| व्याकरणांशाः |
बर्होत्तंसविलासि कुन्तलभरं माधुर्यमुग्धाननं | | | | | |
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् । | | | | | |
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं | | | | | |
ज्योतिश्चेतसिनश्चकास्तु जगतामेकाभिरामाध्भुतम् ॥ १.०४ ॥ | | | | | |
| बर्ह+उत्तंस-विलासि, कुन्तल-भरम्, माधुर्य-मुग्ध-आननम्, प्र+उत्+मीलन-यौवनम्, प्र-विलसत्+वेणु-प्रणाद+अमृतम्, आपीन-स्तन-कुड्मलाभिः,अभितः, गोपीभिः, आराधितम्, ज्योतिः, चेतसि, नः, चकास्तु, जगताम्, एक+अभिराम+अद्भुतम् |
| सन्धयः | | | | | |
| बर्ह+उत्तंस = आद्गुणः |
| मुग्ध+आननम्, प्रणाद+अमृतम्, एक+अभिराम, राम+अद्भुतम्= अकः सवर्णे दीर्घः |
| प्र+उत् = आद्गुणः |
| उत्+मीलन= यरोऽनुनस्सिकेऽनुनासिको वा |
| कुड्मलाभिः+अभितः, गोपीभिः+आराधितम्= ससजुषो रुः |
| ज्योतिः+चेतसि, नः+चकास्तु = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः |
| आकाङ्क्षा-अन्वयः | | | | |
| बर्ह+उत्तंस-विलासि कुन्तल-भरम् माधुर्य-मुग्ध-आननम् प्र+उत्+मीलन-यौवनम् प्र-विलसत्+वेणु-प्रणाद+अमृतम् आपीन-स्तन-कुड्मलाभिःअभितः गोपीभिः आराधितम् जगताम् एक+अभिराम+अद्भुतम् ज्योतिः नः चेतसि चकास्तु । |
| Wearing a crown of peacock feathers on luscious locks of hair; its face sweet innocence personified; oozing nascent adolescent youth; rejoicing in its own bewitching flute music; surrounded by Gopis with budding youthful bosoms in ardent worship; this phenomenon is the only worthwhile experience of delight in this world! I pray that this divine luminescence penetrates our minds and lights up our beings! |
| सुबन्तप्रक्रिया | | | | | |
| बर्ह+उत्तंस-विलासि = नकारान्त नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य । |
| कुन्तल-भरम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः । |
| माधुर्य-मुग्ध-आननम् =अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः । |
| प्र+उत्+मीलन-यौवनम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः । |
| प्र-विलसत्+वेणु-प्रणाद+अमृतम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः । |
| आपीन-स्तन-कुड्मलाभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| अभितः = अव्ययम् |
| गोपीभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| आराधितम् =अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः । |
| ज्योतिः = सकारान्त नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः । |
| चेतसि = सकारान्त नपुं, ७.१, ङि, वर्णमेलनम् |
| नः = अस्मद्, पुं, ६.३, आम्, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| जगताम् = त्, नपुं, ६.३, आम्, वर्णमेलनम् |
| एक+अभिराम+अद्भुतम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः । |
| तिङन्तप्रक्रिया | | | | |
| चकास्तु = चकास्, अदादिः, परस्मैपदी, अकर्मकः, लोट्, १.१ |
| समासाः, तद्धिताः, कृदन्ताः | | | |
| बर्ह+उत्तंस-विलासि = बर्हेण उत्तंसम् ३तत्, अत्तंसम् विलासि क.धा |
| कुन्तल-भरम् = कुन्तलेन भरम् (शिरः), ३तत् |
| माधुर्य-मुग्ध-आननम् =माधुर्यम् च मुग्धम् च द्वन्द्वः, माधुर्यमुग्धम् आननम् क.धा |
| प्र+उत्+मीलन-यौवनम् = प्रक्रिष्टेन उन्मीलनम् प्रादि, उन्मीलनम् यौवनम् क.धा |
| प्र-विलसत्+वेणु-प्रणाद+अमृतम् = प्रकृष्टेन विलसत् प्रादिः, वेणोः प्रणादः ६तत्, प्रविलन् वेणुप्रणादः क.धा, वेणुनादः अमृतम्स एव सम्भावनोत्तरपदक.धा |
| आपीन-स्तन-कुड्मलाभिः = आपीनश्च स्तनश्च् क.धा, स्तनस्य कुड्मलः ६तत्, कुड्मलाः यासाम् ताभिः बहुव्रीहिः |
| एक+अभिराम+अद्भुतम् = एकः अभिरामः क.धा, अभिरामम् अद्भुतम्, क.धा |