Monday, February 24, 2025

Sri Krishna Karnamritam 1.28




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
अस्तोकस्मितभरमायतायताक्षं
निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।
निःसीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८ ॥  
 
Meaning: Oh, Lord Śrīkṛṣṇa! I deeply crave to see Your immense form filled with unbounded smiles, long-drawn lotus-petal-like eyes, lovingly pressed without reservation by the bosoms of all the Vraja damsels, manifesting limitless glow of the divine blue luminance- this form that suffuses all the three worlds in creation!

व्याकरणांशाः
अस्तोकस्मितभरमायतायताक्षं
निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।
निःसीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८ ॥
अ-स्तोक-स्मित-भरम्, आयत+आयत+अक्षम्, निस्+शेष-स्तन-मृदितम्, व्रज+अङ्गनाभिः, निस्+सीम-स्तबकित-नील-कान्ति-धारम्, दृश्यासम्, त्रि-भुवन-सुन्दरम्, महः, ते
सन्धयः
आयत+आयत+अक्षम्, निस्+सीम-स्तबकित-नील-कान्ति-धारम् = मोऽनुस्वारः
आयत+आयत+अक्षम् = अकः सवर्णे दीर्घः
निस्+शेष = स्तोः श्चुना श्चुः
व्रज+अङ्गनाभिः = अकः सवर्णे दीर्घः
महः+ते = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
व्रज+अङ्गनाभिः = ससजुषो र्ः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
ते अ-स्तोक-स्मित-भरम् आयत+आयत+अक्षम् निस्+शेष-स्तन-मृदितम् व्रज+अङ्गनाभिः निस्+सीम-स्तबकित-नील-कान्ति-धारम् त्रि-भुवन-सुन्दरम् महः दृश्यासम्
Oh, Lord Śrīkṛṣṇa! I deeply crave for seeing Your immense form filled with unbounded smiles, long-drawn lotus-petal-like eyes, lovingly pressed without reservation by the bosoms of all the Vraja damsels, manifesting limitless glow of the divine blue luminence, the form that suffuses all the three worlds in creation!
सुबन्तप्रक्रिया
अ-स्तोक-स्मित-भरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आयत+आयत+अक्षम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
निस्+शेष-स्तन-मृदितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
व्रज+अङ्गनाभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
निस्+सीम-स्तबकित-नील-कान्ति-धारम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
त्रि-भुवन-सुन्दरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
महः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते = युश्मद्, पुं, ६.१, ङस्, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचने
तिङन्तप्रक्रिया
दृश्यासम् = दृशिर् प्रेक्षणे, भ्वादिः, परस्मैपदी, अशीर्लिङ्, ३.१
समासाः, तद्धिताः, कृदन्ताः
अ-स्तोक-स्मित-भरम् = न स्तोकम् नञ्तत्, अस्तोकम् स्मितम् क.धा, तेन भरम् ३तत्
आयत+आयत+अक्षम् = आयतम् आयतम् इव अक्षम् यस्य तत् उपमान बहुव्रीहिः
निस्+शेष-स्तन-मृदितम् = स्तनैः मृदितम् ३तत्, निस् शेषम् स्तनमृदितम् क.धा
व्रज+अङ्गनाभिः = व्रजस्य अङ्गनाः ताभिः ६तत्
निस्+सीम-स्तबकित-नील-कान्ति-धारम् = निस् सीम क.धा, निस्सीमस्तबकिता नीलकान्तिः क.धा, तां धारयति उपपद, तम्
॥ हरिः ॐ तत् सत् ॥

Sunday, February 23, 2025

Sri Krishna Karnamritam 1.27




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
अधीरमालोकितमार्द्रजल्पितं
गतं च गम्भीरविलासमन्थरम् ।  
अमन्दमालिङ्गितमाकुलोन्मद-
स्मितं च ते नाथ वदन्ति गोपिकाः ॥ १. २७ ॥  
 
Meaning: Oh, Lord Śrīkṛṣṇa! The Vraja lasses i.e. Gopīs, speak fervently about Your sports with them - Your darting and fickle glances, Your passionate words, Your deep dalliant affection showered on each one, Your intense embraces, Your smile showing Your long-lasting heady feeling, all past now!

