Friday, January 31, 2025

Sri Krishna Karnamritam 1.06, 1.07, 1.08

                                                    



   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.०६॥

कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.०७॥

मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.०८॥
Meaning: 
1.06
May the lotus face of Bhagavān Śrīkṛṣṇa be forever growing in splendour in my mind, with His face blossoming like a lotus bud, constantly flowing with the nectarine sweet strains of His flute, and His tender cheeks shining like mirrors!
1.07
How I wish that even a little drop of the honeyed sweetness of Bhagavān Śrīkṛṣṇa's (Murārī) most innocent visage, with the resonant melodies of His flute emanating from His moon-like face, come and sweeten my own words!

1.08
May the glory of Bhagavān Śrīkṛṣṇa who wears a crown of feathers of proud peacocks, whose innocent lotus-like face invokes amorous love, as it is besmeared with collyrium of the Vraja ladies' eyes, take over my literary vocal outpouring!


व्याकरणांशाः
मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.०६॥
कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.०७॥
मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.०८॥
मुकुलायमान-नयन+अम्बुजम्, विभोः, मुरली-निनाद-मकरन्द-निर्भरम्, मुकुरायमाण-मृदु-गण्ड-मण्डलम्, मुख-पङ्कजम्, मनसि, मे, विजृम्भताम्, कमनीय-किशोर-मुग्धमूर्तेः, कल-वेणु-क्वणित+आदृत+आनन+इन्दोः, मम,वाचि, विजृम्भताम्, मुरारेः, मधुरिम्णः, कणिकापि, कापि, कापि, मद-शिखण्डि-शिखण्ड-विभूषणम्, मदन-मन्थर-मुग्ध-मुख+अबुजम्,व्रज-वधू-नयन+अञ्जअरञ्जितम्, विजयताम्, मम, वाक्+मय-जीवितम्
सन्धयः
नयन+अम्बुजम्, क्वणित+आदृत+आनन, कणिका+अपि, का+अपि,मुख+अबुजम्, नयन+अञ्जन = अकः सवर्णे दीर्घः
विभोः+मुरली= ससजुषो रुः
अम्बुजम्, मण्डलम्, विजृम्भताम्, रञ्जितम्, विजयताम्, विभूषणम् = मोऽनुस्वारः
मूर्तेः कल = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
आकाङ्क्षा-अन्वयः
विभोः मुकुलायमान-नयन+अम्बुजम् मुरली-निनाद-मकरन्द-निर्भरम् मुकुरायमाण-मृदु-गण्ड-मण्डलम् मुख-पङ्कजम् मे मनसि विजृम्भताम् | कमनीय-किशोर-मुग्धमूर्तेः कल-वेणु-क्वणित+आदृत+आनन+इन्दोः मुरारेः मधुरिम्णः कणिकापि कापि कापि मम वाचि विजृम्भताम् | मद-शिखण्डि-शिखण्ड-विभूषणम् मदन-मन्थर-मुग्ध-मुखा+अबुजम् व्रज-वधू-नयन+अञ्जन-रञ्जितम् मम वाक्+मय-जीवितम् विजयताम् ॥
May the lotus face of Bhagavān Śrīkṛṣṇa be forever growing in splendour in my mind, with His face blossoming like a lotus bud, constantly flowing with the nectarine sweet strains of His flute, and His tender cheeks shining like mirrors! How I wish that even a little drop of the honeyed sweetness of Bhagavān Śrīkṛṣṇa's (Murārī) most innocent visage, with the resonant melodies of His flute emanating from His moon-like face, come and sweeten my own words! May the glory of Bhagavān Śrīkṛṣṇa who wears a crown of feathers of proud peacocks, whose innocent lotus-like face invokes amorous love, as it is besmeared with collyrium of the Vraja ladies' eyes, take over my literary vocal outpouring!
