Friday, January 31, 2025

Sri Krishna Karnamritam 1.06, 1.07, 1.08

                                                    



   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.०६॥

कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.०७॥

मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.०८॥
Meaning: 
1.06
May the lotus face of Bhagavān Śrīkṛṣṇa be forever growing in splendour in my mind, with His face blossoming like a lotus bud, constantly flowing with the nectarine sweet strains of His flute, and His tender cheeks shining like mirrors!
1.07
How I wish that even a little drop of the honeyed sweetness of Bhagavān Śrīkṛṣṇa's (Murārī) most innocent visage, with the resonant melodies of His flute emanating from His moon-like face, come and sweeten my own words!

1.08
May the glory of Bhagavān Śrīkṛṣṇa who wears a crown of feathers of proud peacocks, whose innocent lotus-like face invokes amorous love, as it is besmeared with collyrium of the Vraja ladies' eyes, take over my literary vocal outpouring!


व्याकरणांशाः
मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.०६॥
कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.०७॥
मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.०८॥
मुकुलायमान-नयन+अम्बुजम्, विभोः, मुरली-निनाद-मकरन्द-निर्भरम्, मुकुरायमाण-मृदु-गण्ड-मण्डलम्, मुख-पङ्कजम्, मनसि, मे, विजृम्भताम्, कमनीय-किशोर-मुग्धमूर्तेः, कल-वेणु-क्वणित+आदृत+आनन+इन्दोः, मम,वाचि, विजृम्भताम्, मुरारेः, मधुरिम्णः, कणिकापि, कापि, कापि, मद-शिखण्डि-शिखण्ड-विभूषणम्, मदन-मन्थर-मुग्ध-मुख+अबुजम्,व्रज-वधू-नयन+अञ्जअरञ्जितम्, विजयताम्, मम, वाक्+मय-जीवितम्
सन्धयः
नयन+अम्बुजम्, क्वणित+आदृत+आनन, कणिका+अपि, का+अपि,मुख+अबुजम्, नयन+अञ्जन = अकः सवर्णे दीर्घः
विभोः+मुरली= ससजुषो रुः
अम्बुजम्, मण्डलम्, विजृम्भताम्, रञ्जितम्, विजयताम्, विभूषणम् = मोऽनुस्वारः
मूर्तेः कल = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
आकाङ्क्षा-अन्वयः
विभोः मुकुलायमान-नयन+अम्बुजम् मुरली-निनाद-मकरन्द-निर्भरम् मुकुरायमाण-मृदु-गण्ड-मण्डलम् मुख-पङ्कजम् मे मनसि विजृम्भताम् | कमनीय-किशोर-मुग्धमूर्तेः कल-वेणु-क्वणित+आदृत+आनन+इन्दोः मुरारेः मधुरिम्णः कणिकापि कापि कापि मम वाचि विजृम्भताम् | मद-शिखण्डि-शिखण्ड-विभूषणम् मदन-मन्थर-मुग्ध-मुखा+अबुजम् व्रज-वधू-नयन+अञ्जन-रञ्जितम् मम वाक्+मय-जीवितम् विजयताम् ॥
May the lotus face of Bhagavān Śrīkṛṣṇa be forever growing in splendour in my mind, with His face blossoming like a lotus bud, constantly flowing with the nectarine sweet strains of His flute, and His tender cheeks shining like mirrors! How I wish that even a little drop of the honeyed sweetness of Bhagavān Śrīkṛṣṇa's (Murārī) most innocent visage, with the resonant melodies of His flute emanating from His moon-like face, come and sweeten my own words! May the glory of Bhagavān Śrīkṛṣṇa who wears a crown of feathers of proud peacocks, whose innocent lotus-like face invokes amorous love, as it is besmeared with collyrium of the Vraja ladies' eyes, take over my literary vocal outpouring!
