Saturday, November 18, 2023

Shloka 6- Sri Varadarajastava




           Click on the image to open:
काञ्ची महार्घमणिकाञ्चनधामचित्रा विश्वम्भरां विबुधनाथ विभूषयन्ती ।
भाता गजाद्रिशिखरे तव भक्तचिन्तारत्नेन राजतितरां शुभविग्रहेण ॥

T: Oh, Lord Varadarāja, who is the supreme chief of all gods, with its mansions built with priceless gems and gold, the city of Kāñcī  is a resplendent jewel adorning this earth. Your divine, holy form atop the Hastiśaila there is itself the divine gem that fulfills every desire of the true devotee. This adds to the lustre of Kāñcī immeasurably!

Explanation:  During the process of creation, Lord Brahma worshipped the holy city of Kāñcī  > Its etymology is Ka = Brahma, añcita=worshipped. 
केन स्वयंभुवा तेन सा पुरी नित्यमञ्चिता । ततः काञ्चीति विख्याता चतुर्वर्गफलप्रदा ॥
T: That city is worshipped daily by Ka or Lord Brahma has therefore earned the title of Kāñcī. She confers on her citizens the four-fold goals of life - Dharma, Artha, Kāma, Mokṣa.
This statement is found in Śivapurāṇasaṃgraha (शिवपुराणसङ्ग्रह).

This city is by itself a jewel adorning the entire earth. Within it, on the mount of Hastiśaila, the vigraha or worshipped image of Lord Varadarāja is situated. That is immeasurably adding to the radiance of Kāñcī, states the poet. All the guardian elephants came and worshipped Lord Varadarāja here, and that is another reason the place is called Hastiśaila. This idea is validated by this Śloka from a Purāṇa:
दिङ्नागैरर्चितस्तत्र पुरा विष्णुः सनातनः । ततो हस्तिगिरिर्नाम ख्यातिरासीन्महागिरेः ॥
T: The Lord beyond time, Mahāviṣṇu, was long long ago worshipped here by the eight guardian elephants of the earth. Hence this splendid hill got its name as Hastigiri or Hastiśaila.

व्याकरणांशाः
मूलम्
काञ्ची महार्घमणिकाञ्चनधामचित्रा विश्वम्भरां विबुधनाथ विभूषयन्ती ।
भाता गजाद्रिशिखरे तव भक्तचिन्तारत्नेन राजतितरां शुभविग्रहेण ॥
पदच्चेदः
काञ्ची, महा-अर्घ-मणि-काञ्चन-धाम-चित्रा, विश्वंभराम्, विबुधनाथ, विभूषयन्ती, भाता, गज-अद्रि-शिखरे, तव, भक्त-चिन्ता-रत्नेन, राजतितराम्, शुभविग्रहेण
सन्धयः
महा+अर्घ, गज+अद्रि - अकः सवर्णे दीर्घः
विश्वंभराम्, राजतितराम् - मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
(हे) विबुधनाथ! काञ्ची विश्वंभराम् महा-अर्घ-मणि-काञ्चन-धाम-चित्रा विभूषयन्ती गज-अद्रि-शिखरे तव भाता भक्त-चिन्ता-रत्नेन शुभविग्रहेण राजतितराम्॥
Oh, the Lord of all gods, Varadarāja! The city of Kāñcī adorns this earth with her priceless, gemstudded, golden mansions. On the Gaja-adri, Your divine, glowing form is the wish-fulfilling gem for true devotees. With that sacred form added, Kāñcī shines even more radiantly!
सुबन्तप्रक्रिया
विबुधनाथ - अ, पुं, १.१ सम्बोधन, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
काञ्ची, विभूषयन्ती - ई स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
विश्वम्भराम् - आ स्त्री, २.१, अम्, अमि पूर्वः
तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
गजाद्रिशिखरे - अ पुं, ७.१, ङि, आद्गुणः
शुभविग्रहेण - अ पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
भक्तचिन्तारत्नेन - अ नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
भाता -त् पुं, ३.१, टा
महा-अर्घ-मणि-काञ्चन-धाम-चित्रा - आ, स्त्री, १.१,सुँ, हल्ङ्याब्भ्यो दीर्घात्, सुतिस्यपृक्तं हल्
तिङन्तप्रक्रिया
राजतितराम्, राजति+तराम् - राज्, भ्वादि, परस्मैपदी, प्रथमपुरुषः, एकवचनम्, लट् । तराम् तद्धित, तरप् तमप्, अव्यय रूपेण
समासाः, तद्धिताः, कृदन्ताः
विबुशनाथ - विबुधानां नाथः, हे सम्बोधन - षषठीतत्पुरुषः
विश्वम्भराम् - विश्वं भरति या सा इति विश्वम्भरा, ताम्, तृतीयाबहुव्रीहिः
गजाद्रिशिखरे - गज इव अद्रिः (उपमान कर्मधारयः, गजाद्रेः शिखरः षष्टीतत्पुरुषः, तस्मिन्
शुभविग्रहेण - शुभं, विग्रहं शुभविग्रहम् कर्मधारयः, शुभविग्रहम् यस्य सः, तेन बहुव्रिइहिः
भक्तचिन्तारत्नेन - चिन्तनेन फलं ददाति इति रत्नम्, चिन्तारत्नम्, भक्तानां चिन्तारत्नम्, भक्तचिन्तारत्नम्, यस्य रूपम् सः बहुव्रीहिः, तेन
महा-अर्घ-मणि-काञ्चन-धाम-चित्रा - महती अर्घा मणिः, महार्घमणिः कर्मधारयः, काञ्चनानि धामानि कर्मधारयः, ताः यस्याः चित्राः, सा बहुव्रीहिः