worthless those fruits are!





But Nature willed that the Palāṣa tree be known for its spectacular flowers, not fruits! How wonderful are those flowers! Śrīrāma points this out to Sītā when they enter the forest:
अदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्           
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ॥ २.५६.६ ॥
Meaning: "Oh, Sītā! See these beautiful Palāṣa trees! They are aglow all around with their own flowers worn as garlands at the end of winter!


***




Monday, March 10, 2025

The Palasha Tree!

Video: https://photos.app.goo.gl/VuWZqqUPyUi4pBdk8
These are pictures from the beautiful big Palasha tree in bloom in the Chinmaya Deenabandhu Devasthanam. 

Palash in different Indian languages

**Palash in Different Indian Languages:**

- **Assamese**: বিপৰ্ণক (Bipornok), কিংশুক (Kingxuk), পলাশ (Polax)
- **Bengali**: পলাশ (Palash)
- **Gujarati**: કેસૂડો (Kesudo), ખાખરો (Khakhro), પલાશ (Palash)
- **Hindi**: ढाक (Dhak), पलाश (Palash), टेसू (Tesu)
- **Kannada**: ಮುತ್ತುಗ (Muttuga), ಪಲಾಶ (Palasha), ಮೋದುಗು (Modugu)
- **Kashmiri**: पलाश् (Palash)
- **Konkani**: पळस (Palas)
- **Malayalam**: ചമത (Chamata), കിംശുകം (Kinsukam), പ്ലാശ് (Plaas)
- **Marathi**: ढाक (Dhak), पळस (Palas)
- **Nepali**: पलाँस (Palans)
- **Oriya**: ପଳାଶ (Palasha)
- **Punjabi**: ਢਾਕ (Dhak), ਪਲਾਸ (Palas)
- **Sanskrit**: किंशुक (Kimshuka), पलाश (Palasha)
- **Tamil**: கிஞ்சுகம் (Kincukam), பலாசம் (Palasam)
- **Telugu**: కింశుకము (Kimsukamu), పలాశము (Palasamu)
- **Urdu**: ڐهاك (Dhak)[1][2][4].

Citations:
[1] Palasha (Sanskrit: पलाश) | Palash (Hindi - Flickr https://www.flickr.com/photos/dinesh_valke/2114303697
[2] [PDF] PHARMACOLOGICAL PROFILE OF PALASH (BUTEA ... https://internationaljournal.org.in/journal/index.php/ijayush/article/view/186/180
[3] Palash: the Flame of the Forest flower - VarnikaDesigns https://varnikadesigns.wordpress.com/2021/04/02/palash-the-flame-of-the-forest-flower/
[4] Palash: डॉक्टर से ज़्यादा उपयोगी है पलाश- Acharya Balkrishan Ji ... https://www.1mg.com/hi/patanjali/palash-benefits-in-hindi/
[5] Butea monosperma - Wikipedia https://en.wikipedia.org/wiki/Butea_monosperma
[6] Palash: 2 definitions - Wisdom Library https://www.wisdomlib.org/definition/palash
[7] Palash/Butea Monosperma: Health Benefits, Uses In Ayurveda ... https://www.netmeds.com/health-library/post/palash-butea-monosperma-health-benefits-uses-in-ayurveda-dosage-side-effects
[8] Palasha - Shri Dhanwantry Ayurvedic College & Hospital https://www.sdach.ac.in/about-dravyaguna-vigyan/dravyaguna-vigyan-blogs/palasha/

Courtesy: Perplexity! 

Sri Krishna Karnamritam 1.37






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

यावन्न मे निखिलमर्मदृढाभिघात-
निःसन्धिबन्धनमुदेति नवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्र-
चन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७ ॥  
Meaning: Oh, Lord Śrīkṛṣṇa! Surely, as I do know, my life's end moment will come when I shall be plunged into utter burning agony with all my limbs and organs tied up and cringing in pain. Before that, nay, right now, let my mind become engrossed in the doubled joyous flow of the cool luminosity of Your moon-like face! That way, my mind will be in ethereal bliss, disconnected from bodily misery!

