Thursday, November 9, 2023

आदिकाव्यप्रेरणा



अयोध्या  रामस्य नगरी

धर्म-सम्पद-मेरुशिखरी 

जानकी  सा त्यागप्रतिमा

लक्ष्मणस्य निष्ठाऽऽप्रतिमा ॥


भृत्यो मारुतिर्धुरन्धरः

सत्यमुपैति विभीषणः ।

गृध्रराजः परमाद्भुतः

भरतो वै चरणाश्रितः॥


काव्यरचयिता  प्राचेतः

तत्प्रचोदकः ऋषिर्नारदः ।

सन्निष्ठा उपगतगुणाः

रामचरितायां भणिताः ॥


किं कलुषं कोऽस्ति दुष्टः 

कथं साध्यः तस्य नाशः ।

धर्मरक्षा रामकीर्तिः

अस्तु मे रामायणे प्रीतिः॥


🙏🙏🙏🙏🙏