व्याकरणांशाः
अधीरमालोकितमार्द्रजल्पितं
गतं च गम्भीरविलासमन्थरम् ।
अमन्दमालिङ्गितमाकुलोन्मद-
स्मितं च ते नाथ वदन्ति गोपिकाः ॥ १. २७ ॥
अधीरम्, आलोकितम्, आर्द्र-जल्पितम्, गतम्, च, गम्भीर-विलास-मन्थरम्, अमन्दम्, आलिङ्गितम्, आकुल+उन्मदस्मितम्, च, ते, नाथ, वदन्ति, गोपिकाः
सन्धयः
आर्द्र-जल्पितम्, गतम्,आकुलोन्मदस्मितम् = मोऽनुस्वारः
आकुल+उन्मदस्मितम् = आद्गुणः
गोपिकाः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
नाथ! ते अधीरम् आलोकितम् आर्द्र-जल्पितम् गतम् च गम्भीर-विलास-मन्थरम् अमन्दम् आलिङ्गितम् आकुल+उन्मदस्मितम् च गोपिकाः वदन्ति
Oh, Lord Śrīkṛṣṇa! The Vraja lasses i.e. Gopīs, speak fervently about Your sports with them - Your darting and fickle glances, Your passionate words, Your deep dalliant affection showered on each one, Your intense embraces, Your smile showing Your long-lasting heady feeling, all past now!
सुबन्तप्रक्रिया
अधीरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आलोकितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आर्द्र-जल्पितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
गतम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
च = अव्ययम्
गम्भीर-विलास-मन्थरम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अमन्दम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आलिङ्गितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
आकुल+उन्मदस्मितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
च =अव्ययम्
ते = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
नाथ = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
गोपिकाः
तिङन्तप्रक्रिया
वदन्ति = वद्ँ वक्तायां वाचि, भ्वादिः, सकर्मकः, परस्मैपदी, लट्, १.३
समासाः, तद्धिताः, कृदन्ताः
आर्द्र-जल्पितम्= आर्द्रं जल्पितम् क.धा
गम्भीर-विलास-मन्थरम्= गम्भीरम् विलासेन मन्थरम् ३तत्, क.धा
आकुल+उन्मदस्मितम्= आकुलम् उन्मदम् स्मितम् क.धा
॥ हरिः ॐ तत् सत् ॥

Saturday, February 22, 2025

Sri Krishna Karnamritam 1.26




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः 
कमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६ ॥  
Meaning: Oh, Lord Śrīkṛṣṇa! When, oh, when, indeed, will those side-long glances from Your eyes blacker than the dark lotuses in the river Kālindī be bestowed on me? When will those glances with wave after wave of Your compassion be bestowed on me? When will Your glances, cool like the moon in the dark matted locks of Lord Śiva who opposed Cupid (Manmatha) be bestowed on me? When will the sonorous sportive strains of Your flute music give me the immersive experience of joy?

व्याकरणांशाः
कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः
कमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६ ॥
कदा, वा, कालिन्दी-कुवलय-दल-श्यामल-तराः, कटाक्षाः, लक्ष्यन्ते, किमपि, करुणा-वीचि-निचिताः, कदा, वा, कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः, कमपि, अन्तस्+तोषम्, ददति, मुरली-केलि-निनदाः
सन्धयः
...श्यामलतराः + कटाक्षा = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
कटाक्षाः+ लक्ष्यन्ते = = ससजुषो रुः & भोभगोअघोअपूर्वस्य योऽशि & हलि सर्वेषाम्
... निचिताः, ...निनदाः = = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
...शिशिराः + कमपि = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
अन्तस्+तोषम् = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि
तोषम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
कदा वा कालिन्दी-कुवलय-दल-श्यामल-तराः कटाक्षाः लक्ष्यन्ते? किमपि करुणा-वीचि-निचिताः कटाक्षाः लक्ष्यन्ते? कदा वा कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः कटाक्षाः लक्ष्यन्ते? मुरली-केलि-निनदाः कमपि अन्तस्+तोषम् ददति
Oh, Lord Śrīkṛṣṇa! When, oh, when, indeed, will those side-long glances from Your eyes blacker than the dark lotuses in the river Kālindī be bestowed on me? When will those glances with wave after wave of Your compassion be bestowed on me? When will Your glances, cool like the moon in the dark matted locks of Lord Śiva who opposed Cupid (Manmatha) be bestowed on me? When will the sonorous sportive strains of Your flute music give me the immersive experience of joy?
सुबन्तप्रक्रिया
कदा, वा, कमपि, किमपि = अव्ययानि
कालिन्दी-कुवलय-दल-श्यामल-तराः, करुणा-वीचि-निचिताः, कटाक्षाः, करुणा-वीचि-निचिताः कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः, मुरली-केलि-निनदाः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अन्तस्+तोषम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
लक्ष्यन्ते = लक्षँ दर्शनाङ्कनयोः, चुरादिः, भावकर्मणोः, आत्मनॅपदी, लट्, १.३
ददति = दा डुदाञ् दाने, जुहोत्यादिः, परस्मैपदी (उभय), लट्, १.३
समासाः, तद्धिताः, कृदन्ताः
कालिन्दी-कुवलय-दल-श्यामल-तराः = कालिन्द्याः कुवलयानि ६तत्, तेषां दलानि ६तत्, तेभ्यः श्यामलतराः(तद्धितः) ५तत्
करुणा-वीचि-निचिताः = करुणायाः वीचयः ६तत्, निचिताः वीचयः येषां ते (कटाक्षाः) समानाधिकरणबहुव्रीहिः
कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः = कन्दर्पं प्रतिभटति इति कन्दर्पप्रतिभटः उपपदसमासः, तस्य जटाः ६तत्, तेषु स्थितः चन्द्रः ७तत्, चन्द्र इव शिशिराः येषां ते उपमानबहुव्रीहिः
अन्तस्+तोषम् = अन्तः तोषः, तम् , क.धा
मुरली-केलि-निनदाः = कुरल्याः केलि निनदाः (क,धा), ६तत्
॥ हरिः ॐ तत् सत् ॥