व्याकरणांशाः
यावन्न मे निखिलमर्मदृढाभिघात-
निःसन्धिबन्धनमुदेति नवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्र-
चन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७ ॥
यावत्+न, मे, निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम्, उदेति, नव+उपतापः, तावत्+विभो, भवतु, तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता, मम, चित्तधारा
सन्धयः
यावत्+न =झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
दृढ+अभिघात = अकः सवर्णे दीर्घः
निस्+सन्धि = ससजुषो रुः & खरवसानयोर्विसर्जनीयः& विसर्जनीयस्य सः
नव+उपतापः = आद्गुणः
उपतापः = स्रसजुषो रुः & खरवसानयोर्विसर्जनीयः
तावत्+विभो = झलां जशोऽन्ते
चन्द्र+आतप = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
यावत् मे नव+उपतापः निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम् न उदेति, विभो तावत् मम चित्तधारा तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता भवतु
Oh, Lord Śrīkṛṣṇa! Surely, as I do know, my life's end moment will come when I shall be plunged into utter burning agony with all my limbs and organs tied up and cringing in pain. Before that, nay, right now, let my mind become engrossed in the doubled joyous flow of the cool luminosity of Your moon-like face! That way, my mind will be in ethereal bliss, disconnected from bodily misery!
सुबन्तप्रक्रिया
यावत् = अव्ययम्
न = अव्ययम्
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयाअवेकचनस्य
निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम् = अ, नपुं, अतोऽम्, अमि पूर्वं
नव+उपतापः = अ, पुं, १.१, सुँ, ससजोषो रुः, खरवसानयोर्विसर्जनीयः
तावत् = अव्ययम्
विभो = उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
चित्तधारा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तिङन्तप्रक्रिया
उदेति = उद्+एति इण् गतौ, अदादिः, परस्मैपदी, लट्, १.१
भवतु = भू सत्तयाम्, भ्वादिः, परस्मैपदी, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
निखिल-मर्म-दृढ+अभिघात-निस्+सन्धि-बन्धनम् = निखिलम् मर्म क.धा, दृढम् अभिघातम् मर्म क.धा, तस्य; निः सन्धिः नञ्तत्, निःसन्धेः बन्धनम् बन्धनम् ६तत्, तस्य निःसन्धिबन्धनम् ६तत्
नव+उपतापः = नवः उपतापः (प्रादि) क.धा
तावक-वक्त्र-चन्द्र-चन्द्र+आतप-द्विगुणिता = तावकम् (युष्मद् अण् तद्धितः) वक्त्रम् क.धा, कत्रम् चन्द्र इव उपमानोत्तरपदकर्मधारयः, चन्द्रस्य चन्द्रातपः (क.धा) ६तत्, तेन द्विगुणिता ३तत्
चित्तधारा = चित्तस्य धारा ६तत्

