Monday, April 14, 2025

Sri Krishna Karnamritam 1.62





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

कदा नु कस्यां तु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः ।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन्विषयीकरोति ॥ १.६२ ॥  

Meaning: Oh, when will Bhagavān Ṣrīkṛṣṇa, in what extreme moment of our misery, will that Lord of child-like form, that Ocean of Compassion, looking on with His long lotus-petal-like eyes of sidelong glances, make us the subject of His sight?

व्याकरणांशाः
कदा नु कस्यां तु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः ।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन्विषयीकरोति ॥ १.६२ ॥
कदा, नु, कस्याम्, तु, विपद्-दशायाम्, कैशोर-गन्धिः, करुणा+अम्बुधिः,नः, विलोचनाभ्याम्, विपुलायताभ्याम्, वि+आलोकयिष्यन्, विषयीकरोति
सन्धयः
कस्याम्, विपद्-दशायाम्, विलोचनाभ्याम्, विपुलायताभ्याम् = मोऽनुस्वारः
करुणा+अम्बुधिः+नः = ससजुषो रुः
वि+आलोकयिष्यन् = इको यणचि
कैशोर-गन्धिः = ससजुषो रुः & ख़रवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
नः = ससजुषो रुः & खरवसावनयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
कदा नु कस्याम् तु विपद्-दशायाम् कैशोर-गन्धिः करुणा+अम्बुधिः विलोचनाभ्याम् विपुलायताभ्याम् वि+आलोकयिष्यन् नः विषयीकरोति
Oh, when will Bhagavān Ṣrīkṛṣṇa, in what extreme moment of our misery, will that Lord of child-like form, that Ocean of Compassion, looking on with His long lotus-petal-like eyes of sidelong glances, make us the subject of His sight?
सुबन्तप्रक्रिया
कदा = अव्ययम्
नु = अव्ययम्
कस्याम् = किम्, स्त्री, ७.१, ङि, किमः कः, अजाद्याष्टाप्, अकः सवर्णे दीर्घः, सर्वनाम्नः स्याड्ढ्रस्वश्च,आद्यन्तौ टकितौ
तु = अव्ययम्
विपद्-दशायाम् = आ, स्त्री, ७.१, ङि, याडापः, आद्यन्तौ टकितौ, अकः सवर्णे दीर्घः
कैशोर-गन्धिः = इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
करुणा+अम्बुधिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नः = अस्मद्, पुं, ६.३, आम्, आमि सर्वनाम्नः सुट्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
विलोचनाभ्याम् = अ, नपुं, ३.२, भ्याम्, सुपि च
विपुलायताभ्याम् = अ, नपुं, ३.२, भ्याम्, सुपि च
वि+आलोकयिष्यन् = त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङाब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
तिङन्तप्रक्रिया
विषयीकरोति = अविषयं विषयं करोति चिव्, डुकृङ् करणे, तनादिः, परस्मैपदी (उभयपदी), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
विपद्-दशायाम् = विपदाम् दशा, तस्याम् ६तत्
कैशोर-गन्धिः = किशोरस्य गन्धिः यस्य सः बहुव्रीहिः
करुणा+अम्बुधिः= करणायाः अम्बुधिः ६तत्
विलोचनाभ्याम् = विकृषष्टे लोचने क.धा, ताभ्याम्
विपुलायताभ्याम् = विपुले आयते (इव लोचने) क.धा, ताभ्याम्
वि+आलोकयिष्यन् = विकृष्टरीत्या आलोयति भविष्यति शतृ कृदन्तः

॥ हरिः ॐ तत् सत् ॥