व्याकरणांशाः | चातुर्यैकनिधानसीमचपलापाङ्गच्छटामन्थरं | | | | | | लावण्यामृतवीचिलालितदृशं लक्ष्मीकटाक्षादृतम् । | | | | | | कालिन्दीपुलिनाङ्गणप्रणयिनङ्कामावताराङ्कुरं | | | | | | बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.०३ ॥ | | | | | | चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम्, लावण्य+अमृत-वीचि-लालित-दृशं लक्ष्मी-कटाक्ष+आदृतम्, कालिन्दी-पुलिन+अङ्गअप्रणयिनम्, काम+अवतार+अङ्कुरम्, बालम्, नीलम्, अमी, वयम्, मधुरिम-स्वाराज्यम्, आराध्नुमः | सन्धयः | | | | | | मन्थरम्, दृशम्, अङ्कुरम्, बालम्, वयम् = मोऽनुस्व्रारः । | चातुर्य+एक = वृद्धिरेचि । | अपाङ-छटा = छे च । | लावण्य+अमृत, कटाक्ष+आदृतम्, पुलिन+अङ्गण, काम+अवतार, अवतार+अङ्कुरम्= अकः सवर्णे दीर्घः । | आकाङ्क्षा-अन्वयः | | | | | चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम् लावण्य+अमृत-वीचि-लालित-दृशं लक्ष्मी-कटाक्ष+आदृतम् कालिन्दी-पुलिन+अङ्गअप्रणयिनम् कामावतार+अङ्कुरम् बालम् नीलम् अमी वयम् मधुरिम-स्वाराज्यम् आराध्नुमः | Verily the storehouse of cleverness, lowering with darting sidelong glances, whose eyes bespeak of nectarine attractiveness rising in waves, who is worshipped by the goddess of beauty herself; who sports on the sandy bank of the river Kālindī ( Yamunā) as the incarnate tender shoot of amorousness; such a one, this dark-hued boy Śrīkṛṣṇa, we earthlings all adore as the supreme monarch of the kingdom of sweet beauty. | सुबन्तप्रक्रिया | | | | | | चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम् = अ, पुं, २.१, अम्, अमि पूर्वः | लावण्य+अमृत-वीचि-लालित-दृशं लक्ष्मी-कटाक्ष+आदृतम् = अ, पुं, २.१, अम्, अमि पूर्वः | कालिन्दी-पुलिन+अङ्गअप्रणयिनम् = अ, पुं, २.१, अम्, अमि पूर्वः | कामावतार+अङ्कुरम् = अ, पुं, २.१, अम्, अमि पूर्वः | बालम् = अ, पुं, २.१, अम्, अमि पूर्वः | नीलम् = अ, पुं, २.१, अम्, अमि पूर्वः | मधुरिम-स्वाराज्यम् = = अ, पुं, २.१, अम्, अमि पूर्वः | अमी = अदस्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः, अदसोऽसेर्दादु दो मः, एत ईद्बहुवचने | वयम् = अस्मद्, पुं, १.३, ङेप्रथमयोरम्, यूयवयौ जसि, अतो गुणे, शेषे लोपः, अमि पूर्वः | तिङन्तप्रक्रिया | | | | | आराध्नुमः = आङ्+ राध् (राधँ सम्सिद्धौ) स्वादिः परस्मैपदी अकर्मकः लट्, ३.३ | समासाः, तद्धिताः, कृदन्ताः | | | | चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम् = चतुरस्य भावः, चातुर्यम्, चातुर्यस्य एकम् निधानम् क्.धा,६तत्, तस्य सीम ६तत्, सीमे स्थित चपलः अपाङः ७तत्, क.धा , तस्य छटा ६तत्, तेन मन्थरः ३तत्, तम् | लावण्य+अमृत-वीचि-लालित-दृशम् = लावण्यमिति अमृतम् स्म्भावना करमधारयः, तस्य वीची ६तत्, तेन लालितं दृक् यस्य सः बहुव्रीहिः, तम्.
| लक्ष्मी-कटाक्ष+आदृतम् = लक्ष्म्याः कटाक्षम् ६तत्, तेन आदृतम् ३तत्. | कालिन्दी-पुलिन- अङ्गण-प्रणयिनम् = कालिन्द्याः पुलिनम् ६तत्, पुलिनम् अङ्गणम् क्.धा, तस्मिन् प्रणयी ७तत्, तम् | कामावतार+अङ्कुरम् = कामस्य अवतारः ६तत्, तस्य अङ्कुरः ६तत्, तम् | मधुरिम-स्वाराज्यम् = स्वराजस्य भावः स्वारज्यम्, मधुरिमत् स्वाराज्यम् यस्य सः, उपमान बहुव्रीहिः, तम् |
|