सुबन्तप्रक्रिया
मुकुलायमान-नयन+अम्बुजम्, मुरली-निनाद-मकरन्द-निर्भरम्, मुकुरायमाण-मृदु-गण्ड-मण्डलम्, मद-शिखण्डि-शिखण्ड-विभूषणम्, मदन-मन्थर-मुग्ध-मुखा+अबुजम्, व्रज-वधू-नयन+अञ्जनरञ्जितम्, मुख-पङ्कजम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
विभोः = उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मनसि = स, नपुं, ७.१, ङि, वर्णमेलनम्
मे = अस्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य (अन्वादेशे)
कमनीय-किशोर-मुग्धमूर्तेः = इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कल-वेणु-क्वणित+आदृत+आनन+इन्दोः = उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, अतो गुणे
वाचि = वाच्, स्त्री, ७.१, ङि, वर्णमेलनम्
मुरारेः = इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मधुरिम्णः = मधुरिमन्, पुं, ६.१, ङस्, अल्लोपो नः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कणिका. का = आ, स्त्री, १.१, सुँ, हल्ङ्याभ्यो दिर्घात्सुतिस्यपृक्तं हल्
अपि = अव्ययम्
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, अतो गुणे
वाक्+मय-जीवितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
विजृम्भताम् = वि+जृम्भिँ गात्रविन्यासे, भ्वादिः, आत्मनेपदी, लोट्, १.१
विजयताम् = वि+जि अभिभावे, भ्वादिः, वि उपसर्गसहिते सति आत्मनेपदी भवति, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
मुकुलायमान-नयन+अम्बुजम् = नयनमबुजमिव उपमान क.धा, मुकुलाय, मतुप्. मुकुलायमानम् अम्बुजम् क.धा, यस्य तत् बहुव्रीहिः
मुरली-निनाद-मकरन्द-निर्भरम् = निर्भरः मकरन्दः क.धा, मुरल्याः निनादम् ६तत्, तदेव मकरन्दः अवधारणा क.धा., यस्य तत् बहुव्रीहिः
मुकुरायमाण-मृदु-गण्ड-मण्डलम् = मृदु गण्डः क.धा, तस्य मण्डलम् ६तत्, मुकुरायमाणं (मुकुरायते, शानच्) मण्डलम् क.धा, यस्य तत् बहुव्रीहिः
मुख-पङ्कजम् = मुखम् पङ्कजमिव उपमान क.धा
कमनीय-किशोर-मुग्धमूर्तेः = मुग्धा मूर्तिः क.धा, किशोरस्य मूर्तिः ६तत्, कमनीयं किशोरः क.धा
कल-वेणु-क्वणित+आदृत+आनन+इन्दोः= आननम् इन्दुरिव उपमान कर्मधारयः, वेणुना क्वणितम् ३तत्, तेन आदृतम् ३तत्, कलवेणुक्वणितम् क.धा, यस्य तत् अभुव्रीहिः
मुरारेः = मुरस्य अरिः, तस्य ६तत्.
मद-शिखण्डि-शिखण्ड-विभूषणम् = मदः शिखण्डी क.धा, तस्य शिखण्डः ६तत्, तत् विभूषणम् यस्य तत् बहुव्रीहिः
मदन-मन्थर-मुग्ध-मुख+अबुजम् = मुखमेव अम्बुजम् अवधारणाकर्मधारयः, मुग्धम् मुखम् क.धा, मदनेन मन्थरम् ३तत्, यस्य तत् बहुव्रीहिः
व्रज-वधू-नयन+अञ्जनरञ्जितम् = अञ्जनेन रञ्जितम् ३तत्, व्रजस्य वध्वः ६तत्, तासां नयनानि ६तत्, तासाम् अञ्जनम् ६तत्.
वाक्+मय-जीवितम् = वाच् मयट् तद्धितः, माङ्मयम् जीवितम् क.धा