Friday, February 21, 2025

Sri Krishna Karnamritam 1.25





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र! शिशिरीकुरु लोचनं मे ॥ १.२५ ॥  
Meaning: Oh, Lord Śrīkṛṣṇacandra!, please cool my eyes with the vision of Your sidelong glances kaleidoscopic in their compassion, with Your glorious form combining the splendour of childhood and the valour of vibrant youth, with Your sports like lifting the Govardhana mountain and vanquishing Kāliya the many-hooded vile cobra - sports that delightfully astonish all the worlds! Kawearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?

व्याकरणांशाः
कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र! शिशिरीकुरु लोचनं मे ॥ १.२५ ॥
कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन, तारुण्य-संवलित-शैशव-वैभवेन, आपुष्णता, भुवनम्+अद्भुत-विभ्रमेण, श्री-कृष्ण-चन्द्र, शिशिरी-कुरु, लोचनम्, मे
सन्धयः
लोचनम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
श्री-कृष्ण-चन्द्र! मे लोचनम् कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन तारुण्य-संवलित-शैशव-वैभवेन आपुष्णता भुवनम्+अद्भुत-विभ्रमेण शिशिरी-कुरु!
Oh, Lord Śrīkṛṣṇacandra!, please cool my eyes with the vision of Your sidelong glances kaleidoscopic in their compassion, with Your glorious form combining the splendour of childhood and the valour of vibrant youth, with Your sports like lifting the Govardhana mountain and vanquishing Kāliya the many-hooded vile cobra - sports that delightfully astonish all the worlds! Kawearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?
सुबन्तप्रक्रिया
कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन = अ, नपुं, ३.१, टा, आङो नाऽस्त्रियाम्
तारुण्य-संवलित-शैशव-वैभवेन= अ, नपुं, ३.१, टा, आङो नाऽस्त्रियाम्
आपुष्णता = त्, नपुं, ३.१, टा, वर्णमेलनम्
भुवनम्+अद्भुत-विभ्रमेण= अ, नपुं, ३.१, टा, आङो नाऽस्त्रियाम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
श्री-कृष्ण-चन्द्र = अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
लोचनम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पुर्वः
मे (मम) = अस्मद्, द सर्वनाम पुं, ६.१, ङस्, य्ष्मदस्मद्भ्यां ङसोऽश्, तवममौ ण्गसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
तिङन्तप्रक्रिया
शिशिरी-कुरु= शिशिरी च्वि प्रत्ययः, डुकृञ् करणे, तनादिः, परस्मैपदी (उभय), लोट्, २.१
समासाः, तद्धिताः, कृदन्ताः
कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन = करुणस्य भावः कारुण्यम् (तद्धितम्), कारुण्येन कर्बुरम् कटाक्षम् ३तत्, क.धा, कटाक्षस्य निरीक्षणम् ६तत्, तेन
तारुण्य-संवलित-शैशव-वैभवेन= तरुणस्य भावः तारुण्यम् (तद्धितम्), तारुण्येन संवलितम् ३तत्, संवलितम् शैशवम् क.धा, तस्य भावः ६तत्, तेन
भुवनम्+अद्भुत-विभ्रमेण= भुवनम् (भुवनस्य कृते) अद्भुतम् विभ्रमम् क.धा, ६तत्, तेन
श्री-कृष्ण-चन्द्र = श्रीकृष्णः चन्द्रः इव उपमान क.धा, हे, सम्बोधनम्
॥ हरिः ॐ तत् सत् ॥