॥ हरिः ॐ तत् सत् ॥

Saturday, March 8, 2025

Sri Krishna Karnamritam 1.36





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसंपदा च ।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति ॥ १.३६ ॥  
Meaning: Oh for the the sheer thrill of it! Lord Śrīkṛṣṇa always shakes and agitates my mind with His tremulous Bimba-fruit-like lower lip, His rich flute melody that is dipped in sheer joy, and in fact somehow or by any means!
व्याकरणांशाः
अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसंपदा च ।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति ॥ १.३६ ॥
अधीर-बिम्ब+अधर-विभ्रमेण, हर्ष+आर्द्र-वेणु-स्वर-संपदा, च, अनेन, केन+अपि, मनोहरेण, हा, हन्त, हा, हन्त, मनः, धुनोति
सन्धयः
बिम्ब+अधर = अकः सवर्णे दीर्घः
हर्ष+आर्द्र = अकः सवर्णे दीर्घः
केन+अपि = अकः सवर्णे दीर्घः
मनः+ धुनोति = ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
हा हन्त हा हन्त मनः (सः) अधीर-बिम्ब+अधरविभ्रमेण हर्ष+आर्द्र-वेणु-स्वर-संपदा च अनेन केन+अपि मनोहरेण धुनोति
Oh for the the sheer thrill of it! Lord Śrīkṛṣṇa always shakes and agitates my mind with His tremulous Bimba-fruit-like lower lip, His rich flute melody that is dipped in sheer joy, and in fact somehow or by any means!
सुबन्तप्रक्रिया
अधीर-बिम्ब+अधरविभ्रमेण = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, अट्कुप्वाङ्नुम्व्यवायेऽपि
हर्ष+आर्द्र-वेणु-स्वर-संपदा = द्, स्त्री, ३.१, टा, वर्णमेलनम्
च = अव्ययम्
अनेन =इदम्, सर्वनाम, पुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, अनाप्यकः, आद्गुणः
केन = किम्, सर्वनाम, पुं, ३.१, टा, किमः कः, टाङसिङसामिनात्स्याः, आद्गुणः
अपि = अव्ययम्
मनोहरेण = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, अट्कुप्वाङ्नुम्व्यवायेऽपि
हा = अव्ययम्
हन्त = अव्ययम्
मनः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
धुनोति = धुञ् कम्पने, स्वादिः, परस्मैपदी (उभयपदी), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
अधीर-बिम्ब+अधरविभ्रमेण = अधीरः अधरः क.धा, अधरः बिम्बमिव उपमानोत्तरकर्मधारयः, तस्य विभ्रमः ६तत्, तेन
हर्ष+आर्द्र-वेणु-स्वर-संपदा =हर्षेण आर्द्रः ३तत्, आर्द्रः स्वरः क.धा, वेण्याः स्वरः ६तत्, तस्य सम्पद् ६तत्, तया
मनोहरेण = मनः हरतीति मनोहरः उपपद, तेन

॥ हरिः ॐ तत् सत् ॥

Friday, March 7, 2025

Sri Krishna Karnamritam 1.35




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

भावेन मुग्धचपलेन विलोकितेन
मन्मानसे किमपि चापलमुद्वहन्तम् ।  
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः ॥ १.३५ ॥ 
Meaning: Oh, Lord Śrīkṛṣṇa! With emotions of innocent desires manifest in Your eyes, our eyes partaking of Your nectarine eyes, stirring in our hearts some inexplicable longing, Your form of a child incarnated for mere sport - how eager are we to embrace You! 


व्याकरणांशाः
भावेन मुग्धचपलेन विलोकितेन
मन्मानसे किमपि चापलमुद्वहन्तम् ।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः ॥ १.३५ ॥
भावेन, मुग्ध-चपलेन, विलोकितेन, मत्+मानसे, किम्+अपि, चापलम्, उद्वहन्तम्, लोलेन, लोचन-रसायनम्, ईक्षणेन, लीला-किशोरम्, उपगूहितुम्, उत्सुकाः, स्मः
सन्धयः
मत्+मानसे= यरोऽनुनासिकेऽनुनासिको वा
उद्+वहन्तम् = झलां जशोऽन्ते
उत्सुकाः+स्मः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
स्मः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
भावेन मुग्ध-चपलेन विलोकितेन लोलेन लोचन-रसायनम् ईक्षणेन मत्+मानसे किम्+अपि चापलम् उद्वहन्तम् लीला-किशोरम् उपगूहितुम् उत्सुकाः स्मः
Oh, Lord Śrīkṛṣṇa! With emotions of innocent desires manifest in Your eyes, our eyes partaking of Your nectarine eyes, stirring in our hearts some inexplicable longing, Your form of a child incarnated for mere sport - how eager are we to embrace You!
सुबन्तप्रक्रिया
भावेन = अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः
मुग्ध-चपलेन= अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः
विलोकितेन = अ, पुं, ३.१, टा, टाङासिङासामिनात्स्याः, आद्गुणः
मत्+मानसे =अ, पुं, ७.१, ङि, वर्णमेलनम्
किम् = म्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, अमि पूर्वः
अपि = अव्ययम्
चापलम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
उद्वहन्तम् = त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदन्तस्य झलि, अनुस्वारस्य ययि परसवर्णः
लोलेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः
लोचन-रसायनम् = अ, पुं, २.१, अम्, अमि पूर्वः
ईक्षणेन = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
लीला-किशोरम् = अ, पुं, २.१, अम्, अमि पूर्वः
उत्सुकाः = अ, पुं, १.३, ज़स्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
स्मः = असँ भुवि, अदादिः.परस्मैपदी, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
उपगूहितुम् = उप+गुहूँ संवरणे, भ्वादिः, उभयपदी, वेट्, तुमुन् कृदन्तः
लीला-किशोरम् = लीलायां किशोरः, तम्, ७तत्
चापलम् = चपलस्य कर्म तद्धितः, तम्
उद्वहन्तम् = उद्+वहत् शतृ कृदन्तः, तम्
लोचन-रसायनम् = रसाः ईयन्ते अनेन रसायनः, लोचनस्य रसायनः, तम्