॥ हरिः ॐ तत् सत् ॥





Thursday, January 30, 2025

Sri Krishna Karnamritam 1.05



   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

मधुरतरस्मिताऽमृतविमुग्धमुखाम्बुरुहं 
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।   
विषयविषामिषग्रसनगृध्नुनि चेतसि मे  
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.०५ ॥
Meaning: An exceedingly sweet smile causing a nectarine effect of innocence in that lotus-like face, that feather of a peacock swollen with the pride of its beauty marking that copious cluster of dark hair, big-eyed, this phenomenal being lights up forever my mind otherwise addicted to sensual attractions that are like poisoned meat!

The true antidote to the excesses of sense temptations is the contemplation of the ethereal beauty of Bhagavān Śrīkṛṣṇa- innocence, beauty, charm and love combined. The most adorable baby boy ever!

व्याकरणांशाः
मधुरतरस्मिताऽमृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।
विषयविषामिषग्रसनगृध्नुनि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.०५ ॥
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम्, मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम्, विषय-विष+आमिष-ग्रसन-गृध्नुनि, चेतसि, मे, विपुल-विलोचनम्, किम्+अपि, धाम, चकास्ति, चिरम्
सन्धयः
स्मित+अमृत, मुख+अम्बुरुहम्, विष+आमिष = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम् मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम् विपुल-विलोचनम् किम्+अपि धाम मे विषय-विष+आमिष-ग्रसन-गृध्नुनि चेतसि चिरम् चकास्ति
Exceedingly sweet smile causing a nectarine effect of innocence in that lotus-like face, that feather of a peacock swollen with the pride of its beauty marking that copious cluster of dark hair, big-eyed,  this phenomenal being lights up forever my mind otherwise addicted to sensual attractions that are like poisoned meat!
सुबन्तप्रक्रिया
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम्, मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम्, विपुल-विलोचनम् = अ, नपुं, १.१, सुँ, अतोऽम्,अमि पूर्वः
विषय-विष+आमिष-ग्रसन-गृध्नुनि = गृध्नु, उ, नपुं, ७.१, ङि, इकोऽचि विभक्तौ (नुमागमः)
चेतसि = चेतस्, नपुं, ७.१, ङि, वर्णमेलन
मे = अस्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य (अन्वादेशे)
किम् = मकारान्त सर्वनाम, नपुं, सुँ, स्वमोर्नपुंसकात्
धाम = नकारान्त, धामन्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिनकान्तस्य
चिरम् = अव्ययम्
तिङन्तप्रक्रिया
चकास्ति = चकास्, अदादिः, परस्मैपदी, अकर्मकः, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
मधुर-तर-स्मित+अमृत-विमुग्ध-मुख+अम्बुरुहम्= मधुरतर( तरप् तद्धितः), तरम् स्मितम् क.धा, अमृतमिव विमुग्धम् उपमान क.धा, मुखम् अम्बुरुहममिव ौपमानोत्तरपद क.धा, यस्य तत् बहुव्रीहिः
मद-शिखि-पिञ्छ-लाञ्छित-मनोज्ञ-कच-प्रचयम्= मदः शिखी क.धा, तस्य पिञ्छम् ६तत्, तेन लाञ्छितम् ३तत्, मनोज्ञम् कचस्य प्रत्ययम्६तत्+क.धा,, यस्य तत् = बहुव्रीहिः
विपुल-विलोचनम् =विपुलम् विलोचनम् क.धा, यस्य तत् बहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥




Wednesday, January 29, 2025

Sri Krishna Karnamritam 1.04



   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

बर्होत्तंसविलासि कुन्तलभरं माधुर्यमुग्धाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसिनश्चकास्तु जगतामेकाभिरामाद्भुतम् ॥ १.०४ ॥
Meaning: Wearing a crown of peacock feathers on luscious locks of hair; its face sweet innocence personified; oozing nascent adolescent youth; rejoicing in its own bewitching flute music; surrounded by Gopis with budding youthful bosoms in ardent worship; this phenomenon is the only worthwhile experience of delight in this world! I pray that this divine luminescence penetrates our minds and lights up our beings!

I am beginning to see how Līlāśuka describes Bhagavān Śrīkṛṣṇa not as a youth but a youthful presence, not an amorous male but amorousness itself, and so on. A vision so dazzling and captivating and delightful is no longer seen as a person but a phenomenon!

