Monday, November 27, 2023

Shloka 15 - Sri Varadarajastava



        Click on the image to open:

लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवतासि ।
आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५॥
T: Oh, Lord Śrī Varadarāja, known as Vaikuṇṭha (literally means unhindered, undiminished)! You are the consort of the Goddess Śrī Lakṣmī and most dear to her. You are the father of Manmatha, the God of Amorous Love. You are the Presiding Deity of Śṛṅgāra Rasa - the foremost among Rasas enunciated in our scriptures as the mood of love that intoxicates the whole universe. At the same time, Lord, You are the repository and operating basis of all human virtues and merits! When You are like this, full of Rasa (Emotive Power), Beauty, and Good, who can indeed begin to describe you?

Explanation: Goddess Śrī Lakṣmī is the Deity of all Wealth, Beauty and Prosperity. Her consort is the  Lord Śrī Varadarāja. The God who administers the supreme sentiment of amorous love in this world is Manmatha. His father is again the  Lord Śrī Varadarāja! Then the Presiding Deity of Śṛṅgāra Rasa is also Viṣṇu, Śrī Varadarāja. Among the nine moods or Rasas experienced by men, Śṛṅgāra is hailed as the foremost. Ānandavardhana and other litterateurs propound emphatically, शृङ्गार एव परमः परः प्रह्लादनो रसः - the supreme Rasa which gives the maximum joy to man is Śṛṅgāra Rasa.  Further, for all virtues and noble qualities of man, the foundation of Sattva is the Lord Śrī Varadarāja, whose description is that He is the repository of सकलकल्याणगुण.  Therefore is it ever possible to describe adequately the Paramātmā Lord Śrī Varadarāja's beauties and attributes? Nobody can do justice to such a task, says the poet here.

व्याकरणांशाः
मूलम्
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवतासि |
आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५॥
पदच्चेदः
लक्ष्म्याः, प्रियः, असि, रति-केलि-कृतः, पिता, असि, विश्व-एक-मोहन-रसस्य, च, देवता, असि, आवासभूमिः, असि, सर्व-गुण-उत्तमानाम्, वैकुण्ठ, वर्णयतु, कः तव, रूप-रेखाम्
सन्धयः
लक्ष्म्याः, रति-केलि-कृतः - ससजुषो रुः, खरवसानयोर्विसर्ज्नीयः
प्रियः असि - ससजुषो रुः, अतो रोरप्लुतादपलउते, आद्गुणः, एङः पदान्तादति
पिता असि, देवता असि - अकः सवर्णे दीर्घः
विश्व-एक-मोहन-रसस्य- - वृद्धिरेचि
आवासभूमिः असि - ससजुषो रुः
सर्व-गुण-उत्तमानाम् - आद्गुणः
कः तव - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
आकाङ्क्षा-अन्वयः
वैकुण्ठ! (त्वं) लक्ष्म्या प्रियः असि,रति-केलि-कृतः पिता असि विश्व-एक मोहन-रसस्य च देवता असि, सर्व-गुण-उत्तमानाम् आवासभूमिः असि। (अतः) तव रूप-रेखाम् कः वर्णयतु
Oh Vaikuṇṭha, You are the beloved consort of Lakṣmī , the father of the God of Amorous Love, the world's foremost mood - i.e. of love, the presiding Deity, and the source and respository of all excellence in virtues and merits. Therefore, who shall describe Your form and attributes?

सुबन्तप्रक्रिया
लक्ष्म्याः - ई स्त्री, ६.१, ङस्, आण्नद्याः, आटश्च, इको यणचि
प्रियः - अ पुं, १,१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रति-केलि-कृतः, त्, पुं, ६.१, ङस्, वर्णमेलनम्



 पिता - ऋ, पुं, १.१, सुँ, ऋदुशनस्पुरुदंसोऽनेहसां च,
 अप्तृन्तृच्स्वसृनप्तृपेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्,, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, नलोपः प्रातिपदिकान्तस्य
च - अव्ययम्,
देवता - आ स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
आवासभूमिः - इ स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सर्व-गुण-उत्तमानाम् - अ पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
वैकुण्ठ - अ पुं, १.१ सम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कः - किम्, सर्वनाम पुं, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
रूप-रेखाम् - आ स्त्री, २.१, अम् - अमि पूर्वः
तव - तव - युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
विश्व-एक-मोहन-रसस्य - अ पुं, ६.१ ङस्, टाङसिङसामिनात्स्याः
तिङन्तप्रक्रिया
असि - अस्, अदादि, परस्मैपदी. लट्, मध्यमपुरुषः एकवचनम्
वर्णयतु - वर्ण, चुरादि, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
रति-केलि-कृत् - रतेः केलिः, षष्ठीतत्पुरुषः, तस्याः कृत् - षष्ठीतत्पुरुषः
विश्व-एक-मोहन-रसस्य - मोहन रसः - कर्मधारयः, एक मोहन रसः - कर्मधारयः, विश्वस्य एकमोहनरसः, तस्य षष्ठीतत्पुरुषः
आवास भूमिः - आवासश्च भूमिश्च - आवासभूमिः - कर्मधारयः
सर्वगुणउत्तमानाम् - सर्वः गुणः सर्वगुणः कर्मधारयः, सर्वगुणानाम् उत्तमाः - षष्ठीतत्पुरुषः, तेषाम्