Friday, November 17, 2023

Shloka 5 - Sri Varadarajastava




             
             Click on the image to open:

मन्ये सृजन्त्यभिनुतिं कविपुङ्गवास्ते तेभ्यो रमारमण मादृश एव धन्यः।
त्वद्वर्णने धृतरसः कवितातिमान्द्याद्यस्तत्तदङ्गचिरचिन्तनभाग्यमेति॥

T: Oh, Lord known as the consort of Śrī Ramā, let the great poets compose with ease Your prayers. Indeed, I consider poets of deficient poetic talent like myself more fortunate than them! For, I have to work for a long time so hard on each word and line of my poem that it gives me considerable time to contemplate on each of Your attributes, with great delight!

Explanation:  The great poets in Saṃskṛta-Kāvya are hailed as Dṛśyavāk (दृश्यवाक्) meaning, " able to articulate with instant felicity whatever they visualise". Thus, their poetry flows effortlessly, unhindered, according to their thoughts and they complete their poetic works quickly. Compared to such gifted poets, the slow-thinking dull-witted poets should be deemed fortunate, because they cannot craft their words with speed and felicity. They have to contemplate each attribute of the Lord for a long time, from various points of view, and search for the most appropriate words before  putting pen to paper. Therefore the poets of ordinary ability and intelligence are more blessed as they happen to dwell on the Lord's attributes for longer periods and with greater concentration, opines the poet here.  The translator states, "the idea that deficiency in poetic ability is indeed an advantage in meditating on the Lord" is Leśālaṅkāra (लेशालङ्कार).
लेशः स्याद्दोष गुणयोर्गुणदोशत्वकल्पनम्

व्याकरणांशाः
मूलम्
मन्ये सृजन्त्यभिनुतिं कविपुङ्गवास्ते तेभ्यो रमारमण मादृश एव धन्यः।
त्वद्वर्णने धृतरसः कवितातिमान्द्याद्यस्तत्तदङ्गचिरचिन्तनभाग्यमेति॥
पदच्चेदः
मन्ये, सृजन्ति, अभिनुतिम्, कवि-पुङ्गवाः, ते, तेभ्यः. रमारमण, मादृशः, एव, धन्यः, त्वद्वर्णने, धृतरसः, कवितातिमान्द्यात्, यः, तत्तद्, अङ्ग-चिर-चिन्तन-भाग्यम्, एति
सन्धयः
सृजन्ति+अभिनुतिम् - इको यणचि
अभिमुतिम् - मोऽनुस्वारः
कविपुङ्गवास्+ते - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
मादृशस्+एव - ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
धन्यः, धृतरसः, यः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तेभ्यो - ससजुषो रुः, हशि च, आद्गुणः
त्वद्+वर्णने, मन्द्यात्+यः- झलां जशोऽन्ते
कविता+अतिमन्द्यात् - अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
(हे) रमा-रमण! (अहम् एवं) मन्ये - कविपुङ्गवाः ते अभिनुतिं सृजन्ति। तेभ्यः मादृशः (कविः) एव धन्यः। त्वद्वर्णने धृतरसः यः कवितातिमन्द्यात् तत्तद्-अङ्गचिरचिन्तनभाग्यम् एति (किल!)
Oh Vradararaja whose consort is Lakshmi, I think as follows- the foremost poets sing your paeans with great ease. Compared to them, poets of low calibre like me are fortunate. Anyone taking up with interest the task of composing your praises, but of slow/dull poetic calibre, acquires the blessing of contemplating each of Your attributes for long!
सुबन्तप्रक्रिया
मादृशः, धन्यः, धृतरसः - अ, पुं, १.१ सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कवि-पुङ्गवाः, अ पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रमारमण - अ, पुं, १.१ सम्बोधन, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
अभिनुतिम् - इ स्त्री, २.१, अम्, अमि पूर्वः
ते - युष्मद्, पुं, ६.१, युष्मदस्मदोः ष्ष्टीचतुर्थीद्वितीयास्थयोर्वान्फ्नावौ, तेमयावेकवचनस्य
भाग्यम्, अ नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
धृत-अभिलाषः - अ, पुं, १.१, सुँ, इत्लोपः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कविता-अति-मान्द्यात् - अ न पुं, ५.१, ङसि, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
त्वद्वर्णने - अ नपुं, ७.१, ङि, आद्गुणः
यः, यद्, सर्वनाम दकार पुं १.१, सुँ, त्यदादीनामः, अतो गुणे, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एव - अव्ययम्
तिङन्तप्रक्रिया
सृजन्ति, सृज्, तुदादि, परस्मै, प्रथमपुरुष, बहुवचन, लट्
एति - इण्, अददि, परस्मै, प्रथमपुरुष, एक वचन, लट्
समासाः, तद्धिताः, कृदन्ताः
अभि-नुतिम्, अभि+नु धातुः, भावे क्तिन् कृदन्तः, ताम्
रमारमण् रमायाह् रमणः, सम्बोधन
मादृशः - मया दृशः, तद्धित
कविता-अति-मान्द्यात् - अति मान्द्यम्, कवितायां - सप्तमीतत्पुरुषः, तस्मात्
तत्तदङ्गचिरचिन्तनम् - तत्तस्य अङ्गस्य चिरं चिन्तनम् - कर्मधारयः, तत्पुरुषः