॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवाञ्शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥ १.०१ ॥
Meaning: Glory to my Guru Śrī Somagiri, who is the veritable wish-fulfilling gem! Glory too to Bhagavan Śrīkriṣṇa, the ultimate Preceptor of Truth to me, sporting His crown of peacock feathers! Indeed, His divine feet are the entwined heavenly wish-fulfilling creeper Kalpataru, sought dearly in her Svayaṃvara by the Goddess of Victory !!
Here the poet Līlāśuka begins by paying obeisance to his earthly Guru, Śrī Somagiri, who put him on the spiritual path. That has led him to realise the supreme Paramātmā Himself, Bhagavan Śrīkriṣṇa. His divine grace is the experience of the ultimate truth. Now, the poet says, in his ecstatic joy, that the Goddess of Victory is choosing him for his devotion to confer her grace, as he is surrendered to the Lord's feet. Those feet are the wish-fulfilling Kalpataru tree! In other words, the poet says that his devotion is giving him the here and the hereafter.
The word Cintāmaṇi used to describe the earthly Guru means that he grants his teaching and blessing unstintingly. The gem is a legendary one as one can ask anything of it and get it. There is also an implication here, according to some commentators, that Cintāmaṇi was the name of a courtesan whom Līlāśuka was besotted with and willing to give up his very life for. His intense dedication had a strange effect. The wanton woman became spiritual, and her self-abnegation opened his eyes and launched Līlāśuka on his spiritual quest!
व्याकरणांशाः |
चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे | | |
शिक्षागुरुश्च भगवाञ्शिखिपिञ्छमौलिः । | | |
यत्पादकल्पतरुपल्लवशेखरेषु | | |
लीलास्वयंवररसं लभते जयश्रीः ॥ १.०१ ॥ | | |
चिन्तामणिः, जयति, सोमगिरिः, गुरुः, मे, शिक्षागुरुः, च, भगवान्, शिखिपिञ्छमौलिः, यत्, पादकल्पतरुपल्लवशेखरेषु, लीलास्वयंवररसम्, लभते, जयश्रीः |
सन्धयः | | | | | |
चिन्तामणिः जयति = ससजुषो रुः । |
सोमगिरिः च = ससजुषो रुः । |
गुरुः मे = ससजुषो रुः । |
शिक्षागुरुः च = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि, स्तोः श्चुना श्चुः । |
भगवान् शिखिपिञ्छमौलिः = स्तोः श्चुना श्चुः । |
यत् पाद... = झला जशोऽन्ते & खरि च । |
आकाङ्क्षा-अन्वयः | | | | |
मे (मम), गुरुः, चिन्तामणिः, सोमगिरिः, जयति, यत्,पाद-पल्लव-पल्लवशेखरेषु, जयश्रीः, लीला-स्वयंवर-रसम्, लभते, शिक्षागुरुः, भगवान्, शिखि-पिञ्छ-मैलिः, च, जयति |
My teacher Somagiri, a veritable wish-fulfilling gem- may glory be to him! May glory be too to Him, whose feet are the veritable wish-fulfilling creeper cluster, in whome finds the goddess of success a ready mate in joy, the supreme Lord who sports a crown of peacock feathers! |
सुबन्तप्रक्रिया | | | | |
मे (मम) = अस्मद्, द सर्वनाम पुं, ६.१, ङस्, य्ष्मदस्मद्भ्यां ङसोऽश्, तवममौ ण्गसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य |
गुरुः, शिक्षागुरुः = गुरु, उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
चिन्तामणिः, सोमगिरिः, शिखिपिञ्छमौलिः = इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
यत्पादकल्पतरुपल्लवशेखरषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः |
जयश्रीः = ई, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
लीला-स्वयंवर-रसम् = अ, पुं, २.१, अम्, अमि पूर्वः |
भगवान् = त्, पुं, १.१, सुँ, अत्वन्तस्य चाधातोः, सर्वनाम्स्थाने चासम्बुद्धौ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याभ्यो दीर्घात्सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः |
च = अव्ययम् | | | | | |
तिङन्तप्रक्रिया | | | | |
जयति = जि जये, भ्वादिः,परस्मैपदी, अकर्मकः, लट्, , १.१ |
लभते = लभ् डुलभँश् प्राप्तौ, आत्मनेपदी, सकर्मकः, लट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
चिन्तामणिः = यच्चिन्तनदशात् कृतार्थोऽभूत्कविः । शिक्षायाः गुरुः ६तत् । |
शिखिपिञ्छमौलिः = शिखेः पिञ्छाः ६तत्, तेषां मौलिः यस्य सः, शष्ठी बहुव्रीहिः । |
यत्पादकल्पतरुपल्लवशेखरेषु = यस्य पादः कल्पतरुः एव -अवधारणोत्तरपदकर्मधारयः, तरोः पल्लवशेखराणि ६ तत्, तेषु |
लीलास्वयंवररसम् = लीलया स्वयंवरः = ३ त्स्त्, तस्य रसः, ६तत्, तम् । |
जयश्रीः = जयस्य श्रीः ६तत् । |