॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
पशुपालबालपरिषद्विभूषणः
शिशुरेष शीतलविलोललोचनः।
मृदुलस्मितार्द्रवदनेन्दुसंपदा
मदयन्मदीयहृदयं विगाहते ॥ १.७० ॥
Meaning: This urchin - Bhagavān Ṣrīkṛṣṇa - the ornament adorning the assembly of Gopa boys tending the cattle, His eyes casting cool looks, His gentle smile drenching His moon-like face casting its radiance, stimulates my heart as He dips into it!
व्याकरणांशाः |
| | | | | |
| | | | | |
मृदुलस्मितार्द्रवदनेन्दुसंपदा | | | | | |
मदयन्मदीयहृदयं विगाहते ॥ १.७० ॥ | | | | | |
पशु-पाल-बाल-परिषद्+विभूषणः, शिशुः+एषः, शीतल-विलोल-लोचनः, मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा, मदयन्+मदीय-हृदयम्, विगाहते |
सन्धयः | | | | | |
परिषद्+विभूषणः= झलां जशोऽन्ते |
शिशुः+एषः = ससजुषो रुः |
एषः+शीतल = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & एतत्तदोः सुलोपोऽकोरनञ्समासे हलि |
स्मित+आर्द्र = अकः सवर्णे दीर्घः |
पशु-पाल-बाल-परिषद्+विभूषणः, शिशुः+एषः, शीतल-विलोल-लोचनः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः |
मदयन्+मदीय-हृदयम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
एषः पशु-पाल-बाल-परिषद्+विभूषणः शीतल-विलोल-लोचनः शिशुः मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा मदयन्+मदीय-हृदयम् विगाहते |
This urchin - Bhagavān Ṣrīkṛṣṇa - the ornament adorning the assembly of Gopa boys tending the cattle, His eyes casting cool looks, His gentle smile drenching His moon-like face casting its radiance, stimulates my heart as He dips into it! |
सुबन्तप्रक्रिया | | | | | |
पशु-पाल-बाल-परिषद्+विभूषणः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
शिशुः = उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
एषः = एतद्, पुं, १.१, सुँ, तदोः सः सावनन्त्ययोः, त्यदादीनामः, अतो गुणे, ससजुषो रुः, खरवसानयोर्विसर्जनीयः, आदेशप्रत्यययोः |
शीतल-विलोल-लोचनः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा = द्, स्त्री, ३.१, टा, वर्णमेलनम् |
मदयन् = त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः |
मदीय-हृदयम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पुर्वः |
तिङन्तप्रक्रिया | | | | |
विगाहते = वि+गाहूँ विलोडने, भ्वादिः आत्मनेपदी, लट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
पशु-पाल-बाल-परिषद्+विभूषणः = पशून् पालयन्ति पशुपालाः उपपद, पालाः बालाः क.धा, तेषां परिषद् ६तत्, परिषदः विभूषणः ६तत् |
शीतल-विलोल-लोचनः= शीतलं विलोलं लोचनं यस्य सः, समानाधिकरणबहुव्रीहिः |
मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा = मृदुलं स्मितम् क.धा, स्मितेन आर्द्रं वदनं (क.धा) ३तत्, वदनमिन्दुरिव उपमान क.धा, तस्य संपद् ६तत्, तया |
मदयन् = मदयति शतृ कृदन्तः |
मदीय-हृदयम् = मम इति मदीयम् तद्धितः, मदीयं हृदयम्, तत् क.धा |
॥ हरिः ॐ तत् सत् ॥