Sunday, November 19, 2023

Shloka 7- Sri Varadarajastava



           Click on the image to open:


अस्यां भवन्तमभितः स्थितदुग्धसिन्धौ मध्ये त्रयीमयमहारवमण्डलस्य ।
पश्यन्नधःकृतचतुर्मुखविष्टपायां धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥

T: Surrounding the Lord in this Kāñcī city flows the Vegavatī river resembling the Milky Ocean. The solemn rumble of Vedic chants suffuses this city. By its sacredness,  Kāñcī surpasses and pushes down Brahma Loka (a higher heaven) in grandeur. Therefore, a truly learned man, making a comparison to  Kāñcī, does not seek to reach any of the three divine abodes of Viṣṇu (usually sought after by seekers), viz.  Śvetadvīpa, Sūryamaṇḍala and even Paramapada!

Explanation:  Three abodes called Dhāmas of the Lord (Viṣṇu) are extolled by the Purāṇas. The first among them is Śvetadvīpa, situated in the middle of the Milky Ocean. In Kūrma Purāṇa, it is stated:
शाकद्वीपं समावृत्त्य क्षीरोदः सागरः स्थितः। श्वेतद्वीपश्च तन्मध्ये नारायणसमाश्रयः ॥
T: Encompassing Śākadvīpa is the Milky Ocean.  There in its centre lies Śvetadvīpa, the abode of Lord Nārāyaṇa (Viṣṇu).
The second abode of the Lord is the orb of the sun.  स एषोऽन्तरादित्ये हिरण्महयः पुरुषो दृश्यते states the Veda (the Lord resides as the golden core in the middle of the sun). Even in the Purāṇas, we see
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्ठः ।
 केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयपवपुः धृतशङ्खचक्रः ॥

T: We should meditate on Lord Nārāyaṇa always situated in the core of the sun, seated on a beautiful lotus, wearing divine ornaments on His arms and in His ears, with a splendid crown, with a golden form, wearing a lovely garland, holding Śaṅkha and Cakra.

The third abode of the Lord is situated above Brahma's own abode and is called Paramapada. 

The poet states that Kāñcī exhibits the attributes of all the three abodes. Vegavatī  (called Vaigai in Tamil) is akin to the Milky Ocean. On the other side of Kāñcī is the river Skāndī. The region in between is called Antarvedī. The Brahmāṇḍapurāṇa avers that Kāñcī thus situated is equivalent to Śvetadvīpa.
अस्ति वासिष्ठकोक्षीरधाराकृतमहापगा । क्षीरापगेति विख्याता नाम्ना तेन जगत्त्रये ॥
त्स्या दक्षिणतः काञ्च्या नातिदूरे तरङ्गिणी । स्कान्दाभिषेकसम्भूता स्कान्दीति प्रथितापगा ॥
अन्तरालं तयोर्मध्यमन्तर्वेदीति विश्रुतम् । काञ्चीस्थानमिदं विद्धि ख्यातं द्वादशनामभिः ॥
T: The content of this shloka is exactly as stated before.
Thus the poet avers that there is no need to set sights on Śvetadvīpa after seeing Kāñcī.

The attributes of the sun orb are also seen in Kāñcī. Sūrya is called Trayīta. Trayī refers to the Veda Triumvirate, Ṛk-Yajur-Sāma. The three Vedas are stated in Śāstrās to form the body of the sun. Since Kāñcī resonates with the chants of the three Vedas, Kāñcī is the same as the orb of the sun. Thus the Lord's second abode, viz.,  Sūryamaṇḍala, is also here!

The abode of Varadarāja in  Kāñcī excels Brahmaloka. Thus Paramapada is also found here. Thus, a Darshan of the Lord in Kāñcī is good enough in all respects as it confers all fulfilment.  Thus, unsurprisingly, those devotees blessed to visit  Kāñcī will no longer hanker after the three celebrated abodes of the Lord.  That lack of interest in those abodes is emphasised here in the figure of speech called अतिशयोक्ति  or hyperbole to extol the extreme glory of Kāñcī. 
  