Thursday, February 20, 2025

Sri Krishna Karnamritam 1.24





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः । 
युगलं विगलन्मधुद्रव-
स्मितमुद्रामृदुना मुखेन्दुना ॥१.२४॥  
Meaning: Oh, when indeed will that tender child, the Lord Śrīkṛṣṇa, wearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?

व्याकरणांशाः
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः ।
युगलं विगलन्मधुद्रव-
स्मितमुद्रामृदुना मुखेन्दुना ॥१.२४॥
शिशिरीकुरुते, कदा, नु, नः, शिखि-पिञ्छ+आभरणः, शिशुः, दृशोः, युगलम्, विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना, मुख+इन्दुना
सन्धयः
नः, शिखि-पिञ्छ+आभरणः, दृशोः= ससजुषो रुः & खरवसानयोर्विसर्जनीयः
पिञ्छ+आभरणः= अकः सवर्णे दीर्घः
शिशुः+दृशोः = ससजुषो रुः
विगलत्+मधुद्रव= झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
मुख+इन्दुना = आद्गुणः
आकाङ्क्षा-अन्वयः
कदा नु नः दृशोः युगलम् शिखि-पिञ्छ+आभरणः शिशुः विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना मुख+इन्दुना शिशिरीकुरुते ?
Oh, when indeed will that tender child, the Lord Śrīkṛṣṇa, wearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?
सुबन्तप्रक्रिया
कदा = अव्ययम्
नु = अव्ययम्
नः = अस्मद्, पुं, ६.३, आम्, युषम्दस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्न्नसौ स्तः
शिखि-पिञ्छ+आभरणः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
शिशुः= उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
दृशोः = श्, मपुं, ६.२, ओस्, वर्णमेलनम्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
युगलम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना= उ, पुं, ३.१, टा, आङो नास्त्रियाम्
मुख+इन्दुना= उ, पुं, ३.१, टा, आङो नास्त्रियाम्
तिङन्तप्रक्रिया
शिशिरीकुरुते = नामधातुः, डुकृञ् करणे, तनादिः, आत्मनेपदी (उभय), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
शिखि-पिञ्छ+आभरणः= शिखेः पिन्छः ६तत्, शिखिपिञ्छः आभरणः यस्य सः समानाधिकरणबहुव्रीहिः
विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना= मधुद्रवः विगलितः येन सः, ३बहुव्रीहिः, स्मिता मुद्रा यस्य सः बहुव्रीहिः, विगलत्मधुद्रवः च स्मितमुद्रा च यस्य सः बहुव्रीहिः, सः मृदुः क.धा, तेन
मुख+इन्दुना= मुखं इन्दुरिव उपमानोत्तरपदम्, तेन
॥ हरिः ॐ तत् सत् ॥


Wednesday, February 19, 2025

Sri Krishna Karnamritam 1.23





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
सार्धं समृद्धैरमृतायमानै-
राध्मायमानैर्मुरलीनिनादैः । 
मूर्धाभिष्क्तं मधुराकृतीनां  
बालं कदा नाम विलोकयिष्ये ॥ १.२३ ॥    
Meaning: Oh, when indeed will I behold that young lad, the Lord Śrīkṛṣṇa, along with His overflowing, rich and nectarine, sounds of the flute blown by Him, drenched in the love of the damsels of Vraja!?