॥ हरिः ॐ तत् सत् ॥


Thursday, March 6, 2025

Sri Krishna Karnamritam 1.34




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

पुनःप्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४ ॥   
Meaning: Oh, Lord Śrīkṛṣṇa! When indeed will my deep meditation be disturbed by that self-same nectarine melody of Your flute, graciously bestowed again by You, the mighty ocean of mercy, with Your many antecedent incarnations, now as Śrīkṛṣṇa being most kind towards all, with Your divine lustrous face!?

व्याकरणांशाः
पुनःप्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४ ॥
पुनः+प्रसन्नेन, मुख+इन्दु-तेजसा, पुरस्+अव-तीर्णस्य, कृपा-महा+अम्बुधेः, तद्+एव, लीला-मुरली-रव+अमृतम्, समाधि-विघ्नाय, कदा, नु, मे, भवेत्
सन्धयः
पुनर्+प्रसन्नेन = खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
मुख+इन्दु = आद्गुणः
पुरस्+अव-तीर्णस्य = ससजुषो रुः& हशि च & आद्गुणः & एङः पदान्तादति
महा+अम्बुधेः = अकः स्वर्णे दीर्घः
लीला-मुरली-रव+अमृतम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
मे (मम) समाधि-विघ्नाय पुनः+प्रसन्नेन मुख+इन्दु-तेजसा पुरस्+अव-तीर्णस्य कृपा-महा+अम्बुधेः तद्+एव लीला-मुरली-रव+अमृतम् कदा नु भवेत्
Oh, Lord Śrīkṛṣṇa! When indeed will my deep meditation be disturbed by that self-same nectarine melody of Your flute, graciously bestowed again by You, the mighty ocean of mercy, with Your many antecedent incarnations, now as Śrīkṛṣṇa being most kind towards all, with Your divine lustrous face!?
सुबन्तप्रक्रिया
पुनः+प्रसन्नेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
मुख+इन्दु-तेजसा = अ, पुं, ३.१, टा, वर्णमेलनम्
पुरस्+अव-तीर्णस्य = अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
कृपा-महा+अम्बुधेः = इ, पुं, ६.१, ङस्, घेर्ङीति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तद् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
एव = अव्ययम्
लीला-मुरली-रव+अमृतम् = अ, नपुं, सुँ, अतोऽम्, अमि पूर्वः
समाधि-विघ्नाय = अ, पुं, ४.१, ङे, ङेर्यः, सुपि च
कदा = अव्ययम्
नु = अव्ययम्
मे = अस्मद्, पुं, ६.१, ङस्, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
तिङन्तप्रक्रिया
भवेत् = भू सत्तयाम्, भ्वादिः, परस्मैपदी, विधिलिङ्, १.१ =
समासाः, तद्धिताः, कृदन्ताः
पुनः+प्रसन्नेन = पुनः प्रसन्नः क.धा, तेन
मुख+इन्दु-तेजसा = मुखम् इन्दुरिव उपमानोत्तरपदकर्मधारयः, तस्य तेजः, तेन ६तत्
पुरस्+अव-तीर्णस्य = अव+तीर्णः (क्त कर्तरि कृदन्तः), पुरः अवतीर्णः क.धा, तस्य
कृपा-महा+अम्बुधेः = महान् अम्बुधिः क.धा, कृपा एव महाम्बुधिःअवधारणाकर्मधारयः, तस्य
लीला-मुरली-रव+अमृतम् = मुरल्याः रवः ६तत्, लीलायां कृतः रवः मध्यमपदलोपी तत्पुरुषः, रवः अमृतमिव उपमानोत्तरपदकर्मधारयः, तत्
समाधि-विघ्नाय = समाधेः विघ्नः ६तत्, तस्मै

