Monday, January 27, 2025

Sri Krishna Karnamritam 1.02


   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं  
    वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं     
           हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥  १.०२ ॥    

Meaning: Witness this "phenomenon" that is perceivable as being showered with divine flowers dropped down by the delicate palms of celestial damsels, whilst it is immersed in ethereal ecstasy listening to the strains of its own flute playing; we now see thousands of Gopis surrounding this divinity, dancing to its music, hardly able to restrain their skirt strings from loosening during their gyrations. And this "phenomenon" bestows liberation freely to those surrendered to "it" in an all-encompassing munificence. And this phenomenon is apparently a young form!

Līlāśuka is lost in this vision and struggles to describe this phenomenon of a young Śrīkṛṣṇa playing His divine melody on the flute, with celestial damsels showering flowers, Gopis dancing in abandon, and the Lord granting liberation freely to those surrendered to Him! This is indeed Madhura Bhakti.

व्याकरणांशाः
अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.०२ ॥
अस्ति, स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्, वस्तु, प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम्, स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम्, हस्त-न्यस्त-नतापवर्गम्, अखिलोदारम्, किशोराकृति
॥ १.०२ ॥
गुरुः मे = ससजुषो रुः ।
शिक्षागुरुः च = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि, स्तोः श्चुना श्चुः ।
भगवान् शिखिपिञ्छमौलिः = स्तोः श्चुना श्चुः ।
यत् पाद... = झला जशोऽन्ते & खरि च ।
आकाङ्क्षा-अन्वयः
स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्, प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम्, स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम्, हस्त-न्यस्त-नतापवर्गम्, अखिलोदारम्, किशोराकृति, वस्तु, अस्ति
This "phenomenon" is perceivable as being showered with divine flowers dropped down by the delicate palms of celestial damsels, whilst it is immersed in ethereal ecstasy listening to the strains of its own flute playing; we now see thousands of Gopis surrounding this divinity, dancing to its music, hardly able to restrain their skirt strings from loosening during their gyrations. And this "phenomenon" bestows liberation freely to those surrendered to "it" in an all-encompassing munificence. And this phenomenon is apparently a young form!
सुबन्तप्रक्रिया
स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
हस्त-न्यस्त-नतापवर्गम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
अखिलोदारम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
किशोराकृति = इ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
वस्तु = उ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
तिङन्तप्रक्रिया
अस्ति = असँभुवि, अदादिः, परस्मैपदी, अकर्मकः, कर्तरि लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्= स्वसः (स्वर्गस्य) तरुण्यः ६तत्, तासां करौ ६तत्, करस्य अग्रम् ६तत्, तेषां विगलतः प्रसूनाः ६तत्/क.धा, तेन आप्लुतम् ३तत्
प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम् = प्रस्तुतः वेणुनादः क.धा, तस्य लहरी ६अतत्, तया (निर्वाणम् निर्व्याकुलम् क.धा, नञ्) ३तत्
स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम् = स्रस्ता स्रस्ता निरुद्धा नीवी क.धा. तया विलसन्त्यः गोप्यः ३तत्/क्.धा, सहस्राः गोप्यः क.धा, ताभिः आवृतम्
हस्त-न्यस्त-नतापवर्गम् = हस्तेन न्यस्तम् ३ तत्, नतेभ्यः न्यस्तम् अपवर्गम् ४तत्/ क.धा. , न्यस्तम् एन तत् ३बहुव्रीहिः
अखिलोदारम् = अखिलानां उदारम् ६तत्.
किशोराकृति = किशोरम् आकृति क.धा

॥ हरिः ॐ तत् सत् ॥