व्याकरणांशाः
मूलम्
अस्यां भवन्तमभितः स्थितदुग्धसिन्धौ मध्ये त्रयीमयमहारवमण्डलस्य ।
पश्यन्नधःकृतचतुर्मुखविष्टपायां धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥
पदच्चेदः
अस्याम्, भवन्तम्, अभितः, स्थितदुग्धसिन्धौ, मध्ये, त्रयीमयमहारवमण्डलस्य, पश्यन्, अधः, कृत-चतुर्मुख-विष्टपायाम्, धाम-त्रये, अपि, कुतुकम्, विजहाति, विद्वान्
सन्धयः
अस्याम्, कृत-चतुर्मुख-विष्टपायाम्, कुतुकम् - मोऽनुस्वारः
पश्यन् +अधः - ङमो ह्रस्वादचि ङमुण्नित्यम्
अभितस्, अधस् - ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः (अधः)
धामत्रये+अपि - एङः पदान्तादति
आकाङ्क्षा-अन्वयः
अस्यां अभितः स्थितदुग्धसिन्धौ त्रयीमयमहारवमण्डलस्य अधःकृत-चतुर्मुख-विष्टपायां मध्ये भवन्तं पश्यन् विद्वान् धाम-त्रये अपि कुतुकं, विजहाति
Looking upon the Lord situated in the midst of the Mily-Ocean-like river that surrounds Kāñcī, with the city suffused with the rumbling resonance of Vedic chants that invokes sun orb and in sanctity pushes down the heaven of Brahma, the learned devotee loses interest in the three famed abodes of Lord Viṣṇu.
सुबन्तप्रक्रिया
अस्यां - त्यदादिगणः, स्त्री, ७.१, ङि, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, ङॅराम्नद्याम्निभ्यः, सर्वनाम्नः स्याढ्रस्वश्च, अकः सवर्णे दीर्घः
अभितः - अव्ययः
स्थितदुग्धसिन्धौ - इ, स्त्री, ७.१, ङि, अच्च घेः, वृद्धिरेचि
त्रयीमयमहारवमण्डलस्य, पुं. ६.१, ङस्, टाङसिङसामिनात्स्याः
अधःकृत-चतुर्मुख-विष्टपायां - आ, स्त्री, ७.१, ङि, ङेराम्नद्याम्नीभ्यः, याडापः, अकः सवर्णे दीर्घः
मध्ये - अ पुं, ७.१, ङ्, अतो गुणे
भवन्तं - भू शतृ, त् पुं, २.१ - अम्, उगिदचां सर्वनामस्थानेऽधातोः नुम्, भवत् -> भवन्त्+अम्
पश्यन् - दृश् शतृ, त् पुं, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तम् हल्, उगिदचां सर्वनामस्थानेऽधातोः नुम्
विद्वान् -स् पुं १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः नुम् , सान्तमहतः संयोगस्य, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तम् हल्, संयोगान्तस्य लोपः
धाम-त्रये अ पुं, ७.१, ङ्, अतो गुणे
अपि - अव्ययम्
कुतुकम् - अ नपुं २.१, अम्, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
विजहाति - वि+हा जुहोत्यादि, परस्मै, लट् प्रथम एक
समासाः, तद्धिताः, कृदन्ताः
(अभितः) स्थितदुग्धसिन्धौ - (अभितः) स्थिता दुग्धस्य सिन्धुः, तस्याम् - कर्मधारयः
त्रयीमयमहारवमण्डलस्य, त्रयीमयं महारवं कर्मधारयः तस्य मण्डलम् षष्ठीतत्पुरुषः
अधःकृत-चतुर्मुख-विष्टपायां - चतुर्मुखस्य विष्टपम्, यया विष्टपम् अधःकृतम्, सा तृतीया बहुव्रीहिः, तस्याम्