Tuesday, November 21, 2023

Shloka 9- Sri Varadarajastava



           Click on the image to open:


संप्राप्य दुग्धतटिनीविरजां विशुद्धाः सन्तो भवद्भजनदां पदमागतास्ते।
त्वत्पादतोयतुलसीकुसुमेषु लग्नं गन्धं रसं च गरुडध्वज ते लभन्ते ॥
T: Oh Lord Varadarāja, sporting the Garuḍadhvaja ( with his flag aflutter sporting the divine eagle Garuḍa's image)! The holy and pure waters granting devotion to You of the Virajā river adjoining the Milky Ocean are here as the Vegavatī river. Crossing her, devotees arrive at Kāñcī and receive the sacred water (Tīrtha) containing Tulasī leaves and imbued with the fragrance of flowers and sanctified essences used in Your worship.
Explanation:  Using the device of pun (double meaning), the poet establishes in this stanza the identicality of worshipping the feet of Lord Srī Varadarāja in Kañcī and attaining Paramapada in the higher heaven Vaikuṇṭha (abode of Viṣṇu) empowering the soul for final release. Crossing the celestial river Virajā, advanced devotees are completely cleansed of their residual sins and secure the privilege of worshipping the Lord's feet in Vaikuṇṭha. This is described as the Final Step (Paramapada). They then experience the final beatitude of liberation. 
स आगच्छति विरजां नदीं तां मनसैवात्येति - this declaration of the Veda is on his mind when the poet composes this stanza. The luminous path known as Arcirādimārga to liberation makes the devotee cross the celestial river Virajā. At that stage, the devotee casts aside even his Sūkṣma Śarīra (subtle body containing accumulated Jīva impressions) and thus is hailed as Viśudda (fully cleansed).  
Employing the metaphor (रूपकालङ्कार) of Vegavatī as Virajā (Dugdhataṭanīvirajām), he establishes this idea and extols Vegavatī. 

व्याकरणांशाः
मूलम्
संप्राप्य दुग्धतटिनीविरजां विशुद्धाः सन्तो भवद्भजनदां पदमागतास्ते।
त्वत्पादतोयतुलसीकुसुमेषु लग्नं गन्धं रसं च गरुडध्वज ते लभन्ते ॥
पदच्चेदः
संप्राप्य, दुग्ध-तटनी-विरजाम्, विशुद्धाः, सन्तः, भवद्भजनदाम्, पदम्, आगताः, ते, त्वत्-पाद-तोय-तुलसी-कुसुमेषु, लग्नम्, गन्धम्, रसम्, च, गरुड-ध्वज, ते, लभन्ते
सन्धयः
दुग्ध-तटनी-विरजाम्, भवद्भजनदाम्, लग्नम्, गन्धम्, रसम् - मोऽनुस्वारः
विशुद्धाः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सन्तो - ससजुषो रुः, हशि च, आद्गुणः
आगताः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
आकाङ्क्षा-अन्वयः
हे गरुडध्वज! विशुद्धाः सन्तः भवद्भजनदां दुग्धतटनीविरजां संप्राप्य ते पदम् आगताः। ते त्वत्पादतुलसीकुसुमेषु लग्नं गन्धं रसं च लभन्ते।
Oh Garudadhvaja! the purified saints cross the Virajā river, skirting the Milky Ocean, that grants the sacred opportunity to worship You directly and arrive at Your feet. They then partake the holy water worshipping You, infused with Tulasi leaves and flowers, fragrances and essenses used in Your worship!
सुबन्तप्रक्रिया
हे - अव्ययम्
गरुडध्वज! - अ पुं १.१ सम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
विशुद्धाः, आगताः- अ पुं १.३ जस्, प्रथमयोः पूर्वसवर्णः
सन्तः - सत् पुं १.३ जस्, उगिदचां सर्वनामस्थाने चाऽधातोः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भवद्भजनदां, दुग्धतटनीविरजां - आ, स्त्री, २.१ अम्, अमि पूर्वः
ते - युष्मद्, पुं, ६.१, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य
पदम्, लग्नम्- अ नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
ते - तद् पुं, १.३, जस्, त्यदादीनामः. अतो गुणे, जसः शी, आद्गुणः
त्वत्पादतुलसीकुसुमेषु - नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
गन्धम्, रसम्, अ पुं, २.१ अम्, अमि पूर्वः
तिङन्तप्रक्रिया
लभन्ते - लभ्, भ्वादि, आत्मनेपदी, लट्, प्रथमपुरुष बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
सम्प्राप्य -सम्+ प्राप् ल्यबन्त
दुग्धतटनीविरजाम् - दुग्धसागरस्य तटनी - षष्ठीतत्पुरुषः, तटनी विरजा - कर्मधारयः, ताम्
भवतः भजनम् षष्ठीतत्पुरुषः, तं ददाति, भवद्भजनदा, ताम्
त्वत्पादस्य तुलसी च कुसुमानि च त्वत्पादपुसुमानि तेषु षष्ठीतत्पुरुषः, द्वन्द्वः
गरुडः यस्य ध्वजे स्थितः सः - षष्टीबहुव्रीहिः