सुबन्तप्रक्रिया
मुकुलायमान-नयन+अम्बुजम्, मुरली-निनाद-मकरन्द-निर्भरम्, मुकुरायमाण-मृदु-गण्ड-मण्डलम्, मद-शिखण्डि-शिखण्ड-विभूषणम्, मदन-मन्थर-मुग्ध-मुखा+अबुजम्, व्रज-वधू-नयन+अञ्जनरञ्जितम्, मुख-पङ्कजम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
विभोः = उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मनसि = स, नपुं, ७.१, ङि, वर्णमेलनम्
मे = अस्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य (अन्वादेशे)
कमनीय-किशोर-मुग्धमूर्तेः = इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कल-वेणु-क्वणित+आदृत+आनन+इन्दोः = उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, अतो गुणे
वाचि = वाच्, स्त्री, ७.१, ङि, वर्णमेलनम्
मुरारेः = इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मधुरिम्णः = मधुरिमन्, पुं, ६.१, ङस्, अल्लोपो नः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कणिका. का = आ, स्त्री, १.१, सुँ, हल्ङ्याभ्यो दिर्घात्सुतिस्यपृक्तं हल्
अपि = अव्ययम्
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, अतो गुणे
वाक्+मय-जीवितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
विजृम्भताम् = वि+जृम्भिँ गात्रविन्यासे, भ्वादिः, आत्मनेपदी, लोट्, १.१
विजयताम् = वि+जि अभिभावे, भ्वादिः, वि उपसर्गसहिते सति आत्मनेपदी भवति, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
मुकुलायमान-नयन+अम्बुजम् = नयनमबुजमिव उपमान क.धा, मुकुलाय, मतुप्. मुकुलायमानम् अम्बुजम् क.धा, यस्य तत् बहुव्रीहिः
मुरली-निनाद-मकरन्द-निर्भरम् = निर्भरः मकरन्दः क.धा, मुरल्याः निनादम् ६तत्, तदेव मकरन्दः अवधारणा क.धा., यस्य तत् बहुव्रीहिः
मुकुरायमाण-मृदु-गण्ड-मण्डलम् = मृदु गण्डः क.धा, तस्य मण्डलम् ६तत्, मुकुरायमाणं (मुकुरायते, शानच्) मण्डलम् क.धा, यस्य तत् बहुव्रीहिः
मुख-पङ्कजम् = मुखम् पङ्कजमिव उपमान क.धा
कमनीय-किशोर-मुग्धमूर्तेः = मुग्धा मूर्तिः क.धा, किशोरस्य मूर्तिः ६तत्, कमनीयं किशोरः क.धा
कल-वेणु-क्वणित+आदृत+आनन+इन्दोः= आननम् इन्दुरिव उपमान कर्मधारयः, वेणुना क्वणितम् ३तत्, तेन आदृतम् ३तत्, कलवेणुक्वणितम् क.धा, यस्य तत् अभुव्रीहिः
मुरारेः = मुरस्य अरिः, तस्य ६तत्.
मद-शिखण्डि-शिखण्ड-विभूषणम् = मदः शिखण्डी क.धा, तस्य शिखण्डः ६तत्, तत् विभूषणम् यस्य तत् बहुव्रीहिः
मदन-मन्थर-मुग्ध-मुख+अबुजम् = मुखमेव अम्बुजम् अवधारणाकर्मधारयः, मुग्धम् मुखम् क.धा, मदनेन मन्थरम् ३तत्, यस्य तत् बहुव्रीहिः
व्रज-वधू-नयन+अञ्जनरञ्जितम् = अञ्जनेन रञ्जितम् ३तत्, व्रजस्य वध्वः ६तत्, तासां नयनानि ६तत्, तासाम् अञ्जनम् ६तत्.
वाक्+मय-जीवितम् = वाच् मयट् तद्धितः, माङ्मयम् जीवितम् क.धा


॥ हरिः ॐ तत् सत् ॥