व्याकरणांशाः |
तत्कैशोरं तच्च वक्त्रारविन्दं | | | | | |
तत्कारुण्यं ते च लीलाकटाक्षाः | | | | | |
तत्सौन्दर्यं सा च मन्दस्मितश्रीः | | | | | |
सत्यं सत्यं दुर्लभं दैवतेषु ॥ १.५५ ॥ | | | | | |
तत्+कैशोरम्, तत्+च, वक्त्र+अरविन्दम्, तद्+कारुण्यम्, ते, च, लीला-कटाक्षाः, तद्+सौन्दर्यम्, सा, च, मन्द-स्मित-श्रीः,सत्यम्, सत्यम्, दुर्लभम्, दैवतेषु |
सन्धयः | | | | | |
तद्+कैशोरम्, तद्+च = स्तोः श्चुना श्चुः & खरि च |
वक्त्र+अरविन्दम् = अकः सवर्णे दीर्घः |
तद्+कारुण्यम्, तद्+सौन्दर्यम् = खरि च |
आकाङ्क्षा-अन्वयः | | | | |
तत् कैशोरम् तत् च वक्त्र+अरविन्दम् तत् कारुण्यम् ते च लीला-कटाक्षाः तत् सौन्दर्यम् सा च मन्द-स्मितश्रीःसत्यम् सत्यम् दुर्लभम् दैवतेषु |
Oh, the incomparable Lord Śrīkṛṣṇa- that tender youthfulness, and that lotus-like face, that overflowing compassion from Your countenance, that marvellous beauty, and that exuberance of a gentle smile, indeed, indeed, that is hard to find even in deities (Brahmā, Śiva, and Ṣaṇmukha)! |
सुबन्तप्रक्रिया | | | | | |
तत् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने |
कैशोरम् = अ, नपुं, १.१, अम्, अतोऽम्, अमि पूर्वः |
च = अव्ययम् |
वक्त्र+अरविन्दम्= अ, नपुं, १.१, अम्, अतोऽम्, अमि पूर्वः |
कारुण्यम्= अ, नपुं, १.१, अम्, अतोऽम्, अमि पूर्वः |
ते = युष्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य |
लीला-कटाक्षाः =अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
सौन्दर्यम्= अ, नपुं, १.१, अम्, अतोऽम्, अमि पूर्वः |
सा = तद्, स्त्री, १.१, सुँ, तदोः सः सावनन्त्ययोः, त्यदादीनामः, अतो गुणे, अजाद्यष्टाप्, अकः सवर्णे दीर्घः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल् |
मन्द-स्मितश्रीः = ई, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
सत्यम् = अ, नपुं, १.१, अम्, अतोऽम्, अमि पूर्वः |
दुर्लभम्= अ, नपुं, १.१, अम्, अतोऽम्, अमि पूर्वः |
दैवतेषु = आ, स्त्री, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः |
तिङन्तप्रक्रिया | | | | |
|
समासाः, तद्धिताः, कृदन्ताः | | | |
कैशोरम् = किशोरस्य भावः - तद्धितः अञ् |
वक्त्र+अरविन्दम्= वक्त्रम् अरविन्द्मिव उपमानोत्तरपदकर्मधारयः |
कारुण्यम्= करुणस्य भावः - तद्धितः अञ् |
लीला-कटाक्षाः =लीला-युताः कटाक्षाः - मध्यमपदलोपी क. धा |
सौन्दर्यम्= = सुन्दरस्य भावः - तद्धितः अञ् |
मन्द-स्मितश्रीः = स्मितस्य श्रीः ६तत्, मन्दं स्मितम् क.धा |