व्याकरणांशाः
सार्धं समृद्धैरमृतायमानै-
राध्मायमानैर्मुरलीनिनादैः ।
मूर्धाभिष्क्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये ॥ १.२३ ॥
सार्धम्, समृद्धैः, अमृतायमानैः, आध्मायमानैः, मुरलीनिनादैः, मूर्धाभिष्क्तम्, मधुराकृतीनाम्, बालम्, कदा, नाम, विलोकयिष्ये
सन्धयः
सार्धम्, मूर्धाभिष्क्तम्, मधुराकृतीनाम्, बालम् = मोऽनुस्वारः
समृद्धैः+अमृतायमानैः+आध्मायमानैः+मुरलीनिनादैः = ससजुषो रुः
मूर्धा+अभिष्क्तम्, मधुर+अकृतीनाम् = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
कदा नाम समृद्धैः अमृतायमानैः आध्मायमानैः मुरलीनिनादैः सार्धं मधुराकृतीनाम् मूर्धाभिष्क्तम् बालम् विलोकयिष्ये
Oh, when indeed will I behold that young lad, the Lord Śrīkṛṣṇa, along with His overflowing, rich and nectarine, sounds of the flute blown by Him, drenched in the love of the damsels of Vraja!?
सुबन्तप्रक्रिया
सार्धम् = अव्ययम्
समृद्धैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अमृतायमानैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आध्मायमानैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुरलीनिनादैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मूर्धाभिष्क्तम् = अ, पुं, २.१, अम्, अमि पूर्वः
मधुराकृतीनाम् = कृति, इ, स्त्री, ६.३, आम्, ह्रस्व्रनद्यापो नुट्, नामि
बालम्= अ, पुं, २.१, अम्, अमि पूर्वः
कदा = अव्ययम्
नाम = अव्ययम्
तिङन्तप्रक्रिया
विलोकयिष्ये = वि + लोकृँ भाषायाम्, चुरादिः, आत्मनेपदी (उभय), लृट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
अमृतायमानैः= अमृतायति इति नामदातुः, शानच् कृदन्तः
आध्मायमानैःआण्ग्+ध्मा, कर्मणि, शानच् कृदन्तः
मुरलीनिनादैः= मुरलेः निनादः (नि+नद+पक्षे घञ्), तैः, ६तत्
मूर्धाभिष्क्तम् = मूर्धनि अभिषिक्तः, तम्, ७तत्
मधुराकृतीनाम् = मधुराः कृतयः, तासाम्, क.धा
॥ हरिः ॐ तत् सत् ॥


Tuesday, February 18, 2025

Sri Krishna Karnamritam 1.22





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
विचित्रपत्राङ्कुरशालिबाला-
स्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥ १.२२ ॥    
Meaning: We do not see anything suitable to focus on for assisting us in the contemplation of our Lord Śrī Kṛṣṇa other than the variously charmingly unguented and perfumed bosoms (cleavages) of the damsels of Vraja, or the minds of contemplative ascetics meditating on the Lord, or the shaded canopies of the trees in Vraja as suitable abodes of our Lord!

व्याकरणांशाः
विचित्रपत्राङ्कुरशालिवाला-
स्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥ १.२२ ॥
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम्, मौनि-मनस्+अन्तरम्, वा, अपास्य, वृन्दा-वन-पादप+आस्यम्, उपास्यम्, अन्यत्, न, विलोकयामः
सन्धयः
पत्र+अङ्कुर, स्तन+अन्तरम्, पादप+आस्यम् = अकः सवर्णे दीर्घः
मनस्+अन्तरम् = ससजुषो रुः, अतो रोरप्लुतादप्लुते, एङः पदान्तादति
अन्तरम्= मोऽनुस्वारः
विलोकयामः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् मौनि-मनस्+अन्तरम् वा अपास्य वृन्दा-वन-पादप+आस्यम् उपास्यम्न्य अन्त्यत् न विलोकयामः

सुबन्तप्रक्रिया
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मौनि-मनस्+अन्तरम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
वा = अव्ययम्
अपास्य = अव्ययम्
वृन्दा-वन-पादप+आस्यम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
उपास्यम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अन्यत् = अव्ययम्
न = अव्ययम्
तिङन्तप्रक्रिया
विलोकयामः = वि+ लोकृँ भाषायाम्, चुरादिः, परस्मै(उभय)पदी, सकर्मकः, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् = विचित्रम् पत्रस्य अङ्कुरम्(६तत्) क.धा, तेन यिक्तम् (शालिन् तद्धितः), शालीनि बालानां स्तनानि ६तत्, क.धा, तस्मात् अन्तरम् मयूरव्यंसकादि
मौनि-मनस्+अन्तरम्= मौनिनां मनः ६तत्, तस्मात् अन्तरम्, मयूरव्यंसकादि
वृन्दा-वन-पादप+आस्यम्= वृन्दायाः वनम् ६तत्, वनस्य पादपः ६तत्, तस्य आस्यम् ६तत्
उपास्यम्= उप आस्यम् प्रादि
॥ हरिः ॐ तत् सत् ॥