Thursday, January 30, 2025

Sri Krishna Karnamritam 1.05



   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

मधुरतरस्मिताऽमृतविमुग्धमुखाम्बुरुहं 
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।   
विषयविषामिषग्रसनगृध्नुनि चेतसि मे  
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.०५ ॥
Meaning: An exceedingly sweet smile causing a nectarine effect of innocence in that lotus-like face, that feather of a peacock swollen with the pride of its beauty marking that copious cluster of dark hair, big-eyed, this phenomenal being lights up forever my mind otherwise addicted to sensual attractions that are like poisoned meat!

The true antidote to the excesses of sense temptations is the contemplation of the ethereal beauty of Bhagavān Śrīkṛṣṇa- innocence, beauty, charm and love combined. The most adorable baby boy ever!

व्याकरणांशाः
मधुरतरस्मिताऽमृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।
विषयविषामिषग्रसनगृध्नुनि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.०५ ॥
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम्, मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम्, विषय-विष+आमिष-ग्रसन-गृध्नुनि, चेतसि, मे, विपुल-विलोचनम्, किम्+अपि, धाम, चकास्ति, चिरम्
सन्धयः
स्मित+अमृत, मुख+अम्बुरुहम्, विष+आमिष = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम् मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम् विपुल-विलोचनम् किम्+अपि धाम मे विषय-विष+आमिष-ग्रसन-गृध्नुनि चेतसि चिरम् चकास्ति
Exceedingly sweet smile causing a nectarine effect of innocence in that lotus-like face, that feather of a peacock swollen with the pride of its beauty marking that copious cluster of dark hair, big-eyed,  this phenomenal being lights up forever my mind otherwise addicted to sensual attractions that are like poisoned meat!
सुबन्तप्रक्रिया
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम्, मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम्, विपुल-विलोचनम् = अ, नपुं, १.१, सुँ, अतोऽम्,अमि पूर्वः
विषय-विष+आमिष-ग्रसन-गृध्नुनि = गृध्नु, उ, नपुं, ७.१, ङि, इकोऽचि विभक्तौ (नुमागमः)
चेतसि = चेतस्, नपुं, ७.१, ङि, वर्णमेलन
मे = अस्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य (अन्वादेशे)
किम् = मकारान्त सर्वनाम, नपुं, सुँ, स्वमोर्नपुंसकात्
धाम = नकारान्त, धामन्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिनकान्तस्य
चिरम् = अव्ययम्
तिङन्तप्रक्रिया
चकास्ति = चकास्, अदादिः, परस्मैपदी, अकर्मकः, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम्= मधुरतर( तरप् तद्धितः), तरम् स्मितम् क.धा, अमृतमिव विमुग्धम् उपमान क.धा, मुखम् अम्बुरुहममिव ौपमानोत्तरपद क.धा, यस्य तत् बहुव्रीहिः
मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम्= मदः शिखी क.धा, तस्य पिञ्छम् ६तत्, तेन लाञ्छितम् ३तत्, मनोज्ञम् कचस्य प्रत्ययम्६तत्+क.धा,, यस्य तत् = बहुव्रीहिः
विपुल-विलोचनम् =विपुलम् विलोचनम् क.धा, यस्य तत् बहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