व्याकरणांशाः
बर्होत्तंसविलासि कुन्तलभरं माधुर्यमुग्धाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसिनश्चकास्तु जगतामेकाभिरामाध्भुतम् ॥ १.०४ ॥
बर्ह+उत्तंस-विलासि, कुन्तल-भरम्, माधुर्य-मुग्ध-आननम्, प्र+उत्+मीलन-यौवनम्, प्र-विलसत्+वेणु-प्रणाद+अमृतम्, आपीन-स्तन-कुड्मलाभिः,अभितः, गोपीभिः, आराधितम्, ज्योतिः, चेतसि, नः, चकास्तु, जगताम्, एक+अभिराम+अद्भुतम्
सन्धयः
बर्ह+उत्तंस = आद्गुणः
मुग्ध+आननम्, प्रणाद+अमृतम्, एक+अभिराम, राम+अद्भुतम्= अकः सवर्णे दीर्घः
प्र+उत् = आद्गुणः
उत्+मीलन= यरोऽनुनस्सिकेऽनुनासिको वा
कुड्मलाभिः+अभितः, गोपीभिः+आराधितम्= ससजुषो रुः
ज्योतिः+चेतसि, नः+चकास्तु = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
बर्ह+उत्तंस-विलासि कुन्तल-भरम् माधुर्य-मुग्ध-आननम् प्र+उत्+मीलन-यौवनम् प्र-विलसत्+वेणु-प्रणाद+अमृतम् आपीन-स्तन-कुड्मलाभिःअभितः गोपीभिः आराधितम् जगताम् एक+अभिराम+अद्भुतम् ज्योतिः नः चेतसि चकास्तु ।
Wearing a crown of peacock feathers on luscious locks of hair; its face sweet innocence personified; oozing nascent adolescent youth; rejoicing in its own bewitching flute music; surrounded by Gopis with budding youthful bosoms in ardent worship; this phenomenon is the only worthwhile experience of delight in this world! I pray that this divine luminescence penetrates our minds and lights up our beings!
सुबन्तप्रक्रिया
बर्ह+उत्तंस-विलासि = नकारान्त नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य ।
कुन्तल-भरम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
माधुर्य-मुग्ध-आननम् =अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
प्र+उत्+मीलन-यौवनम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
प्र-विलसत्+वेणु-प्रणाद+अमृतम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
आपीन-स्तन-कुड्मलाभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अभितः = अव्ययम्
गोपीभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आराधितम् =अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
ज्योतिः = सकारान्त नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः ।
चेतसि = सकारान्त नपुं, ७.१, ङि, वर्णमेलनम्
नः = अस्मद्, पुं, ६.३, आम्, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जगताम् = त्, नपुं, ६.३, आम्, वर्णमेलनम्
एक+अभिराम+अद्भुतम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
तिङन्तप्रक्रिया
चकास्तु = चकास्, अदादिः, परस्मैपदी, अकर्मकः, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
बर्ह+उत्तंस-विलासि = बर्हेण उत्तंसम् ३तत्, अत्तंसम् विलासि क.धा
कुन्तल-भरम् = कुन्तलेन भरम् (शिरः), ३तत्
माधुर्य-मुग्ध-आननम् =माधुर्यम् च मुग्धम् च द्वन्द्वः, माधुर्यमुग्धम् आननम् क.धा
प्र+उत्+मीलन-यौवनम् = प्रक्रिष्टेन उन्मीलनम् प्रादि, उन्मीलनम् यौवनम् क.धा
प्र-विलसत्+वेणु-प्रणाद+अमृतम् = प्रकृष्टेन विलसत् प्रादिः, वेणोः प्रणादः ६तत्, प्रविलन् वेणुप्रणादः क.धा, वेणुनादः अमृतम्स एव सम्भावनोत्तरपदक.धा
आपीन-स्तन-कुड्मलाभिः = आपीनश्च स्तनश्च् क.धा, स्तनस्य कुड्मलः ६तत्, कुड्मलाः यासाम् ताभिः बहुव्रीहिः
एक+अभिराम+अद्भुतम् = एकः अभिरामः क.धा, अभिरामम् अद्भुतम्, क.धा


॥ हरिः ॐ तत् सत् ॥


Tuesday, January 28, 2025

Sri Krishna Karnamritam 1.03





   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

चातुर्यैकनिधानसीमचपलापाङ्गच्छटामन्थरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटाक्षादृतम् ।      
कालिन्दीपुलिनाङ्गणप्रणयिनङ्कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥  १.०३ ॥    

Meaning: Verily the storehouse of cleverness, lowering with darting sidelong glances,  whose eyes bespeak nectarine attractiveness rising in waves, who is worshipped by the goddess of beauty herself; who sports on the sandy bank of the river Kālindī (Yamunā) as the incarnate tender shoot of amorousness; such a one, this dark-hued boy Śrīkṛṣṇa, we earthlings all adore as the supreme monarch of the kingdom of sweet beauty. 

Līlāśuka paints a picture of beauty and attractiveness, sweetness, divine, irresistible, and finally instilling in everyone the deepest devotion. 

