Friday, November 24, 2023

Shloka 12 - Sri Varadarajastava





           Click on the image to open:

नापारि लब्धुमरविन्दभुवापि साक्षाद् यं पूर्वमीश्वर विना हयमेधपुण्यम् ।
अन्यैरनाप्य स कथं नवपुण्यकोटिं प्राप्यस्त्वदाकृतिविलोकनजः प्रमादः ॥
T: Oh, Supreme Lord of the universe (ईश्वर)! The bliss of beholding Your divine form was unattainable even for Lord Brahma (The Lotus-born, Your first creation) before earning the merit of completing the Aśvamedha Yajña. Therefore, before first attaining the Navapuṇyakoṭi, how can anyone else experience that supreme bliss?
Explanation:  Lord Brahma is also described as Hiraṇyagarbha. He had to complete several Yajñas and practices before having a Darshan of the Lord. This is stated clearly in the  Brahmāṇḍa Purāṇa:

पुरा कृतयुगे राजन् जम्बूद्वीपे तु दक्षिणे । भागे भारतवर्षे च क्षेत्रे सत्यव्रताभिदे ॥
चैत्रे मासि सिते पक्षे चतुर्दश्यां तिथौ मुने । शोभने हस्तनक्षत्रे रविवारसमन्विते ॥
वपाहोमे प्रवृत्ते तु प्रातःसवनकल्पिते । धातुरुत्तरवेद्यां तु प्रादुरासीज्जनार्दनः ॥
आराधितो जगद्धात्रा हयमेधेन तद्गिरौ ॥
T:  Oh, Sage! Aeons ago, in Kṛta Yuga, located in Jambū Dvīpa's southern part of Bharatavarṣa, in a place called Satyavrata, during Caitra Śukla Caturdaśī, Sunday, under Hasta Nakṣatra, Vapāhoma early morning Yajña, appeared Lord Janārdana (Mahā Viṣṇu) on the northern side of the Yajña stage and was worshipped by Lord Brahma with incantations of Hayamedha. Thus Brahma had to qualify himself for the Darshan. 

If this is the fate of Brahma, how can others have a Darshan of the Lord without acquiring the merits (Puṇya) of millions of good acts of piety? This is the import of this stanza.

The poet uses the word "Puṇyakoṭi" here with a special meaning. The golden Vimāna atop the temple of Kāñcī enshrining Śrī Varadarāja is also referred to in sacred scriptures as Puṇyakoṭi. Without first beholding this golden Puṇyakoṭi Vimāna, it is impossible to have a Darshan of the divinely auspicious image of Lord Śrī Varadarāja and should not even be tried! This is the message of the poet. In other words, the Darshan of Lord Śrī Varadarāja confers the same auspicious benefits as the accumulated merits of several exalted Yajñas. This is the essential assertion of this stanza. 

व्याकरणांशाः
मूलम्
नापारि लब्धुमरविन्दभुवापि साक्षाद् यं पूर्वमीश्वर विना हयमेधपुण्यम् ।
अन्यैरनाप्य स कथं नवपुण्यकोटिं प्राप्यस्त्वदाकृतिविलोकनजः प्रमादः ॥
पदच्चेदः
न, अपारि, लब्धुम्, अरविन्दभुवा, अपि, साक्षात्, यम्, पूर्वम्, ईश्वर, विना, हय-मेध-पुण्यम्, अन्यैः, अनाप्य, स, कथं, नव-पुण्य-कोटिम् प्राप्यः, त्वद्-आकृति-विलोकन-जः, प्रमादः
सन्धयः
न+अपरि, अरविन्दभुवा+अपि - अकः सवर्णे दीर्घः
झलां जशोऽन्ते
यम्, कथम्, नवपुण्यकोटिम् - मोऽनुस्वारः
अन्यैस् - ससजुषो रुः
सस् - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
नव-पुण्य-कोटिम् प्राप्यस् - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
त्वद्-आकृति-विलोकन-जस् - - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
प्रमादः - ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
ईश्वर, यम् पूर्वम् अरविन्दभुवा अपि साक्षात् हय-मेध-पुण्यम् विना लब्धुम् न अपारि, सः त्वद्-आकृति-विलोकन-जः प्रमादः कथं अन्यैः नव-पुण्य-कोटिम् अनाप्य प्राप्यः?
Oh, Īśvara, that which was unattainable aeons ago even for Lord Brahma without completing the Haya-Medha-Yajña, that grace of supreme bliss upon having Your Darshan - how would it be possible for others without accumulating the merits of innumerable pious acts?
सुबन्तप्रक्रिया
न, अपि, पूर्वम्, साक्षात्, विना, कथम्- अव्ययम्
अरविन्दभुवा - व् पुं ३.१, टा , टाङसिङसामिनात्स्याः
यम् - यद् सर्वनाम पुं २.१ - अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः
ईश्वर - अ पुं, १.१ सम्बोधन, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
हय-मेध-पुण्यम् - अ अ, नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
अन्यैः - अ पुं, ३.३ भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सः - तद् सर्वनाम, १.१ सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नव-पुण्य-कोटिम् प्राप्यः, त्वद्-आकृति-विलोकन-जः, प्रमादः - अ पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
अपारि - पॄ, चुरादिः, भावकर्मणि लङ्, प्रथमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
हयमेधपुण्यम् - हयस्य मेधः षष्ठीतत्पुरुषः, तस्य पुण्यम्, षष्ठीतत्पुरुषः, तम्
अरविन्अभुव् - अरविन्दे भुवः, सप्तमीतत्पुरुषः
नव -पुण्य- कोटिम्, नवम् पुण्यम् नवपुण्यं, तस्य कोटिः नवपुण्यकोतिः, तम्
त्वद्-आकृति-विलोकन-जः - तव आकृतिः, त्वदाकृतिः षष्ठीतत्पुरुषः, त्वदाकृतेः विलोकनम्, षष्ठीतत्पुरुषः, तस्य जः षष्ठीतत्पुरुषः
अनाप्य - नञ् आप्, ल्यबन्त
प्राप्यः - प्र+आप्, ण्यत् कृदन्तः
लब्धुम् - लभ्, आत्मनेपदि, भ्वादि, तुमुन्