Tuesday, November 28, 2023

Shloka 16- Sri Varadarajastava





        Click on the image to open:

सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि।
शृङ्गारशेवधिरसि द्विपशैलमौले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६॥
T: Oh, Lord Śrī Varadarāja, reigning as the crown adorning the Elephant Hill, You are the Foremost in Reality; You are the succour for all the gods; You are adorned with the effulgent Cakra (Viṣṇu's infallible discus)! And then You are the treasure of  Śṛṅgāra Rasa. In other words, what is surprising when we find that You are the most auspicious one to be ever manifested?

Explanation: Using the figure of speech called Śleṣa, the poet compares the Lord Śrī Varadarāja to the celestial mountain peak Meru. Varadarāja towers over all other aspects of reality just as Meru towers over all other mountains on Earth. Meru is also situated to the north of all regions (i.e. in heaven). Similarly, the Lord Śrī Varadarāja is the succour of all the gods as their supreme protector as nothing is beyond Him. Meru is also hailed as the dwelling place supporting all the gods, and hence as the foremost place in heaven. 

The Lord Śrī Varadarāja carries the Sudarśana Cakra which is dazzling with all the luminosities in the universe.  Similarly, the Mountain Meru is being illuminated and circled by all the dazzling constellations including the sun and the moon. The Lord Śrī Varadarāja is the supreme repository of Śṛṅgāra Rasa, just as the Mountain Meru is built up to its peak (Śṛṅga) with all the precious treasures of the world. Thus it is established here that the Lord Śrī Varadarāja is the embodiment of all auspiciousness and prosperity just like the Meru which is hailed similarly. 

The operative word is Kalyāṇarūpa. The Lord is thus eternally conferring auspiciousness on all. Incidentally, the word Kalyāṇa also refers in literature to an inexhaustible golden treasure. And Meru is referred to as the Mountain of Gold! The poetic import is that the Lord Śrī Varadarāja is constantly conferring on His devotees inexhaustible bounties of prosperity - Akṣayasuvarṇa.

व्याकरणांशाः
मूलम्
सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि।
शृङ्गारशेवधिरसि द्विपशैलमौले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६॥
पदच्चेदः
सर्व-उत्तरः, असि, सकल-त्रिदश- आश्रयः, असि, ज्योतिः छटा-घटित-चक्र-परिष्कृतः, असि, शृङ्गार-शेवधिः, असि, द्विप-शैल-मौले, कल्याण-रूपः, इति, कः, त्वयि, चित्रवादः
सन्धयः
सर्व-उत्तरः, सकल-त्रिदश- आश्रयः, छटा-घटित-चक्र-परिष्कृतः - ससजुषो रुः, अतो रोरप्लुदाप्लुते, आद्गुणः, एङः पदान्तादति
ज्योतिः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
शृङ्गार-शेवधिः - ससजुषो रुः
कः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
कल्याण-रूपः - ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
चित्रवादः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
हे द्विप-शैल-मौले, त्वं सर्व-उत्तरः असि, सकल-त्रिदश- आश्रयः असि ज्योतिः छटा-घटित-चक्र-परिष्कृतः असि, शृङ्गार-शेवधिः असि। अतः त्वयि कल्याण-रूपः इति, कः चित्रवादः?
Oh, the Lord crowning the Elephant Hill, You are the Final one in all Reality, You are the succour and shelter for all the gods, You are adorned with the Cakra that dazzles containing all the luminosity of the world, You are the treasury of Śṛṅgāra Rasa. Therefore how can there be any surprise that You are said to embody the ultimate form pouring out boundless auspiciousness?

सुबन्तप्रक्रिया
सर्व-उत्तरः सकल-त्रिदश- आश्रयः, ज्योतिस्- छटा-घटित-चक्र-परिष्कृतः, चित्रवादः - अ पुं, १,१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
शृङ्गार-शेवधिः - इ, पुं, १.१, सुँ - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
द्विप-शैल-मौले - इ पुं, १.१ सम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
कल्याण-रूपः - अ पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कः - किम्, सर्वनाम पुं, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वयि - युष्मद् सर्वनाम, द्, पुं, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
तिङन्तप्रक्रिया
असि - अस्, अदादि, परस्मैपदी. लट्, मध्यमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सर्व-उत्तरः - सर्वस्य उत्तरः - षष्ठीतत्पुरुषः
सकल-त्रिदश- आश्रयः - सकलाः त्रिदशाः, कर्मधारयः, तेषाम् आश्रयः- षष्ठीतत्पुरुषः
ज्योतिः छटा-घटित-चक्र-परिष्कृतः -ज्योतिषः छटाः- - षष्ठीतत्पुरुषः, ताभिः घटितः, - षष्ठीतत्पुरुषः, सः चक्रः - कर्मधारयः, तेन परिष्कृतः - तृतीया तत्पुरुषः
शृङ्गार-शेवधिः - - षष्ठीतत्पुरुषः
द्विप-शैल-मौले - द्विप इव शैलः उपमानपूर्वपदकर्मधारयः, तस्य मौलिः, सम्बोधनम् - षष्ठीतत्पुरुषः
कल्याण-रूपः - कल्याणम् रूपं यस्य सः - बहुव्रीहिः
चित्रवादः - चित्रः वादः - कर्मधारयः