व्याकरणांशाः
चातुर्यैकनिधानसीमचपलापाङ्गच्छटामन्थरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटाक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनङ्कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.०३ ॥
चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम्, लावण्य+अमृत-वीचि-लालित-दृशं लक्ष्मी-कटाक्ष+आदृतम्, कालिन्दी-पुलिन+अङ्गअप्रणयिनम्, काम+अवतार+अङ्कुरम्, बालम्, नीलम्, अमी, वयम्, मधुरिम-स्वाराज्यम्, आराध्नुमः
सन्धयः
मन्थरम्, दृशम्, अङ्कुरम्, बालम्, वयम् = मोऽनुस्व्रारः ।
चातुर्य+एक = वृद्धिरेचि ।
अपाङ-छटा = छे च ।
लावण्य+अमृत, कटाक्ष+आदृतम्, पुलिन+अङ्गण, काम+अवतार, अवतार+अङ्कुरम्= अकः सवर्णे दीर्घः ।
आकाङ्क्षा-अन्वयः
चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम् लावण्य+अमृत-वीचि-लालित-दृशं लक्ष्मी-कटाक्ष+आदृतम् कालिन्दी-पुलिन+अङ्गअप्रणयिनम् कामावतार+अङ्कुरम् बालम् नीलम् अमी वयम् मधुरिम-स्वाराज्यम् आराध्नुमः
Verily the storehouse of cleverness, lowering with darting sidelong glances, whose eyes bespeak of nectarine attractiveness rising in waves, who is worshipped by the goddess of beauty herself; who sports on the sandy bank of the river Kālindī ( Yamunā) as the incarnate tender shoot of amorousness; such a one, this dark-hued boy Śrīkṛṣṇa, we earthlings all adore as the supreme monarch of the kingdom of sweet beauty.
सुबन्तप्रक्रिया
चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम् = अ, पुं, २.१, अम्, अमि पूर्वः
लावण्य+अमृत-वीचि-लालित-दृशं लक्ष्मी-कटाक्ष+आदृतम् = अ, पुं, २.१, अम्, अमि पूर्वः
कालिन्दी-पुलिन+अङ्गअप्रणयिनम् = अ, पुं, २.१, अम्, अमि पूर्वः
कामावतार+अङ्कुरम् = अ, पुं, २.१, अम्, अमि पूर्वः
बालम् = अ, पुं, २.१, अम्, अमि पूर्वः
नीलम् = अ, पुं, २.१, अम्, अमि पूर्वः
मधुरिम-स्वाराज्यम् = = अ, पुं, २.१, अम्, अमि पूर्वः
अमी = अदस्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः, अदसोऽसेर्दादु दो मः, एत ईद्बहुवचने
वयम् = अस्मद्, पुं, १.३, ङेप्रथमयोरम्, यूयवयौ जसि, अतो गुणे, शेषे लोपः, अमि पूर्वः
तिङन्तप्रक्रिया
आराध्नुमः = आङ्+ राध् (राधँ सम्सिद्धौ) स्वादिः परस्मैपदी अकर्मकः लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
चातुर्य+एक-निधान-सीम-चपल-अपाङ-छटा-मन्थरम् = चतुरस्य भावः, चातुर्यम्, चातुर्यस्य एकम् निधानम् क्.धा,६तत्, तस्य सीम ६तत्, सीमे स्थित चपलः अपाङः ७तत्, क.धा , तस्य छटा ६तत्, तेन मन्थरः ३तत्, तम्
लावण्य+अमृत-वीचि-लालित-दृशम् = लावण्यमिति अमृतम् स्म्भावना करमधारयः, तस्य वीची ६तत्, तेन लालितं दृक् यस्य सः बहुव्रीहिः, तम्.
लक्ष्मी-कटाक्ष+आदृतम् = लक्ष्म्याः कटाक्षम् ६तत्, तेन आदृतम् ३तत्.
कालिन्दी-पुलिन- अङ्गण-प्रणयिनम् = कालिन्द्याः पुलिनम् ६तत्, पुलिनम् अङ्गणम् क्.धा, तस्मिन् प्रणयी ७तत्, तम्
कामावतार+अङ्कुरम् = कामस्य अवतारः ६तत्, तस्य अङ्कुरः ६तत्, तम्
मधुरिम-स्वाराज्यम् = स्वराजस्य भावः स्वारज्यम्, मधुरिमत् स्वाराज्यम् यस्य सः, उपमान बहुव्रीहिः, तम्

॥ हरिः ॐ तत् सत् ॥


Monday, January 27, 2025

Sri Krishna Karnamritam 1.02


   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं  
    वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं     
           हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥  १.०२ ॥    

Meaning: Witness this "phenomenon" that is perceivable as being showered with divine flowers dropped down by the delicate palms of celestial damsels, whilst it is immersed in ethereal ecstasy listening to the strains of its own flute playing; we now see thousands of Gopis surrounding this divinity, dancing to its music, hardly able to restrain their skirt strings from loosening during their gyrations. And this "phenomenon" bestows liberation freely to those surrendered to "it" in an all-encompassing munificence. And this phenomenon is apparently a young form!

