Wednesday, April 2, 2025

Sri Krishna Karnamritam 1.53







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥                 
Meaning: Oh, I lose myself in that Lord Śrīkṛṣṇa whose chest sports the marks of saffron from the ample bosoms of Gopīs intoxicated in the mock battles fought with flowers released by Cupid's flower arrows, and whose ecstatic joy of amorous sport steals the lustre from the moon and anoints His tenderly smiling lotus-like face that is excessively beautiful and oozes sweetness.

व्याकरणांशाः
कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि, देवे, मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि, लीये
सन्धयः
लसत्+उरसि = झलां जशोऽन्ते
मुहुः+अधिक = ससजुषो रुः
आकाङ्क्षा-अन्वयः
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि देवे लीये
Oh, I lose myself in that Lord Śrīkṛṣṇa, whose chest sports the marks of saffron from the ample bosoms of Gopīs intoxicated in the mock battles fought with flowers released by Cupid's flower arrows, whose ecstatic joy of amorous sport steals the lustre from the moon and anoints His tenderly smiling lotus-like face that is excessively beautiful and oozes sweetness.
सुबन्तप्रक्रिया
कुसुम-शर-शर-सम-रकुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि = स्, पुं, ७.१, ङि, वर्णमेलनम्
देवे = अ, पुं, ७.१, ङि, आद्गुणः
मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि = कुसुमानि शराः यस्य सः (मन्मथः) बहुव्रीहिः, तस्य शराः ६तत्, शराणां समरः ६तत्, तेन कुपिताः मदाः गोप्यः(क.धा) ३तत्, तासां कुचाः ६तत्, कलश इव कुचः उपमानोत्तरपदकर्मधारयः, तेषां घुसृणस्य रसः ६तत्, तेन लसतीति उपपद, लसत् उरः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः
मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि = मदेन लुलितम् ३तत्, मृदु हसितम् क.धा, शशेः शोभा ६तत् मुषिता क.धा, तया शोभितम् ३तत्, मुहुः अधिकं सौन्दर्यं यस्य तत् बहुव्रीहिः, मुखम् कमलमिव उपमानोत्तरक.धा., तस्य मधुरिमा यस्य तस्मिन् बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