॥ हरिः ॐ तत् सत् ॥




Wednesday, March 5, 2025

Sri Krishna Karnamritam 1.33




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

पर्याचितामृतरसानि पदार्थभङ्गी-
फल्गूनि वल्गितविशालविलोचनानि ।
बाल्याधिकानि मदवल्लभभाषितानि
भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३ ॥   
Meaning: Oh, Lord Śrīkṛṣṇa! Your manly, nectar-oozing, darting, large eyes that belittle the best of gems and ornaments in their attractiveness and Your alluring words of amorous talk carry away the minds of beauteous-eyed damsels!

व्याकरणांशाः
पर्याचितामृतरसानि पदार्थभङ्गी-
फल्गूनि वल्गितविशालविलोचनानि ।
बाल्याधिकानि मदवल्लभभाषितानि
भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३ ॥
परि+आ+चित+अमृत-रसानि, पद+अर्थ-भङ्गी-फल्गूनि, वल्गित-विशाल-वि-लोचनानि, बाल्य+अधिकानि, मद-वल्लभ-भाषितानि, भावे, लुठन्ति, सुदृशाम्, तव, जल्पितानि
सन्धयः
परि+आ = इको यणचि
पद+अर्थ, बाल्य+अधिकानि = अकः सवर्णे दीर्घः
सुदृशाम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
तव बाल्य+अधिकानि परि+आ+चित+अमृत-रसानि पद+अर्थ-भङ्गी-फल्गूनि वल्गित-विशाल-वि-लोचनानि मद-वल्लभ-भाषितानि जल्पितानि सुदृशाम् भावे लुठन्ति
Oh, Lord Śrīkṛṣṇa! Your manly, nectar-oozing, darting, large eyes that belittle the best of gems and ornaments in their attractiveness and Your alluring words of amorous talk carry away the minds of beauteous-eyed damsels!
सुबन्तप्रक्रिया
परि+आ+चित+अमृत-रसानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
पद+अर्थ-भङ्गी-फल्गूनि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
वल्गित-विशाल-वि-लोचनानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनमस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
बाल्य+अधिकानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
मद-वल्लभ-भाषितानि = अ, नपुं, १.३, जश्शसोः शिः, शि सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
भावे = अ, पुं, ७.१, ङि, आद्गुणः
सुदृशाम् = सदृश्, स्त्री, ६.३, आम्, वर्णमेलनम्
तव = युष्मद्, पुं, ६.१, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
जल्पितानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, शि सर्वनामस्थाने, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
तिङन्तप्रक्रिया
लुठन्ति = लुठँ संश्लेषणे, तुदादिः, परस्मैपदी, लट्, १.३
समासाः, तद्धिताः, कृदन्ताः
परि+आ+चित+अमृत-रसानि = परि-आ-चितः अमृतस्य रसः (६तत्) क.धा, येषां तानि बहुव्रीहिः
पद+अर्थ-भङ्गी-फल्गूनि = पदार्थाः भन्गिनः द्वन्द्वः, ते फल्गूनि इव कृतानि यैः तानि ३ बहुव्रीहिः
वल्गित-विशाल-वि-लोचनानि = वल्गितानि विशालानि विशिष्टानि लोचनानि क.धा
बाल्य+अधिकानि = बाल्यात् अधिकानि ५ तत्
मद-वल्लभ-भाषितानि = मदेन वल्लभः ३तत्, तेन भाषितानि ३तत्
सुदृशाम् = सुष्टु दृशः यासां ताः समानाधिकरणबहुव्रीहिः, तासाम्

॥ हरिः ॐ तत् सत् ॥