Līlāśuka is lost in this vision and struggles to describe this phenomenon of a young Śrīkṛṣṇa playing His divine melody on the flute, with celestial damsels showering flowers, Gopis dancing in abandon, and the Lord granting liberation freely to those surrendered to Him! This is indeed Madhura Bhakti.

व्याकरणांशाः
अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.०२ ॥
अस्ति, स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्, वस्तु, प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम्, स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम्, हस्त-न्यस्त-नतापवर्गम्, अखिलोदारम्, किशोराकृति
॥ १.०२ ॥
गुरुः मे = ससजुषो रुः ।
शिक्षागुरुः च = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि, स्तोः श्चुना श्चुः ।
भगवान् शिखिपिञ्छमौलिः = स्तोः श्चुना श्चुः ।
यत् पाद... = झला जशोऽन्ते & खरि च ।
आकाङ्क्षा-अन्वयः
स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्, प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम्, स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम्, हस्त-न्यस्त-नतापवर्गम्, अखिलोदारम्, किशोराकृति, वस्तु, अस्ति
This "phenomenon" is perceivable as being showered with divine flowers dropped down by the delicate palms of celestial damsels, whilst it is immersed in ethereal ecstasy listening to the strains of its own flute playing; we now see thousands of Gopis surrounding this divinity, dancing to its music, hardly able to restrain their skirt strings from loosening during their gyrations. And this "phenomenon" bestows liberation freely to those surrendered to "it" in an all-encompassing munificence. And this phenomenon is apparently a young form!
सुबन्तप्रक्रिया
स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
हस्त-न्यस्त-नतापवर्गम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
अखिलोदारम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
किशोराकृति = इ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
वस्तु = उ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
तिङन्तप्रक्रिया
अस्ति = असँभुवि, अदादिः, परस्मैपदी, अकर्मकः, कर्तरि लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
स्वस्तरुणी-कराग्र-विगलत्कल्पप्रसूनाप्लुतम्= स्वसः (स्वर्गस्य) तरुण्यः ६तत्, तासां करौ ६तत्, करस्य अग्रम् ६तत्, तेषां विगलतः प्रसूनाः ६तत्/क.धा, तेन आप्लुतम् ३तत्
प्रस्तुत-वेणुनाद-लहरी-निर्वाण-निर्व्याकुलम् = प्रस्तुतः वेणुनादः क.धा, तस्य लहरी ६अतत्, तया (निर्वाणम् निर्व्याकुलम् क.धा, नञ्) ३तत्
स्रस्त-स्रस्त-निरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम् = स्रस्ता स्रस्ता निरुद्धा नीवी क.धा. तया विलसन्त्यः गोप्यः ३तत्/क्.धा, सहस्राः गोप्यः क.धा, ताभिः आवृतम्
हस्त-न्यस्त-नतापवर्गम् = हस्तेन न्यस्तम् ३ तत्, नतेभ्यः न्यस्तम् अपवर्गम् ४तत्/ क.धा. , न्यस्तम् एन तत् ३बहुव्रीहिः
अखिलोदारम् = अखिलानां उदारम् ६तत्.
किशोराकृति = किशोरम् आकृति क.धा

॥ हरिः ॐ तत् सत् ॥






Sunday, January 26, 2025

Sri Krishna Karnamritam - 1.01





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे 
    शिक्षागुरुश्च भगवाञ्शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु 
           लीलास्वयंवररसं लभते जयश्रीः   ॥  १.०१ ॥    

Meaning: Glory to my Guru Śrī Somagiri, who is the veritable wish-fulfilling gem! Glory too to Bhagavan Śrīkriṣṇa, the ultimate Preceptor of Truth to me, sporting His crown of peacock feathers! Indeed, His divine feet are the entwined heavenly wish-fulfilling creeper Kalpataru, sought dearly in her Svayaṃvara by the Goddess of Victory !!

