Tuesday, November 14, 2023

Shloka 2 - Sri Varadarajastava

             
             Click on the image to open:

जातो न वेत्ति भगवन्न जनिष्यमाणः पारं परं परमपूरुष ते महिम्नः ।
तस्य स्तुतौ तव तरङ्गितसाहसिक्यः किं मादृशो बुधजनस्य भवेन्न हास्यः ॥    
T: Oh, Lord, the Supreme Person! No one born so far knows the limits of Your glory, what to speak of the ones yet to be born. Attempting to describe the glory of such a Lord of infinite glory, someone like me is bound to invite ridicule from the learned ones!

Explanation:  The glory of the Lord is truly limitless. यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, the Vedic statement that all those who have ventured to comprehend with their minds the Lord and to describe Him in words have returned unsuccessful conveys the incomprehensibility of His glory. Even Brahma, Indra and other gods have failed to adequately extol the Lord's supreme glory. What is then the fate of any such venture by mere mortals? The poet states here that his impetuous, audacious attempt to extol and describe the Lord's glory is sure to invite ridicule from learned scholars. Even then, regardless of ridicule, all efforts in prayer are salutary as they wipe out one's sins and confer Punya (spiritual merit).  He thus embarks on this task as a sacred duty.

***
व्याकरणांशाः
मूलम्
जातो न वेत्ति भगवन्न जनिष्यमाणः पारं परं परमपूरुष ते महिम्नः ।
तस्य स्तुतौ तव तरङ्गितसाहसिक्यः किं मादृशो बुधजनस्य भवेन्न हास्यः ॥२॥
पदच्चेदः
जातः, न, वेत्ति, भगवन्, न, जनिष्यमाणः, पारम्, परम्, परमपूरुष, ते, महिम्नः, तस्य, स्तुतौ, तव, तरङ्गितसाहसिक्यः, किम्, मादृशः, बुधजनस्य, भवेत्, न, हास्यः
सन्धयः
जातः, मादृशः - ससजुषो रुः, हशि च, आद्गुणः
जनिष्यमाणः, महिम्नः, तरङ्गितसाहसिक्यः, हास्यः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पारम्, परम्, किम् - मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
(हे) भगवन्, परमपूरुष! तव महिम्नः पारं परं जातो न वेत्ति, जनिष्यमाणः न वेत्ति, (ततः) तस्य स्तुतौ मादृशः तरङ्गितसाहसिक्यः बुधजनस्य हास्यः न भवेत् किम्?
Oh, Lord, Supreme Person! Your glories' limits and reach are unknown to those born thus far and those going to be born in future! In such a case, one like me engaged serially in that foolhardy attempt of extolling your glory is bound to be be the butt of jokes among the wise ones, is that not so!?
सुबन्तप्रक्रिया
भगवन्- भगवत्, त पुं, १.१ सम्, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याभ्यो दीर्घात्
सुतिस्यपृक्तं हल्, संयोगान्तस्य लोपः
परमपूरुष, अ पुं १.१ सम्, सुँ, ऍण्घ्रस्वात् सम्बुद्धेः
तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
महिम्नः, महिमन् पुं ६.१, ङस्, अल्लोपोऽनः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पारम्, परम्, अ नपुं २.१, अम्, अतोऽम्, अमि पूर्वः
जनिष्यमाणः, तरङ्गितसाहसिक्यः, मादृशः, हास्यः - अ पुं, १.१, सुँ, ससजुषो रुः,
खरवसानयोर्विसर्जनीयः
बुधजनस्य - अ पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
स्तुतौ, इ, स्त्री, ७.१, ङि, अच्च घेः, वृद्धिरेचि
न, किम् - अव्ययम्
तस्य - तद्, द नपुं, ६.१ ङस् - त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
तिङन्तप्रक्रिया
वेत्ति - विद्, अदादि, परस्मै, कर्तरि, लट्, प्र, एक
भवेत् - भू, भ्वादि, परस्मै, कर्तरि, विधिलिङ्, प्र, एक
समासाः, तद्धिताः, कृदन्ताः
जनिष्यमाणः - जन्, जुहोत्यादि, आत्मने, लृट्, शानच् कर्मणि कृदन्तः.
जातः - जन्, जुहोत्यादि, कर्मनि, क्त प्रत्य कृदन्तः.
परमपूरुषः - परमः पूरुषः कर्मधारयः
तरङ्गितसाहसिक्य
तरङ्गितम् साहसिक्यम् कर्मधारयः,
 यस्य सः बहुव्रीहिः