Monday, November 20, 2023

Shloka 8- Sri Varadarajastava



           Click on the image to open:
अस्यां अमेयगुणपुर्यपराजितायाम्श्वत्थवर्यजुषि दिव्यसरःसमीपे।
मध्ये हिरण्मयगृहं महिषीयुतं त्वां दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥
T: This city of Kāñcī has immeasurable splendours and is indeed Aparājitā (unexcelled/defeated) in her grandeur. Here, near Kāñcī 's divine pool, stands an Aśvattha (Ficus Religiosa) tree.  In the middle of this city of Kāñcī, in a golden mansion, along with Your divine consort queen, dwell You, oh Lord Śrī Varadarāja!  Those who have Your Darshan here are never caught again in the sorrows of this world!. 
Explanation:  काञ्ची तथा श्रेष्ठतमा पुरीणाम् (Kāñcī  is the greatest among cities) states the Vāmana Purāṇa.  That is why Kāñcī is hailed as Aparājitā (unexcelled/defeated).  Here lies an ancient pool of water called Ananta Sarovara. There is nearby an ancient vattha (Ficus Religiosa) tree. The temple is adjacent to these ancient sacred elements. In the golden mansion of this temple, anyone who beholds Lord Śrī Varadarāja along with his divine consort queen shall have no repeat birth (rebirth as we call it). and its associated sufferings.

The word Aparājitā used here is pregnant with meaning. 
ब्रह्मलोके तृतीयस्यामितो  दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्वब्रह्मणः प्रभुविमितं हिरण्मयम्  states the Chāndogya Upaniṣad. The clear indication of Brahma Loka's golden glitter, its sacred pool and its sacred tree vattha in this Upaniṣad and the correspondence of Kāñcī 's features thereto indicates that Kāñcī is equivalent to Brahmaloka, opines the poet. Therefore the Darshan of Lord Śrī Varadarāja is identical to the realisation of Brahman. Thus, for the devotees, the attainment of Brahmaloka eliminates the possibility of rebirth, by the grace of Lord Śrī Varadarāja. That is the gist of this stanza.

यो वै तां ब्रह्मणो वेद अमृतेनावृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च आयुः कीर्तिं प्रजां ददुः ॥

 One should contemplate this assurance of the Veda on how one receives grace.   

व्याकरणांशाः
मूलम्
अस्यां अमेयगुणपुर्यपराजितायाम्श्वत्थवर्यजुषि दिव्यसरःसमीपे।
मध्ये हिरण्मयगृहं महिषीयुतं त्वां दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥
पदच्चेदः
अस्याम्, अमेय-गुण-पुरि-अपराजितायाम्, अश्वत्थवर्यजुषि, दिव्यसरःसमीपे, मध्ये, हिरण्मयगृहं, महिषीयुतं, त्वां, दृष्ट्वा, जनः, न, पुनर्, एति, भव-अन्तरआर्तिम्
सन्धयः
अस्याम्, अपराजितायाम्, हिरण्मयगृहम्, महिषीयुतम्, त्वाम्, भव-अन्तरआर्तिम् - मोऽनुस्वारः
अमेयगुणपुरि+अपराजितायाम् - इको यणचि
दिव्यसरस्+समीपे - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
भव+अन्तर+आर्तिम् - अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
अस्यां अमेयगुणपुरि अपराजितायां अश्वत्थवर्यजुषि दिव्यसरःसमीपे हिरण्मयगृहं मध्ये महिषीयुतं त्वां दृष्ट्वा जनः भवअन्तरार्तिं न पुनर् एति ।
In this immeasurably rich city called Aparājitā with the Aśvattha tree and the sacred pool nearby, in its midst in the golden mansion, by beholding You with Your queen, one will never again obtain the hardships of worldly birth. (rebirth).
सुबन्तप्रक्रिया
अस्यां - त्यदादिगणः, स्त्री, ७.१, ङि, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, ङॅराम्नद्याम्निभ्यः, सर्वनाम्नः स्याढ्रस्वश्च, अकः सवर्णे दीर्घः
अमेय-गुण-पुरि-अपराजितायाम् - आ, स्त्री, ७.१, ङि, ङेराम्नद्याम्नीभ्यः, याडापः, अकः सवर्णे दीर्घः
अश्वत्थवर्यजुषि -जुष् षकारान्त पुं, ७.१, ङि - वर्णमेलनम्
दिव्यसरःसमीपे - अ नपुं, ७.१, ङि, अतो गुणे
मध्ये - अ नपुं, ७.१, ङि, अतो गुणे
हिरण्मयगृहम् - अ, नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
महिषीयुतम् - अ पुं, २.१, अम्, अमि पूर्वः
त्वाम् - युष्मद्, पुं, २.१, अम्, ङे प्रथमयोरम्, त्वमवेकवचने, अतो गुणे, द्वितीयायाम् च, अकः सवर्णे दीर्घः, अमि पूर्वः
जनः - अ, पुं, १,१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
न, पुनर् - अव्ययम्
भव-अन्तरआर्तिम् - इ स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
एति - इण् गतौ, अदादि, परस्मै, लट्, प्रथमपुरुष एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अमेया गुणाः - अमेयगुणाः, अमेयगुणाः यस्याः सा - बहुव्रीहिः, अमेयगुणा पूः - कर्मधारयः, तस्याम्
न पराजुता - अपराजिता नञ् तत्पुरुषः
अश्वत्थः वर्यः अश्वत्थवर्यः - कर्मधारयः, तेन जुष्, बहुव्रीहिः
दिव्यसरसः समीपः, तस्मिन् - षष्ठीतत्पुरुषः
हिरण्मयम् गृहम् - कर्मधारयः
महिष्या युतः, तम् - तृतीयातत्पुरुषः
भवस्य अन्तः भवान्तः - षष्ठीतत्पुरुषः, तस्य आर्तिः, ताम् - षष्ठीतत्पुरुषः