Here the poet Līlāśuka begins by paying obeisance to his earthly Guru,  Śrī Somagiri, who put him on the spiritual path. That has led him to realise the supreme Paramātmā Himself, Bhagavan Śrīkriṣṇa. His divine grace is the experience of the ultimate truth. Now, the poet says, in his ecstatic joy, that the Goddess of Victory is choosing him for his devotion to confer her grace, as he is surrendered to the Lord's feet. Those feet are the wish-fulfilling Kalpataru tree! In other words, the poet says that his devotion is giving him the here and the hereafter.

The word Cintāmaṇi used to describe the earthly Guru means that he grants his teaching and blessing unstintingly. The gem is a legendary one as one can ask anything of it and get it. There is also an implication here, according to some commentators, that Cintāmaṇi was the name of a courtesan whom Līlāśuka was besotted with and willing to give up his very life for. His intense dedication had a strange effect. The wanton woman became spiritual, and her self-abnegation opened his eyes and launched  Līlāśuka on his spiritual quest! 

व्याकरणांशाः
चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवाञ्शिखिपिञ्छमौलिः ।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः ॥ १.०१ ॥
चिन्तामणिः, जयति, सोमगिरिः, गुरुः, मे, शिक्षागुरुः, च, भगवान्, शिखिपिञ्छमौलिः, यत्, पादकल्पतरुपल्लवशेखरेषु, लीलास्वयंवररसम्, लभते, जयश्रीः
सन्धयः
चिन्तामणिः जयति = ससजुषो रुः ।
सोमगिरिः च = ससजुषो रुः ।
गुरुः मे = ससजुषो रुः ।
शिक्षागुरुः च = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि, स्तोः श्चुना श्चुः ।
भगवान् शिखिपिञ्छमौलिः = स्तोः श्चुना श्चुः ।
यत् पाद... = झला जशोऽन्ते & खरि च ।
आकाङ्क्षा-अन्वयः
मे (मम), गुरुः, चिन्तामणिः, सोमगिरिः, जयति, यत्,पाद-पल्लव-पल्लवशेखरेषु, जयश्रीः, लीला-स्वयंवर-रसम्, लभते, शिक्षागुरुः, भगवान्, शिखि-पिञ्छ-मैलिः, च, जयति
My teacher Somagiri, a veritable wish-fulfilling gem- may glory be to him! May glory be too to Him, whose feet are the veritable wish-fulfilling creeper cluster, in whome finds the goddess of success a ready mate in joy, the supreme Lord who sports a crown of peacock feathers!
सुबन्तप्रक्रिया
मे (मम) = अस्मद्, द सर्वनाम पुं, ६.१, ङस्, य्ष्मदस्मद्भ्यां ङसोऽश्, तवममौ ण्गसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
गुरुः, शिक्षागुरुः = गुरु, उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
चिन्तामणिः, सोमगिरिः, शिखिपिञ्छमौलिः = इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यत्पादकल्पतरुपल्लवशेखरषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
जयश्रीः = ई, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
लीला-स्वयंवर-रसम् = अ, पुं, २.१, अम्, अमि पूर्वः
भगवान् = त्, पुं, १.१, सुँ, अत्वन्तस्य चाधातोः, सर्वनाम्स्थाने चासम्बुद्धौ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याभ्यो दीर्घात्सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
च = अव्ययम्
तिङन्तप्रक्रिया
जयति = जि जये, भ्वादिः,परस्मैपदी, अकर्मकः, लट्, , १.१
लभते = लभ् डुलभँश् प्राप्तौ, आत्मनेपदी, सकर्मकः, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
चिन्तामणिः = यच्चिन्तनदशात् कृतार्थोऽभूत्कविः । शिक्षायाः गुरुः ६तत् ।
शिखिपिञ्छमौलिः = शिखेः पिञ्छाः ६तत्, तेषां मौलिः यस्य सः, शष्ठी बहुव्रीहिः ।
यत्पादकल्पतरुपल्लवशेखरेषु = यस्य पादः कल्पतरुः एव -अवधारणोत्तरपदकर्मधारयः, तरोः पल्लवशेखराणि ६ तत्, तेषु
लीलास्वयंवररसम् = लीलया स्वयंवरः = ३ त्स्त्, तस्य रसः, ६तत्, तम् ।
जयश्रीः = जयस्य श्रीः ६तत् ।



॥ हरिः ॐ तत् सत् ॥