Monday, April 21, 2025

Sri Krishna Karnamritam 1.67






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

आर्द्रावलोकितधरापरिणद्धनेत्र-
माविष्कृतस्मितसुधामधुराधरोष्ठम् ।
आद्यं पुमांसमवतंसितबर्हिबर्ह-
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७ ॥
 
Meaning: (Only) the blessed ones of inner awakening perceive the Primordial Being, the manly form of Bhagavān Ṣrīkṛṣṇa, with His large eyes cast down on earth full of ardour, with the budding nectarine smile-adorned sweet lips, and with the feathers of peacock bound up in to His headgear!

व्याकरणांशाः
आर्द्रावलोकितधरापरिणद्धनेत्र-
माविष्कृतस्मितसुधामधुराधरोष्ठम् ।
आद्यं पुमांसमवतंसितबर्हिबर्ह-
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७ ॥
आर्द्र+अवलोकित-धरा-परिणद्ध-नेत्रम्, आविष्कृत-स्मित-सुधा-मधुर+अधस्+ओष्ठम्, आद्यम्, पुमांसम्, अवतंसित-बर्हि-बर्हम्, आलोकयन्ति, कृतिनः, कृत-पुण्य-पुञ्जाः
सन्धयः
आर्द्र+अवलोकित= अकः सवर्णे दीर्घः
मधुर+अधस् = अकः सवर्णे दीर्घः
अधस्+ओष्ठम् = ससजुषो रुः
आद्यम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
कृतिनः कृत-पुण्य-पुञ्जाः आर्द्र+अवलोकित-धरा-परिणद्ध-नेत्रम् आविष्कृत-स्मित-सुधा-मधुर+अधस्+ओष्ठम् अवतंसित-बर्हि-बर्हम् आद्यम् पुमांसम् आलोकयन्ति
(Only) the blessed ones of inner awakening perceive the Primordial Being, the manly form of Bhagavān Ṣrīkṛṣṇa, with His large eyes cast down on earth full of ardour, with the budding nectarine smile-adorned sweet lips, and with the feathers of peacock bound up in to His headgear!
सुबन्तप्रक्रिया
आर्द्र+अवलोकित-धरा-परिणद्ध-नेत्रम् = अ, पुं, २.१, अम्, अमि पूर्वः
आविष्कृत-स्मित-सुधा-मधुर+अधस्+ओष्ठम्= अ, पुं, २.१, अम्, अमि पूर्वः
आद्यम्= अ, पुं, २.१, अम्, अमि पूर्वः
पुमांसम् = पुंस्, पुं, २.१, अम् - पुंसोऽसुङ्, उगिदचां सर्वनामस्थानेऽधातोः, सान्तमहतः संयोगस्य, नश्चपदान्तस्य झलि
अवतंसित-बर्हि-बर्हम्
कृतिनः = न्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
कृत-पुण्य-पुञ्जाः =अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विस्रजनीयः
तिङन्तप्रक्रिया
आलोकयन्ति = आङ्+ लोकृँ दर्शने, णिच्, भ्वादिः, परस्मैपदी, लट्, १.३
समासाः, तद्धिताः, कृदन्ताः
आर्द्र+अवलोकित-धरा-परिणद्ध-नेत्रम् = आर्द्रं (क्रियाविशेषणम्) अवकोलिता धरा येन तत् नेत्रम् ३बहुव्रीहिः, परिणद्धं नेत्रम् यस्य तम् समानाधिकरणबहुव्रीहिः
आविष्कृत-स्मित-सुधा-मधुर+अधस्+ओष्ठम्=आविष्कृतं स्मितम् क.धा, स्मितमेव सुधा क.धा, सुधया मधुरम् ३तत्, मधुरम् अधः ओष्ठम् क.धा
कृत-पुण्य-पुञ्जाः = पुण्यस्य पुञ्जः ६तत्, कृतः पुण्यपुञ्जः यैः ते ३बहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